यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ।। १० ।।

यातयामं गतरसं पूति पर्युषितं च यत् ।

उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ।। १० ।।

भावरत्नकोशः

गीताक्षरार्थस्तु यातयाममिति ।। यातो यामः प्रहरो यस्य तथा । यामाद् उपरिगतप्रहरमित्यर्थः । यामं नियम्यम् अपेक्षितांशः सार इति यावत् । गतरसं पूर्वं स्वाद्वेव, पश्चाद् अन्यथाजातं गतरसम् । यो वा को वा यस्य रसः तदपगमे यातयामम्, स्वादुत्वापगमे गतरसमित्यर्थभेद इति न्यायदीपिका । एतेन ‘पङ्क्तिपावनपुरुषान्नस्य सात्त्विकत्व-प्रसिद्धेः कथं यातयामं गतरसम्’ इति शङ्का निरस्ता । पूति स्वतः परिणामतो वा दुर्गन्धोपेतम्, पर्युषितं पक्वम् सद् रात्र्यन्तरितदिनान्तरितपाकमित्यपि आहुः । उच्छिष्टम् अन्यभुक्तावशिष्टम् अमेध्यम् अयज्ञार्हम् अपवित्रं भोजनं कर्मणि ल्युट् अभ्यवहर्तव्यं तामसप्रियं तामसजनस्येष्टम्

।। १० ।।