तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।। ६८ ।।

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता  ।। ६८ ।।

भाष्यम्

तस्मात् सर्वात्मना निगृहीतेन्द्रिय एव ज्ञानीति निगमयति– तस्मादिति ।।

भावप्रदीपिका

उत्तरश्लोकमवान्तरोपसंहारतयाऽवतारयति– तस्मादिति

।। ६८ ।।

भावप्रकाशिका

सर्वात्मनेति ।। निराहारत्वविषयध्यानाभावादिनेत्यर्थः

।। ६८ ।।

प्रमेयदीपिका

अत्र परमं प्रमेयं ज्ञानिलक्षणं (च) प्रकृतम् । तस्यासम्भव-परिहाराय ज्ञानस्य महाप्रयत्नसाध्येन्द्रियनिग्रहसाध्यत्वं च । तत्र कस्यायमुपसंहार इति न ज्ञायते । अत आह– तस्मादिति ।। ज्ञानी ‘जायते’ इति शेषः । यत एवं निगृहीतेन्द्रिय-स्यैव प्रसादः, प्रसादवत एव युक्तिः, युक्तिमत एव श्रवणमननाभ्यां तत्त्वज्ञानम्, तत्त्वज्ञानवत एवापरोक्षज्ञानसाधनं ध्यानम्, नान्यथा तस्मादित्यर्थः ।। ६८ ।।

भावदीपः

।। अत्रेति ।। ‘स्थितप्रज्ञस्य’ इत्यारभ्य ‘प्रजहाति’ इत्यारभ्य वा ‘या निशा’ इत्यन्तप्रकरण इत्यर्थः ।। परमं प्रमेयं ज्ञानम् ।। तस्येति ।। सर्वकामप्रहाणादि-रूपलक्षणस्येत्यर्थः ।। साध्यत्वं च इत्यत्र ‘प्रकृतम्’ इत्यनुषज्यते । ‘विषया विनिवर्तन्ते’ इत्यादिनेति भावः ।। प्रसादः मनःप्रसादः ।। युक्तिः चित्तनिरोधः ।। तत्त्वज्ञानम् अयमेव अस्यार्थ इति तत्त्वनिश्चयः ।। ६८ ।।

भावरत्नकोशः

।। अत्र ‘प्रजहाति’ इत्यारभ्य ‘तदस्य हरति प्रज्ञाम्’ इति ज्ञानिलक्षणकथनप्रकरणे । असम्भवेति ।। यदि ज्ञानं सर्वकामप्रहाणजनकं तर्हि सर्वोऽपि जनः कस्मान्न तत् साधयतीत्युक्तासम्भवेत्यर्थः । ‘निगृहीतेन्द्रिय एव ज्ञानी’ इति भाष्ये व्याप्तिरेव प्रतीयते । शङ्खः पाण्डुर एवेति यथा । न त्विन्द्रियनिग्रहज्ञानयोर्जन्यजनकभाव इत्यत आह– ज्ञानी जायत इति शेष इति ।। प्रसादः मनःप्रसादः । युक्तिः चित्तनिरोधः । तत्त्वज्ञानं परोक्ष-निश्चयरूपम् ।। ६८ ।।

गीताक्षरार्थस्तु– एवं ‘प्रजहाति’ इत्यादिनोक्तज्ञानिलक्षणस्यासम्भवपरिहाराय ज्ञानस्य महाप्रयत्नसाध्येन्द्रियनिग्रहसाध्यत्वं ‘विषया विनिवर्तन्ते’ इत्यादिना यदुक्तं तदुपसंह्रियते– तस्मादिति ।। यत एवं निगृहीतेन्द्रियस्यैव प्रसादः, प्रसादवत एव चित्तनिरोधशब्दितयुक्तिः, युक्तिमत एव श्रवणमनने, ताभ्यां तत्त्वज्ञानम्, तत्त्वज्ञानवत एवापरोक्षज्ञानसाधनं ध्यानं नान्यथा, तस्माद् यस्य सर्वशः सर्वाणि इन्द्रियाणि इन्द्रियार्थेभ्यः रूपादिविषयेभ्यः निगृहीतानि तस्य प्रज्ञा ब्रह्मापरोक्षधीः प्रतिष्ठिता सुस्थिरा जायत इति ।। ६८ ।।

भावदीपिका

।। असम्भवेति ।। यदि ज्ञानं कामप्रहाण्यादिजनकं तर्हि सर्वोऽपि जनः कस्मान्न तत् साधयति ? किमर्थं कामाद्युपद्रवपरिहाराय दन्दह्यमानशिरा बम्भ्रमीति? अतो नास्त्येवेदं ज्ञानिषु लक्षणमित्यसम्भवशङ्कापरिहारायेत्यर्थः । श्रवण-मननाभ्यामित्यनन्तरम्  अज्ञानसंशयविपर्ययनिवृत्तिद्वारा  तत्त्वज्ञानं भवति । उपलक्षणमेतत् । वेदार्थनियमश्चेत्यपि ग्राह्यम् ।। ६८ ।।

भावप्रकाशः

 ननु निगृहीतेन्द्रिय एव ज्ञानीत्यनेन व्याप्तिः प्रतीयते । शङ्खः पाण्डुर एवेतिवत् । न त्विन्द्रियनिग्रहज्ञानयोः जन्यजनकत्वमित्यत आह– ज्ञानी जायत इति शेष इति ।। ६८ ।।