निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकार्तितः ।। ४ ।।

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।

त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकार्तितः ।। ४ ।।

भाष्यम्

तत्प्रकारं चाह– निश्चयमित्यादिना ।। यज्ञभेद उक्तः ‘द्रव्ययज्ञाः’ (४.२८) इत्यादिना । दाने त्वभयदानमन्तर्भवति । एतेषां मध्ये यत्किञ्चिद् यज्ञादिकं कर्तव्यमेवेत्यर्थः । अन्यथा ‘ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा । यदीच्छेन्मोक्षमास्थातुमुत्तमाश्रममाश्रयेत्’ इत्यादि व्यासस्मृतिविरोधः ।

भावप्रदीपिका

प्रथमद्वितीयपक्षयोर्विरोधाभ्युपगमे ‘निश्चयम्’ इत्यादि च न सङ्गच्छत इति भावेनाह– तत्प्रकारं चेति । ननु यतीनां यज्ञदानाभावात् कथं तयोरत्याज्यत्वमुच्यते ? इत्यत आह– यज्ञेति । ननु यज्ञादिपदेन द्रव्ययज्ञाद्येव विधीयत इति किं न स्यात् ? इत्यत आह– अन्यथेति ।।

प्रमेयदीपिका

न केवलं ‘मनीषिणः’ इति विशेषणसामर्थ्यादेवमुच्यते । किन्तु भगवताऽपि तदविरोधप्रकारस्य व्युत्पाद्यमानत्वादिति भावेनोत्तरवाक्यतात्पर्य-माह– तदिति ।। ननु परमहंसानां यज्ञदानयोरभावात् कथमुच्यते ‘न त्याज्यं कार्यमेव तत् इति । तत्राह– यज्ञेति ।। ननु ज्योतिष्टोमादिकमेव यज्ञः धनदानादिकमेव दानं गृहीत्वा पारमहंस्यमेव कुतो न निराक्रियत इत्यत आह– अन्यथेति ।। यतिः हंसादिः । आस्थातुं प्राप्तुम् । उत्तमाश्रमं पारमहंस्यम् ।।

भावबोधः

।। उत्तरवाक्यतात्पर्यमिति ।। अनेन निश्चयादिनेति भाष्ये आदिपदेन ‘त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः’ इत्यन्तस्य ग्रहणमिति सूचितम् । तावता ग्रन्थेन त्यागो हीति त्यागत्रैविध्यं प्रतिज्ञाय फलत्याग एव सात्विकत्यागः, कर्मस्वरूप-त्यागस्तु तामसो राजसश्चेति प्रतिपादनेन मनीषिमतयोरविरोधप्रकारस्यैव व्युत्पदितत्वादिति भावः । ननु यत्याश्रमस्यैवोत्तमत्वात् यतिरुत्तममाश्रममाश्रयेदिति कथमुक्तमित्यत आह– यतिर्हंस इति ।। ज्ञानमेव यज्ञो येषां ते ज्ञानयज्ञः । ब्रह्मचर्याद्येव तपो येषां ते ब्रह्मचर्यादितपस इति यावत् ।

भावदीपः

।। यज्ञेतीति ।। ‘द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे’ इत्यादिना चतुर्थे यज्ञभेद उक्त इति भाष्यार्थः ।। गृहीत्वा इत्यतः पूर्वम् इतिशब्दोऽध्याहार्यः ।। यतिः हंसादिरिति ।। चतुर्थाश्रमो हंसकुटीचकबहूदकपरमहंसभेदेन चतुर्विधः । ततो ‘हंसादेः’ इत्युक्तम् । यतेरेव परमहंसत्वे ‘उत्तमाश्रममाश्रयेत् ’इत्युक्तमयुक्तं स्यादिति भावः ।।

