विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ।। ५९ ।।

विषया विनिवर्तन्ते निराहारस्य देहिनः ।

रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ।। ५९ ।।

भाष्यम्

नचैतल्लक्षणं ज्ञानमयत्नतो भवतीत्याहोत्तरैः श्लोकैः । निराहारत्वेन विषय-भोगसामर्थ्याभाव एव भवति ।।

भावप्रदीपिका

एवंभूतं चेत् ज्ञानम्, कुतस्तर्हि सर्वे न साधयन्ति ? इत्या-शङ्कां परिहर्तुं श्लोकत्रयमवतारयति– न चेति ।। तत्राद्यश्लोकं व्याचक्षाणोऽवतारयति– निराहारत्वेनेति ।। एवकारेण ‘रसवर्जम्’ इति व्याख्यातः । रागो न निवर्तत इत्यर्थः ।।

भावप्रकाशिका

पुनः श्लोकत्रयान्ते लक्ष्यनिर्देशात्, लक्षणस्यैव पृष्टत्वात् तत्रापि लक्षणोक्तिशङ्का मन्दस्य स्यात् । तां व्यावर्तयितुं तत्र प्रतिपाद्यमाह– न चेति ।। तत्राद्यश्लोकं व्याचक्षणोऽवतारयति– निराहारेति ।। निराहारत्वेन विषयभोगसामर्थ्याभाव एव भवति इत्यनेन साष्टमांशस्य पूर्वार्धस्य एकोऽर्थः कथ्यते । एवकारेण रसवर्जमित्येतत् व्याख्यानात्(तम्) । द्वौ हि विषयप्रवृत्तिहेतू रागो भोगशक्तिश्च । निराहारत्वं च तन्निवृत्तिहेतुः । एवं च निराहारस्य रसवर्जं विषया विनिवर्तन्त इत्युक्ते केषाञ्चिन्निराहार-त्वेन भोगशक्त्यभावः एव न रागाभाव इत्यर्थः ।।

प्रमेयदीपिका

‘विषया विनिवर्तन्ते’ इत्यादिश्लोकत्रयान्तेऽपि ‘तस्य प्रज्ञा प्रतिष्ठिता’ इत्युक्तत्वादिदमपि लक्षणविवरणमिति भ्रान्तिस्स्यात् । तन्निराकरणार्थमाह– नचेति ।। एतल्लक्षणं यस्माद्भवति तदेतल्लक्षणम् । ‘अयत्नतः’ अल्पयत्नतः । ‘अनुदरा कन्या’ इति यथा । ‘यद्येवंलक्षणकं ज्ञानं तर्हि सर्वोऽपि जनः कस्मान्न तत्साधयति । कामाद्युपद्रवपरिहारार्थं किं दन्दह्यमानशिरा इव बम्भ्रमीति । अतो नास्त्येवेदं ज्ञानिषु लक्षणमित्याशङ्कापरिहारार्थम्’ इति शेषः ।।

‘त्रिभिः’ इत्यनुवर्तते । ज्ञानस्याल्पप्रयत्नासाध्यत्वमत्र न प्रतीयत इत्याशङ्क्योपोद्घात-प्रक्रिययेन्द्रियजयस्य तावन्महाप्रयत्नसाध्यत्वमाद्येन श्लोकेनोच्यत इति भावेन तं व्याचष्टे– निराहारत्वेनेति ।। एतेन ‘रसवर्जम्’ इत्येतदन्तस्य वाक्यस्यार्थ उक्तः । एवशब्देन ‘रसवर्जम्’ इत्येतद्व्याचष्टे । तथाहि– निराहारस्य देहिनः । तेन निराहारत्वेनेति यावत् । ‘विषयाः’ रूपादयः । तद्भोगसमर्थानीन्द्रियाण्यनेनोपलक्ष्यन्ते । तानि विनिवर्तन्ते । ‘रसवर्जं’ रसः रागः, तं वर्जयित्वा । विषयाभिलाषः चैतसिको निराहारत्वेन न विनिवर्तत इति ।।

