त्यक्त्वा कर्मफलाऽसङ्गं नित्यतृप्तो(ऽ)निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः।। २० ।।

त्यक्त्वा कर्मफलाऽसङ्गं नित्यतृप्तो(ऽ)निराश्रयः ।

कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः।। २० ।।

भाष्यम्

नच कामसङ्कल्पाभावेनालम् । आसङ्गं स्नेहं च त्यक्त्वा । ज्ञानस्वरूपम् आह पुनः– नित्यतृप्त इति । नित्यतृप्तनिराश्रयेश्वरसरूपोऽस्मीति तथाविधः ।।

भावप्रदीपिका

‘ममेदं फलं स्यात्, अहं कर्ता’ इति कामसङ्कल्पौ विहाय, कृतं कर्मेत्युक्तम् । अथाप्यस्तीत्याह – नचेति ।। ननु किमिति कामसङ्कल्पसंश्रयास्तज्जा इत्यत आह– ज्ञानेति । नित्यतृप्तनिराश्रयेश्वरसरूपत्वेन स्वस्यापि तादृशत्वाद्व्यर्थौ कामा-सङ्गौ प्रतिबिम्बत्वेना-कर्तृत्वानुसङ्कल्पोऽपि कार्य इत्यर्थः ।। २० ।।

भावप्रकाशिका

स्वारोपिताहङ्कारनिमित्तफलकामत्यागात्, स्वस्येश्वरा-धीनत्वादियाथार्थ्यज्ञानाच्च न कर्माणि बध्नन्तीत्युक्तम् । तत्र तावत् त्यागे विशेषमाह– नचेति ।। फलकामाभावेऽपि यदि फले स्नेहः स्यात्, तथाऽपि बध्नन्ति कर्माणीति सोऽपि त्याज्य इत्यर्थः । ज्ञानेऽपि विशेषमाह– ज्ञानस्वरूपमिति । न केवलं चित्प्रतिबिम्बत्वात् चित्त्वमात्रमस्य । किन्तु नित्यतृप्तनिराश्रयेश्वरप्रतिबिम्बत्वात् स्वयं च नित्यतृप्तः । अत एव निराश्रयश्च अतृप्तो ह्यन्यान् आश्रयति । ‘युक्ताश्च बिम्बधर्माः प्रतिबिम्बे’ इत्युक्तत्वात् । संसारे तु तृप्त्यादेरभिभूतत्वात् अन्यकामादिरपि भवति ।। २० ।।

प्रमेयदीपिका

‘यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः’ (४.१९) इत्यनेन यदुक्तं तदेव ‘त्यक्त्वा कर्मफलाऽसङ्गम्’ इत्यनेनोच्यते । सङ्कल्पो हि कर्मासङ्गः । कामश्च फलाऽसङ्ग इत्यतः सङ्गतिपूर्वमन्यथा व्याचष्टे– नचेति ।। नैतावता कर्मस्वरूपं सम्पूर्णमित्यर्थः । ‘किं तर्हि’ इत्यध्याहारः ।।

‘ननु नित्यतृप्तो निराश्रयः’ इति साध्योऽर्थः । स कथं साधने निवेश्यते? इत्यत आह– ज्ञानेति ।। ‘कर्मण्यकर्म ’(४.१८) इत्यपेक्षया पुनरिति । मिथ्याज्ञानमेतदित्यतोऽभि-प्रायमाह– नित्येति ।। इति हेतोरहमपि तथाविधः । किन्तु? अविद्यया तथा न प्रतीयत इति जानन्नित्यर्थः ।। २० ।।

भावदीपः

।। इत्यपेक्षया पुनरिति ।। ‘सर्वदा हरिरेव कर्ता अहं तु तदधीनकर्ता’ इति ‘कर्मणि’ इति श्लोके यज्ज्ञानस्वरूपमुक्तं तदपेक्षया अन्यथापि ज्ञानस्वरूपमुच्यत इति पुनरित्युक्तमित्यर्थः ।। मिथ्याज्ञानमेतदिति ।। नित्यतृप्तत्वादिज्ञानमित्यर्थः । भाष्यस्थेति-शब्दानुवादेनार्थमाह– इति हेतोः ।। तथाविधः ।। नित्यतृप्तत्वादिधर्मोपेत इत्यर्थः । तर्हीदानीं कुतः स धर्मो नोपलभ्यत इति भावेन ‘किन्तु’ इति प्रश्ने उत्तरम्– अविद्यया इत्यादि ।। २० ।।

