वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ।। १६ ।।
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ।। १६ ।।
भाष्यम्
विभूतयः विविधभूतयः ।। १६ ।।
भावप्रदीपिका विभूतिशब्दं व्याचष्टे– विभूतय इति ।। १६ ।।
प्रमेयदीपिका
विभूतयः ऐश्वर्याणि पृष्टानि । नानारूपाणि वक्ष्यन्ते । किं केन सङ्गतम्? इत्यत आह– विभूतय इति ।। विविधभूतयः नानाभूतानि रूपाणि
।। १६ ।।
भावरत्नकोशः
चोदितासङ्गतिपरिहाराय ‘विविधभूतयः’ इति भाष्यमनूद्य व्याचष्टे– विविधेति ।। नात्र विभूतिशब्देनैश्वर्यं विवक्षितम् । किन्तु ‘नानाभूतानि रूपाणि’ इति नोक्तासङ्गतिशङ्केति भावः ।।
गीताक्षरार्थस्तु– एवं स्तुत्वा लब्धव्यमुच्यते– वक्तुमर्हसीति ।। अशेषेण मद्योग्यतामपेक्ष्य अनवशेषेण दिव्या आत्मनो विभूतयः विविधभूतयः नानाभूतानि रूपाणि । दुर्विज्ञेयत्वस्फोरणाय द्वितीयार्थे प्रथमा । किं मयैव वक्तव्या विभूतयः ? अन्यैरपि तज्ज्ञानं किं न स्यात् ? इत्यत उक्तम्– दिव्या ह्यात्मविभूतय इति ।। आत्मनो नानाभूतानि रूपाणि यतो दिव्याः अलौकिकाः, याभिर्विभूतिभिः लोकानिमान् लोकान् नियामकत्वेन त्वं व्याप्य तिष्ठसि । ता वक्तुमर्हसीति सम्बन्धः । त्वदन्यो विभूतीनां वक्ता दुर्लभ इति भावः ।। १६ ।।
भावप्रकाशः
भूतिशब्दस्यैश्वर्यार्थत्वाद्विविधैश्वर्याणीति प्रतीतिं निरस्यति– नानाभूतानीति ।। १६ ।।