भावबोधः

ननु ‘प्रजहाति’ इत्यादिना ज्ञानिन एव लक्षणमुक्तम्, न तु ज्ञानस्य । अत एतल्लक्षणमित्यत्र षष्ठ्यर्थबहुव्रीहिर्न सम्भवतीत्यत आह– एतल्लक्षणं यस्मादिति ।। काम-प्रहणादेः अपरोक्षज्ञानसाध्यत्वादिति भावः । उपोद्घातेति ।। ज्ञानस्य अल्पप्रयत्नासाध्यत्वे तत्साधनेन्द्रियजयस्य महाप्रयत्नसाध्यत्वस्य हेतुत्वादिति भावः । इन्द्रियाणि (अनेन उपलक्ष्यन्ते) इति ।। निराहारत्वेन विषयाणां निवर्तनाभावात् विषयविषयिभावलक्षणशक्यसम्बन्धात्, विषयभोगसामर्थ्यद्योतनरूपप्रयोजनसम्भवाच्चेति भावः । तानि विनिवर्तन्त इति ।। तेषां विषयभोगशक्तिः क्षीयत इति यावत् ।।

भावदीपः

।। एतदिति ।। सर्वकामप्रहाणादिरूपं लक्षणमित्यर्थः । ‘षष्ठी शेषे’ (पा.सू.२.३.५०) इति सूत्रभाष्योक्तमाह– अनुदरा कन्येति यथेति ।। सूक्ष्ममध्यमायामनुदरा इति यथोच्यते तथेत्यर्थः ।। एवंलक्षणमिति बहुव्रीहिः । कामप्रहाणादिलक्षणसाधनं ज्ञानं यदीत्यर्थः ।। न तदिति ।। ज्ञानमित्यर्थः ।। बम्भ्रमीति ।। पुनः पुनः भ्रमतीत्यर्थः । ‘भ्रमु चलने’ (पा.धा.८५०) इत्यस्य यङ्लुकि रूपम् ।। उपोद्घातप्रक्रिययेति ।। उपयुक्तं प्रागुक्त्वा पश्चात्तत्प्रधानोक्तिरिति न्यायेनेत्यर्थः ।। इन्द्रियजयस्य महाप्रयत्नसाध्यत्वोक्तिश्च ज्ञानस्य अल्पप्रयत्नासाध्यत्वोक्तावुपयुक्तेति भावः ।।

वाक्यार्थप्रदीपः

।। दन्दह्यमानशिरा इति ।। ‘दह भस्मीकरणे’ इत्यस्मात् ‘लुपसदचर’ इति धात्वर्थगर्हायां यङि ‘सन्यङोः’ इति द्विर्भावे हलादिशेषे ‘जपजभदह’ इति अभ्यासस्य नुकि अनुस्वारे निष्पन्नदन्दह्यशब्दस्य ‘सनाद्यन्ता धातवः’ इति धातुसंज्ञायां कर्मणि शानचि ‘आनपरे मुक्’ इति मुकि  दन्दह्यमानशब्दनिष्पत्तिः । गर्हितं दन्दह्यत इति दन्दह्यमानं तादृशं शिरो यस्य स तथोक्त इत्यर्थः ।। ‘भ्रमु चलने’ इत्यस्मात् पुनः पुनः अतिशयेन भ्रमतीत्यर्थे धातोः ‘एकाचः’ इति यङि, यङः ‘अचि च’ इति अनिमित्तकत्वेनान्तरङ्गत्वादादो यङो लुकि प्रत्ययलक्षणेन यङन्तत्वात् ‘सन्यङोः’ इति द्विर्भावे हलादिशेषे, ‘अभ्यासस्य च’ इति अभ्यासस्य वश्भावे अभ्यासकार्ये अनुनासिकान्तस्येति अदन्ताभ्यासस्य नुकि तस्यानु-स्वारे सति धातुत्वात् लटि तस्य तिपि यङः ‘अनुदात्ते च’ इति यङन्तात् परस्य हलादेः ‘पितः सार्वधातुकस्य’ इति पिति बम्भ्रमतीति रूपनिष्पत्तिरिति द्रष्टव्यम् ।।

