सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ।। ५६ ।।

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।

मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ।। ५६ ।।

भाष्यम्

पुनरन्तरङ्गसाधनान्युक्त्वोपसंहरति सर्वकर्माणीत्यादिना ।। ५६ ।।

भावप्रदीपिका

उत्तरश्लोकसन्दर्भमवतारयति– पुनरिति ।। ५६।।

प्रमेयदीपिका

उत्तरग्रन्थस्य सङ्गतिं सूचयंस्तात्पर्यमाह– पुनरिति ।। उपसंहरति ‘शास्त्रम्’ इति शेषः ।। ५६ ।।

भावरत्नकोशः

प्रागपि साधनानामुक्तत्वात् भाष्ये ‘पुनः’ इत्युक्तमिति स्फुटत्वान्नोक्तम् ।।

पुनरन्तरङ्गज्ञानसाधनान्युपदिशता शास्त्रमुपसंह्रियते– सर्वकर्माणीत्यादिना ।। सर्वकर्माणि विहितान्येव सर्वाणि कर्माणि, अपिशब्दस्तु ‘एकमपि कर्म तदानश्रयणेन न कार्यम्’ इत्यर्थे । मद्व्यपाश्रयः अहमेव व्यपाश्रयः सम्यगाश्रय यस्य स तथा ‘मय्येव समर्पयन्’ इति यावत् । सदा कुर्वाणः मत्प्रसादात् ममानुग्रहात् शाश्वतं शश्वदेकप्रकारम् अव्ययं नित्यं पदं परब्रह्मस्वरूपम् अवाप्नोति ।। ५६ ।।