भावरत्नकोशः

‘अविरोधप्रकारस्य व्युत्पाद्यमानत्वाद्’ इति वदता ‘तत्प्रकारं पूर्वोत्तरपक्षयोः अविरोधप्रकारमाह व्युत्पादयति’ इति भाष्यार्थ उक्तो भवति । ‘उत्तरवाक्य-तात्पर्यम् इत्यत्र ‘उत्तरवाक्यानां तात्पर्यम्’ इति विग्रहः । भाष्ये आदिपदेन ‘त्यागी सत्त्व-समाविष्टो मेधावी छिन्नसंशयः’ इत्यन्तवाक्यग्रहणम् । तदन्तवाक्यसमुदायेन च ‘त्यागो हि’ इति त्यागत्रैविध्यं प्रतिज्ञाय, फलत्याग एव सात्त्विकत्यागः, कर्मस्वरूपत्यागस्तु तामसो राजसश्चेति प्रतिपादनेन मनीषिमतयोः अविरोधप्रकारस्येव व्युत्पाद्यमानत्वादित्यभिप्रैति । ‘यज्ञभेद उक्तः’ इति भाष्ये ‘चतुर्थाध्याये’ इति शेषः । ननु यत्याश्रमस्यैव उत्तमाश्रमत्वात् कथं ‘यतिरुत्तम-माश्रमम् आश्रयेत्’ इत्युक्तिः इत्यत आह– यतिर्हंसादिरिति ।। आदिपदेन कुटीचकबहूदकयो-र्ग्रहणम् । ‘आस्थातुम्’ इत्यस्य ‘अवस्थानाय’ इति प्रतीतार्थकत्वेऽनन्वयः इत्यतो व्याचष्टे– प्राप्तमिति ।। तिष्ठतेरकर्मत्वेऽपि ‘अनेकार्था हि धातवः’ इति प्रसिद्धेः प्रकृत प्राप्त्यर्थकत्वम् इष्टमिति भावः । उक्तचोद्यापनोदाय उत्तमाश्रमशब्दविवक्षितार्थमाह– पारमहंस्यमिति ।।

भावदीपिका

।। एवम् अविरुद्धत्वम् । उक्तवाक्यतात्पर्यमिति ।। अनेन ‘निश्चयमित्यादिना’ इति भाष्ये आदिपदेन ‘त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः’ इत्यन्तस्य ग्रहणमिति सूचितम् । तावता ग्रन्थेन ‘पुरुषो हि’ इति त्यागत्रैविध्यं प्रतिज्ञाय फलत्याग एव सात्त्विकत्यागः, कर्मस्वरूपत्यागस्तु सात्त्विको राजसश्च इति प्रतिपादनेन मनीषिमतयोरविरोधप्रकारस्यैव व्युत्पादितत्त्वादिति भावः । पारमहंस्यमेवेति ।। तत्रोक्तयोः यज्ञदानयोरभावादिति भावः । तथा च पारमहंस्यमकर्तव्यत्वेनैव विवक्षितमिति भावः । ननु यत्याश्रमस्यैवोत्तमाश्रमत्वात् ‘यतिरुत्तममाश्रममाश्रयेत्’ इत्ययुक्तम् इत्यत आह– यतिर्हंसादि-रिति ।। अत्रादिपदेन बहूदकूटीचकयोः सङ्ग्रहः । हंसादीनां स्वरूपं तु ‘यज्ञोपवीतवान् एकदण्डी शिखारहितो हंसः । त्रिदण्डी शिखायज्ञोपवीतवान् ग्रामैकरात्रिः बहूदः । त्रिदण्डी शिखायज्ञोपवीतवान् यावज्जीवं पुत्रदत्तान्नः कुटीचः । शिखायज्ञोपवीतहीनः एकदण्डी परमहंसः’ इति गीतातात्पर्योक्तरीत्या द्रष्टव्यम् ।

भावप्रकाशः

 ।। उत्तरवाक्यतात्पर्यमिति ।। अनेन ‘निश्चयमित्यादिना’ इत्यादिपदेन ‘मेधावी च्छिन्नसंशयः’ इत्यन्तस्य ग्रहणमिति सूचितम् । तत्रादौ त्यागो हीति त्यागत्रैविध्यं प्रतिज्ञाय फलत्याग एव सात्विकत्यागः । कर्मस्वरूपत्यागस्तु तामसो राजसश्चेति प्रतिपादनेन मनीषिमतयोरविरोधाप्रकारस्यैव व्युत्पादितत्वादिति भावः । ननु यत्याश्रमस्यैवोत्तम-त्वात् कथं यतिरुत्तमाश्रममाश्रयेदित्युक्तमित्यत आह– यतिः हंसादिरिति ।। आदिपदेन बहूूदकुटीचयोः ग्रहणम् । ‘परमहंसाः प्रकीर्तिताः । हंसो बहूदः कुटिजः’ इत्युक्तोत्तमक्रमाभि-प्रायेण हंसादिरित्युक्तम् । स्थितेरकर्मकत्वादाह– प्राप्नुमिति ।।

Load More