त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्वस्थो निर्योगक्षेम आत्मवान्।। ४५ ।।
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्वस्थो निर्योगक्षेम आत्मवान्।। ४५ ।।
भाष्यम्
तां योगबुद्धिमाह– ‘त्रैगुण्यविषयाः’ इत्यादिना । इतरदपोद्य ।।
भावप्रदीपिका
प्रतिज्ञातार्थकथनपरतयोत्तरं ‘तदा योगमवाप्स्यसि’ इत्यन्तं प्रघट्टकमवतारयति– तामिति ।। इतरत् इति ।। अययोगबुद्धिः ।।
भावप्रकाशिका
‘त्रैगुण्यविषया वेदाः’ इत्यादि ‘योगमवाप्स्यसि’ इत्यन्तं प्रघट्टकमवतारयति– तामिति ।। या सम्यग्युक्तिनिर्णयात्मिका बुद्धिरेकैवासद्वाक्यैः सम्मोहितधियां न लभ्यत इत्युक्ता, तामाह– निर्णयात्मिकां बुद्धिमापाद्येत्यर्थः । ननु वेदेश्वरः कथं वेदार्थपरत्यागमाचष्टे? इत्यत आह–वेदानामिति ।। प्रातीतिके अविचारप्रतीते इत्यर्थः ।।
प्रमेयदीपिका
‘यथैषा चतुःश्लोका न प्रतिज्ञातं योगमाह तथा ‘त्रैगुण्य’ इत्येतदपि’ इति प्रतीति-निरासायाह– तामिति ।। प्रतिज्ञाताम् । आदिग्रहणेनाषष्ठसमाप्तेरिति सूचयति । सप्तमोपक्रमे पुनः प्रतिज्ञानात् । तर्हि प्रतिज्ञानन्तरमेव कुतो नावोचत्? इति मन्दाशङ्कानिरासायोक्तम्– इतरदिति ।। स्वोक्तौ निष्ठाऽभावे कारणमेवमपोद्येदानीं प्रतिज्ञातमाह । अन्यथा तत्प्रति-बन्धेनास्यावसराभावादिति भावः । अथवा– वक्ष्यमाणानां वाक्यानां द्वेधा वृत्तिमनेनाचष्टे । ‘कैश्चिद्वाक्यैः इतरत्् योगविरुद्धम् अपोद्य कैश्चिद् योगमाह’ इति ।।
यद्वा– ‘बहूनि मे व्यतीतानि’(४.५) इत्यादि प्रासङ्गिकं विहायान्यद्योगविषयं ज्ञातव्य-मित्यर्थः । तथाच वक्ष्यति ‘साधनं प्राधान्येनोक्तम्’(७.१) इति ।।
भावबोधः
।। मन्दाशङ्केति ।। चतुःश्लोक्या व्याख्यातत्वात् बुद्धिमतां शङ्कानुदयादिति भावः ।।
भावदीपः
चतुःश्लोकाति ।। भाष्यकृद्व्याख्यात‘व्यवसायात्मिका’ इत्यादि चतुःश्लोकात्यर्थः ।
अन्यथा ‘नेह’ इत्यारभ्य पञ्चश्लोकाति वाक्यं स्यात् ।। इति मन्दाशङ्केति ।। ‘योगे त्विमां शृणु’ (२.३९) इति प्रतिज्ञातनिवृत्तकर्माख्यज्ञानोपाये निष्ठाजननाय ‘नेह’ इति श्लोकेन तत्प्रशंसाकरणस्य च ‘व्यवसाय’ इत्यादि श्लोकचतुष्टयेन मतान्तरनिन्दाकरणस्य निष्ठाहेतोः पूर्वभावित्वावश्यम्भावस्य स्फुटत्वात् मन्दाशङ्का इत्युक्तम् ।। तदेवाह– स्वोक्ताविति ।। ‘योगे त्विमां शृणु’ (२.३९) इति स्वोक्तावित्यर्थः ।। एवं ‘व्यवसाय’ इत्यादिश्लोकोक्तप्रकारेणे-त्यर्थः ।। योगविरुद्धमिति ।। निवृत्तकर्माख्यज्ञानोपायविरुद्धमित्यर्थः ।। वक्ष्यतीति ।। ‘सप्तमा-ध्याये’ इति योज्यम् ।। ‘प्राधान्येन’ इत्युक्त्या अन्यस्याप्यप्रधानस्योक्तेः सूचनादिति भावः ।।