भावरत्नकोशः

ननु ‘प्रजहाति’ इत्यादिना ज्ञानिन एव लक्षणमुक्तं न तु ज्ञानस्य । अतः ‘एतल्लक्षणम्’ इत्यत्र यस्य तदिति षष्ठ्यर्थगर्भबहुव्रीहिर्न सम्भवतीत्यत आह– एतदिति ।। कामप्रहाणादिरूपमित्यर्थः । ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इति वक्ष्यमाणरीत्या ज्ञानिलक्षणकामप्रहाणादेरपरोक्षज्ञानसाध्यत्वावगमादिति भावः । नन्वपरोक्षज्ञानस्य सर्वमतेऽपि यत्नजन्यत्वादप्रसक्तमयत्नजन्यत्वं कथं निषिध्यते भाष्य इत्यत आह– अल्पयत्नत इति ।।

‘तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।

 अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः’

 इत्युक्तेर्नञोऽत्राल्पार्थत्वमिति भावः ।

अत्र प्रयोगमपि प्रमाणयति – अनुदरा कन्येति यथेति ।। ‘षष्ठी शेषे’ इति सूत्रमहाभाष्ये ‘सतोऽप्यविवक्षा भवति । यथाऽनुदरा कन्या’ इत्युक्तम् । तद् विवृतं कैयटे ‘सदप्युदरं महत्त्वाभावप्रतिपादनाय न विवक्ष्यते’ इति ।। तथा च नञो महत्त्वाभावरूपाल्पत्वमर्थ इत्यल्पोदरेत्यर्थः सम्पद्यते । ‘नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्चेति वैकल्पिकष्टाप्’ इति ।। एवंलक्षणं एवंविधलक्षणकारणम् । कामादीति ।। कस्मादित्यनुवर्तते । भ्रमतेर्यङ्लुगन्तस्य रूपं – बम्भ्रमीतीति ।। पुनःपुनर्भ्रमतीत्यर्थः । ज्ञानसम्पादनेन कामाद्युपद्रवनिबर्हणसम्भवादिति भावः ।। त्रिभिरितीति ।। ‘उत्तरैः’ इत्यनन्तरमिति शेषः । उपोद्घातप्रक्रिययेति ।। ‘चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षते’ इत्युक्तोपोद्घातसङ्गत्येत्यर्थः । इन्द्रियजयस्य महाप्रयत्न-साध्यत्वोक्तिर्ज्ञानस्याल्पप्रयत्नासाध्यत्वोक्त्युपयोगिनीति भावः ।

ननु ‘रसवर्जमित्येतदन्तस्य’ इति कथम् । भाष्ये तदर्थानुक्तेरित्यत आह– एवशब्देनेति ।। तदुभयं भाष्यारूढत्वायोपपादयति– तथा हीति ।। गीतापदमनुवदंस्तस्य भाष्यं तार्त्पयकथन-मित्याह– निराहारस्येति ।। अनेन विषयपदेन निराहारत्वेन विषयनिवृत्त्यननुभवादुपलक्षण-त्वोक्तिः । तानि तद्भोगसमर्थानीन्द्रियाणीत्यस्य इन्द्रियाणां विषयभोगसामर्थ्यानि निवर्तन्त इत्यर्थः । ‘सविशेषणे हि विधिनिषेधौ विशेष्ये बाधाद् विशेषणमुपसङ्क्रामतः’ इति न्यायादिति भावः । ‘तेन रक्तं रागात्’ इत्यादौ रागशब्दस्यान्यार्थपरत्वादत्र विवक्षितमर्थमाह– विषयाभिलाषश्चैतसिक इति ।।

