अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ नच तत् प्रेत्य नो इह ।। २८ ।।

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।

असदित्युच्यते पार्थ नच तत् प्रेत्य नो इह ।। २८ ।।

ॐ तत्सदिति श्रीमद्भवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे त्रिगुणविभागो नाम सप्तदशोऽध्यायः ।। १७ ।।

भाष्यम्

तथा च ऋग्वेदखिलेषु–‘ॐ यज्ञाद्या निष्फलं कर्म तत् स्यात् सद् वै तदर्थं कर्मेति वदन्ति देवाः । तच्छब्दानां सन्निधेर्ब्रह्मप्रीतेस्तद्रूपत्वाज्जनितं ब्रह्म तस्य’ इति ।। २८ ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये सप्तदशोऽध्यायः ।। १७ ।।

भावप्रदीपिका

ननु ब्रह्मणः कर्मादीनामोमादिशब्दवाच्यत्वे केतिकर्तव्य-तोक्ता स्यात् ? इत्यत आह– ओमिति । ब्रह्मैव निष्पादितं सन्निधापितं स्यात्, यज्ञादेः तत्प्रतिमात्वात् । ब्रह्मप्रतिमात्वं कुतः ? नामसाम्यात् । नामसाम्यं सर्वपदार्थेष्वपि सममिति न वाच्यम् । अतिप्रीतेः ।। २८ ।।

प्रमेयदीपिका

‘अश्रद्धया’ इत्यनेन ब्रह्मभक्तिरपीति ।। अत्र श्रुति-सम्मतिमाह– तथा चेति ।। ओं यज्ञाद्याः वेदाद्योतत्वात् । निष्फलम् । फलोद्देश-रहितत्वात् । तदर्थं ब्रह्मविषयम् । एवं तच्छब्दानां ब्रह्मशब्दानां यज्ञादिषु सन्निधेः अवगततद्रूपत्वात् तत्प्रतिमात्वात् । तस्य उक्तप्रकारेण यज्ञादीनामनुष्ठातुः ।। २८ ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां सप्तदशोऽध्यायः ।। १७ ।।

भावबोधः

।। अश्रद्धयेत्यनेनेति ।। अश्रद्धया हुतादेरसत्त्वेन तत्सत्त्वे तद्विरोधितया भक्तिः निमितत्वेन लभ्यत इति भावः । ब्रह्मशब्दानामिति ।। अनेन तस्य ब्रह्मणः वाचकानामोमादिशब्दानामिति व्याख्यातं भवति ।। २८ ।।

।। इति श्रीरघूत्तमतीर्थप्रणीता गीताभाष्यटीकाभावबोधे सप्तदशोऽध्यायः ।।

भावदीपः

।। अश्रद्धयेत्यनेनेति ।। तादृशहोमादेरसत्वादिना निन्दोक्त्या भक्तिपूर्वानुष्ठानस्य लाभादिति भावः ।। अत्रेति ।। ‘ओमित्युक्त’ इत्यादिनोक्तार्थे भाष्ये ‘यज्ञाद्या ओंनामकाः’ इत्यर्थमुपेत्य ओंपदवाच्यत्वे निमित्तं स्वयमाह वेदाद्योतत्वादिति ।। सन्निधेरिति ।। पञ्चमी यज्ञादिषु विद्यमानस्य हेतुना अवगतत्वादिति शेषोक्तिः । ‘तस्य’ इत्यनुवादः । ‘उक्त’ इत्यादि व्याख्या । ‘उक्तोङ्कारार्थज्ञानपूर्वकम्’ (१७.२६) इत्यादिनोक्त-प्रकारेणेत्यर्थः ।। २८ ।।

