सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ।। १४ ।।

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।

मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ।। १४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– सन्तुष्टः यदृच्छालब्धेन योगी ध्यानरूप-ज्ञानोपायवान् यतात्मा निगृहीतचित्तः दृढनिश्चयः अप्रामाण्यशङ्काकलङ्करहिततत्त्वनिश्चयवान् । अर्पितमनोबुद्धिः ‘बुध्यतेऽनया’ इति बुद्धिर्वाक् । मानसं वाक् च मय्येव अर्पिते यस्य स तथा । मनःशब्देन मननम््, बुद्धिशब्देन मनोवृत्तिविशेषो निदिध्यासनं गृह्यत इत्यपि आहुः । मद्भक्तः च स मे प्रियः ।। १४ ।।