भावदीपिका

‘प्रजहाति’ इत्यादिना ज्ञानिन एव लक्षणमुक्तं न ज्ञानस्य । अत एतत् लक्षणं यस्येति षष्ठ्यर्थगर्भबहुव्रीहेरयोगात् पञ्चम्यर्थगर्भो बहुव्रीहिरित्याह– एतदिति ।। यस्मादिति ।। कामप्रहाणादेरपरोक्षज्ञानसाध्यत्वादिति भावः । नन्वयत्नतो न भवतीत्युक्त्या यत्नतो भवतीति प्राप्तम् । तथाचाल्पयत्नतोऽपि भवतीति प्राप्त्या प्रकृतविरोध इत्यत आह– अयत्नत इति ।। ननु नञोऽल्पार्थत्वं कुत्र दृष्टम्? इत्यत आह– अनुदरा कन्येति ।। अल्पोदरवतीत्यर्थः ।। तदिति ।। कामादिप्रहाणिलक्षणकं तत्साधनं ज्ञानमित्यर्थः ।। उपोद्घातप्रक्रिययेति ।। ज्ञानस्याल्पप्रयत्नासाध्यत्वे तत्साधनेन्द्रियजयस्य महाप्रयत्नसाध्यत्वस्य हेतुत्वादिति भावः ।। इन्द्रियाणीति ।। निराहारत्वेन विषयाणां निवर्तनरूपमुख्यार्थासम्भवाद् विषयविषयिभावलक्षणशक्यसम्बन्धाद् विषयभोगलक्षणसामर्थ्यद्योतनरूपप्रयोजनसद्भावा-च्चेन्द्रियाणि लक्ष्यन्त इति भावः ।। तानि विनिवर्तन्ते तेषां विषयभोगशक्तिः क्षीयत इति यावत् । चैतसिकः विषयपञ्चकविषयकमानसिकरागः । पञ्चानां बाह्येन्द्रियाणां स्वस्वविषय-भोगशक्तिक्षयो निराहारत्वेन भवति । विषयपञ्चकविषयकमानसिकरागक्षयो निराहारत्वेन न भवति । किन्त्वपरोक्षज्ञानेनैव भवतीत्याशयः ।।

भावप्रकाशः

 प्रजहातीत्यादिना ज्ञानिन एव लक्षणमुक्तं न तु ज्ञानस्य । अत एव एतल्लक्षणमित्यत्र षष्ठ्यर्थ बहुव्रीह्ययोगादाह– एतल्लक्षणं यस्मादिति ।। कामप्रहाणादेर-परोक्षज्ञानजन्यत्वादिति भावः । नन्वपरोक्षज्ञानस्य सर्वमतेऽपि यत्नजन्यत्वात् अयत्नजन्यत्व-मप्रसक्तं कथं निषिध्यत इत्यत आह– अल्पयत्नत इति ।।

‘तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।

 अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः’

इत्युक्तेः नञोऽल्पार्थत्वादिति भावः । अल्पार्थत्वे प्रयोगमप्याह– अनुदरेति ।। अल्पो-दरेत्यर्थः । उपोद्घातेति ।। ज्ञानस्याल्पप्रयत्नासाध्यत्वं यत्प्रकृतं तदुपयुक्तत्वेनेत्यर्थः । ननु रसवर्जपदार्थस्यैवानुक्तत्वात् कथमुच्यते रसवर्जमित्येतदन्तस्यार्थ उक्त इतीत्यत आह– एवशब्देनेति ।। निराहारत्वेन विषयनिवृत्त्यभावादाह– उपलक्ष्यन्त इति ।। तानि निवर्तन्त इति ।। सविशेषणे हीति न्यायेनेन्द्रियाणां विषयभोगशक्तयो निवर्तन्त इत्यर्थः ।।

Load More