।। इति श्रीमद्गीताभाष्यटीकाभावदीपे राघवेन्द्रयतिकृते सप्तदशोऽध्यायः ।।

भावरत्नकोशः

ब्रह्मभक्तिरपि लब्धा । अश्रद्धया हुतादि निराक्रियते । ‘न हि निन्दा निन्द्यं निन्दितुं क्रियते, अपि तु स्तुत्यं स्तोतुम्’ इति न्यायेन श्रद्धाशब्दितभक्तिस्तुतौ तात्पर्यावगमादिति भावः । अत्र ‘ओमित्युक्त्वा, अनभिसन्धाय फलम् इत्यादिभाषितार्थे । श्रुतीः ‘ओं यज्ञाद्याः ओंनामकाः यज्ञदानतपःक्रियाः’ इत्यर्थं इति हृदि निधाय तत्र निमित्त-माह– वेदाद्योतत्वादिति ।। आदिशब्देन वैदिकग्रन्थानां ब्रह्मणश्च सङ्ग्रहः । ननु वेदोक्तस्य भगवद्विषयकस्य कर्मणः कथं निष्फलत्वम् इत्यतो निष्फलत्वं घटयति– फलेति ।। अनेन ‘यज्ञादिकर्म तत्फलं वेदोक्तं स्वर्गादिकं मे स्यात्‘ इत्यनभिसन्धायानुष्ठितं तत् तच्छब्दवाच्यम्’ इति व्याख्यातं भवति । ‘ब्रह्मविषयं कर्म सच्छब्दार्थं वेदा वदन्ति’ इति भाष्यपदेनान्वयः । एवमिति ।। वेदादिप्रतिपाद्यतया ब्रह्माधानत्वेन च निमित्तेन ओंशब्दस्य, फलोद्देशरहितत्वेन निमित्तेन तच्छब्दस्य, ब्रह्मविषयत्वेन निमित्तेन सच्छब्दस्य इत्येवं तच्छब्दानां ब्रह्मशब्दानां ब्रह्मवाचकओंशब्दतच्छब्दसच्छब्दानां यज्ञादिषु यज्ञदानतपस्तु सन्निधेः वाचकत्वेन वर्तमानात् निमित्तात् ‘अवगतात्’ इत्यध्याहारः । ‘तद्रूपत्वात् इत्यनुवादः, ‘तत्प्रतिमात्वात् इति व्याख्यानम् । ‘तस्य’ इत्यस्योक्तप्रकारेण इत्यादि व्याख्यानम् । उक्तप्रकारेण ‘ओङ्कारार्थ-ज्ञानपूर्वकम् ओङ्कारमुच्चार्य, अनभिसन्धाय फलम् ब्रह्माभिसन्धाय च’ इत्याद्युक्तप्रकारेण । अनुष्ठातुः ब्रह्म जनितं प्रादुर्भूतमित्यन्वयः । उक्तप्रकारेण यज्ञदानतपोजपादिकमनुतिष्ठता साधकेन ब्रह्मैव निष्पादितं भवतीत्याशयः ।। २८ ।।

गीताक्षरार्थस्तु– भगवद्भक्तिरपि यज्ञादीतिकर्तव्यता इति भावेनोच्यते– अश्रद्धयेति ।। अश्रद्धया भगवच्छ्रद्धाभावेन ‘भगवद्भक्त्या विना’ इति यावत्, यद् हुतं दत्तं तप्तम् अनुष्ठितं तपः यच्च अन्यत् कृतं कर्म जपादि तद् असदित्युच्यते । कुतः यतः तद् हवनादि प्रेत्य स्थितस्य लोकान्तरे न फलति । इह अपि नो न फलतीति ‘श्रद्धयैव कर्म कर्तव्यम्’ इति ‘भक्तिरपि’ इतिकर्तव्यताविशेष इत्युक्तं भवति । तदनेन ओङ्कारार्थज्ञानपूर्वकम् ओङ्कारमुच्चार्य, अनभिसन्धाय फलम्, ब्रह्म अभिसन्धाय च, ब्रह्मज्ञानभक्तिपूर्वकं तद्विषयत्वेन निष्ठया वेदोक्तप्रकारेण ब्राह्मणैः सह यज्ञादिकं कार्यम् । एवं यज्ञादिकं कुर्वद्भिः साधकैर्ब्रह्मणि यज्ञादौ च ओङ्कारादिनामसाम्येन अवगततत्प्रतिमात्वाद् यज्ञादेस्तत्र यज्ञादौ ब्रह्मणोऽतिप्रीतेः तत्र ब्रह्मैव निष्पादितं भवति । अत एवं क्रियमाणं यज्ञादिकं सात्त्विकम्, अतथाभूतं तु यज्ञादिकं राजसं तामसमित्येवम् इतिकर्तव्यताप्रतिपादने ‘ओं तद् इत्याद्युपदेष्टुः गीताचार्यस्य तात्पर्यमिति ।। २८ ।।

