सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ।। २७ ।।
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ।। २७ ।।
भाष्यम्
आत्मसंयमाख्योपायाग्नौ ।। २७ ।।
भावप्रदीपिका
‘आत्मसंयम....’ इत्यप्रतीतिं निराचष्टे– आत्मेति ।।२७।।
भावप्रकाशिका
।। आत्मा अन्तःकरणम् । तस्य संयमे सतीन्द्रियादिसंयमो भवतीति तस्योपायतेति भावः ।। २७ ।।
प्रमेयदीपिका
‘आत्मसंयम’ इत्येतद् दुर्गमार्थत्वाद् व्याख्याति – आत्मेति ।। आत्मनः मनसः । आत्मसंयमाख्यो य उपायः स एवाग्निः ।। २७ ।।
भावरत्नकोशः
आत्मनः संयमः आत्मसंयमः, स चासौ योग इति विग्रह-मभिप्रेत्यात्मशब्दार्थमाह– आत्मनो मनस इति ।। य उपाय इति ।। गीतागतयोगशब्दार्थो य उपाय इतीति भावः । विवृतं च प्राचीनटीकायाम् - आत्मनः अन्तःकरणस्य संयमे सति इन्न्द्रियादिसंयमो भवतीति तस्योपायतेति ।।
अक्षरार्थस्तु अपरे योगिनः सर्वाणीन्द्रियकर्माणि वाक्-पाणि-पाद-पायु-उपस्थ-शब्दित-कर्मेन्द्रियव्यापारान् प्राणकर्माणि प्राणापानादिव्यापारांश्च आत्मसंयमयोगाग्नौ आत्मनो मनसः संयमो निग्रहशब्दितो योग उपायः स एव अग्निः तस्मिन् ज्ञानदीपिते जुह्वति । भगवदधीनताज्ञानपूर्वकं स्वातन्त्र्याभिमानत्यागेन मनो निगृह्य कर्मेन्द्रियव्यापारान् भगवत्पूजात्वेन नियच्छन्तीत्यर्थः ।।२७।।