भावरत्नकोशः
एषा भाष्यकृद्व्याख्याता । चतुःश्लोकाति ।। यद्यपि ‘योगे त्विमां शृृणु’ इत्यनन्तरं ‘नेहाभिक्रमनाशोऽस्ति’ इत्यादयः पञ्च श्लोका लक्ष्यन्ते । तथाऽपि ‘बुद्ध्या युक्तः’ इत्यर्ध इव ‘नेहाभिक्रम’ इति श्लोकोऽपि योगप्रशंसार्थत्वात् पूर्वशेष इति भावेन ‘व्यवसायात्मिका’ इत्येकः श्लोकः ‘यामिमाम्’ इत्यादिश्लोकत्रयं चेति चतुःश्लोकात्युक्तम् । व्यवसायेत्यादिश्लोकचतुष्टयेन मतान्तरनिन्दाकरणस्य निष्ठाहेतोः पूर्वभावित्वावश्यम्भावान्मन्दाशङ्केत्युक्तम् । इतरदित्यस्यार्थः स्वोक्तौ निष्ठाभावे कारणमिति । एवं चतुःश्लोकागमनिकाभाष्यक्रमेण । तत्प्रतिबन्धेन अस्य योगनिरूपणस्य । द्वेधा वृत्तिं द्वेधा व्याख्यानम् । अनेन इतरदपोद्येति भाषणेन । तदेवाऽह– कैश्चिदिति ।। अन्यद् वाक्यजातम् । वक्ष्यति सप्तमोपक्रमे । प्राधान्येनेति भाषणस्य प्रासङ्गिकार्थवर्णनमस्तीत्यभिसंहितमिति भावः ।।
भावदीपिका
।। प्रतिज्ञातामिति ।। योगे त्विमां शृणु इति प्रतिज्ञातामित्यर्थः । कथं सूचनमित्यत आह– सप्तमेति ।। प्रतिज्ञानादिति ।। साधनं प्राधान्येनोक्तमतीतैरध्यायैः उत्तरैः षड्भिः भगवन्माहात्म्यं प्राधान्येनाऽहेति प्रमेयान्तरकथनस्य पुनःप्रतिज्ञातत्वादिर्थः ।। मन्दाशङ्केति ।। चतुश्लोक्याः सम्यग् व्याख्यातत्वाद् बुद्धिमतां शङ्कानुदयादिर्थः । इतरदित्यस्यर्थमाह– स्वोक्ताविति ।। एवमिति ।। व्यवसायात्मिका इति श्लोकचतुष्टयेन । प्रतिज्ञातमाह– त्रैगुण्येत्यादिनेति ।। बह्व्यो बुद्धय इत्यादिशङ्काप्रतिबन्धेन योगनिरूपणेऽवसराभावाच्छ्लोकचतुष्टयेन तच्छङ्कानिरासे सत्येवावसर-सङ्गत्या प्रतिज्ञातयोगनिरूपणं सम्भवतीत्याशयः । वृत्तिं व्याख्यानम् । इतरदपोद्येत्यस्यार्थः प्रासङ्गिकं विहायेति ।। अन्त्यव्याख्यानद्वये ज्ञापकमाह– तथाचेति ।। प्राधान्येनेत्युक्त्या बहूनीत्यादेः प्रासङ्गिकत्वं सूचितमित्यर्थः ।
भावप्रकाशः
मन्दाशङ्केति ।। चतुःश्लोक्या व्याख्यातत्वात् तत्पर्यालोचनायां बुद्धिमतां शङ्कानुदयादिति भावः ।। तथा च वक्ष्यतीति ।। सप्तमोपक्रम इति शेषः ।।