आर्यस्वान्ताम्भोजहंसायमानौ संसाराम्भोराशिनावौ समानौ ।

भूयास्तां तौ भूतये भूरिमानौ वेदव्यासानन्दतीर्थाभिधानौ ।।

नमस्ते नमस्ते नमस्ते दयालो नमस्ते नमस्ते नमः श्रीनृसिंह ।

नमस्ते नमस्ते नमस्ते मुरारे नमस्ते नमस्ते नमो व्यास राम ।।

।। इति श्रीमत्परमहसपरित्राजकाचार्यश्रीमत्सुरेन्द्रतीर्थपूज्यपादशिष्यसुमतीन्द्रतीर्थविरचितायां प्रमेयदीपिकाव्याख्यायां भावरत्नकोशसमाख्यायां सप्तदशोऽध्यायः ।।

भावदीपिका

।। अश्रद्धयेत्यनेनेति ।। अश्रद्धया हुतादेरसत्त्वे सति तेषामेव हुतादीनां सत्त्वे अश्रद्धाविरोधितया भक्तिर्निमितत्वेन लभ्यत इति भावः । वेदाद्योतत्वादिति ।। आदिपदेन ब्रह्मसङ्ग्रहः । वेदेषु प्रतिपाद्यतया प्रविष्टत्वात् ब्रह्मणि चाधेय-तया प्रविष्टत्वादित्यर्थः । गीतायां ‘स चासावर्थश्च तदर्थः, तत्सम्बन्धिं तदर्थीयम्’ इत्यर्थः । ब्रह्मशब्दानामिति ।। अनेन ‘तस्य ब्रह्मणो वाचकानामोमादिशब्दानाम्’ इति व्याख्यातं भवति । सन्निधेरिति ।। सन्निधेर्निमित्तादवगतं तद्रूपत्वं तत्प्रतिमात्वं तस्माद्ब्रह्मणः प्रीतेर्जाय-मानत्वादित्यर्थः । तस्येति ।। कर्तरि षष्ठी । तेन ‘उक्तप्रकारेण यज्ञादीनामनुष्ठात्रा ब्रह्म जनितं व्यक्तं भवति’ इत्यर्थः ।। २८ ।।

इति यदुपतिवरगीताभाष्यटीकासुयुक्ता

शयमतिललिताभिर्गीर्भिरावेदयित्री ।

सुललितविवृतिर्या वृष्णिराट्छात्रचीर्णा

दशम अगमदध्यायोऽन्तमस्यां ससप्तः ।।

भावप्रकाशः

।। अश्रद्धयेति ।। न हि निन्दा निन्द्यं निन्दितुं भवति । अपि तु स्तुत्यं स्तोतुमिति न्यायेन भक्तिस्तुतौ तात्पर्यादिति भावः । ब्रह्मशब्दानामिति ।। ब्रह्मवाचकोमादिशब्दानामित्यर्थः ।। २८ ।।

।। इति श्रीमत्तिर्मलाचार्यसूरिसूनुकृष्णविरचिते प्रमेयदीपिकाप्रकाशे सप्तदशोऽध्यायः ।।