भावरत्नकोशः

कर्म च फलं च कर्मफले, तयोरासङ्गः कर्मफलासङ्ग इत्यभिप्रेत्य पुनरुक्तिमुपपादयति – सङ्कल्पो हीति ।। कर्मासङ्गः ‘कर्माहं करोमि’ इत्यध्यवसायः । फलासङ्गः ‘कर्मफलं मम स्याद्’ इत्यभिलाषः । ‘कामसङ्कल्पाभावेन’ इति पूर्वश्लोकार्थानुवादादाह– सङ्गतिपूर्वमिति ।। ‘अलम्’ इत्यस्यार्थः– ‘सम्पूर्णम्’ इति ।। किं तर्हीति ।। ‘अलमित्यनन्तरम्’ इति शेषः । ‘आसङ्गम्’ इत्यनूद्य ‘स्नेहम्’ इति व्याख्यानं भाष्ये । तत्र स्नेहः आसक्तिः प्रीतिः । स च कामादन्य एव । ‘सङ्गात् सञ्जायते कामः’ इति भगवतैव तयोः कार्यकारणभावस्योक्तत्वात् । तथा च पूर्वोक्तमेवात्रोच्यत इति न चोद्यावकाश इति भाष्यभावः स्फुटत्वान्नोक्तः । अत एव अन्यथा व्याचष्ट इत्येवोक्तम् ।

प्राचीनटीकायामपि ‘फलकामाभावेऽपि यदि फले स्नेहः स्यात्, तथापि बध्नन्त्येव कर्माणीति सोऽपि त्याज्यः’ इति कामस्नेहौ पृथगभिहितौ । साध्य इति कर्मज्ञानफलरूपोऽर्थः । साधने कामादित्यागरूपसाधनवर्गे । स कथं निवेश्यते सहोच्यत इत्यर्थः । इत्यपेक्षया पुनरितीति ।। विष्णोरेव कर्म, नाहं चित्प्रतिबिम्बः किञ्चित्करोमीति पश्येदिति ‘कर्मण्यकर्म’ इत्यत्र यज्ज्ञान-स्वरूपमुक्तं तदपेक्षया ‘नित्यतृप्तनिराश्रयेश्वरसरूप’ इतीत्थंभावान्तराभिधानाय पुनर्ज्ञानस्वरूपमुच्यत इति भावेन भाष्ये पुनरुक्तमित्यर्थः । मिथ्येति ।। संसारे तृप्त्यादिकमेव नास्ति । नित्यतृप्त्यादिस्तु सुतरामिति तद्बोधो मिथ्याज्ञानमेवेत्यर्थः । भाष्यस्थेतिशब्दम् अनूद्य तदर्थमाह – इति हेतोरिति ।। तथाविधः नित्यतृप्त्यादिधर्मोपेतः । ‘युक्ताश्च बिम्बधर्माः प्रतिबिम्बे’ इत्युक्तत्वादिति भावः । तर्ही-दानीं स धर्मः कुतो नोपलभ्यते ? इति पृच्छति– किन्त्विति ।। उत्तरमाह– अविद्ययेति ।।२०।।

गीताक्षरार्थस्तु– कामसङ्कल्पहीनतामात्रेण न कर्मस्वरूपं परिपूर्णम्, किं तर्हि? कर्मफलस्नेह-त्यागेनापि भाव्यमित्युच्यते त्यक्त्वेति । कर्मफले आसङ्गं स्नेहं च त्यक्त्वा नित्यतृप्तो निराश्रयः नित्यतृप्तनिराश्रयेश्वरस(स्व)रूपोऽस्मीति जानन् तथोच्यते । स कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चि-त्करोति इत्यस्य कर्म कुर्वन् नाप्नोति किल्बिषमिति भगवानेव तात्पर्यं वक्ष्यति ।। २० ।।