तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।। १७ ।।
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।। १७ ।।
भाष्यम्
एकस्मिन्नेव भक्तिरित्येकभक्तिः । तच्चोक्तं गारुडे– ‘मय्येव भक्तिर्नान्यत्र एकभक्तिस्स उच्यते’ इति ।। १७ ।।
भावप्रदीपिका
भक्तेरेकत्वं नाम किमित्यत आह– एकस्मन्निति । अस्य इति संयोज्यम् ।। १७ ।।
भावप्रकाशिका
ये तु सुकृतिनस्ते सर्वे हरिं भजन्ते । तत्र ज्ञान्येव तं शरणं व्रजतीत्यभिप्राय उत्तरश्लोकचतुष्टये भगवतोऽन्यभजनीयत्वादर्शनादेवैकभक्तिः । न तु स्वतोऽन्यादर्शनादिति भावेन ‘एकभक्ति’पदं सप्रमाणकं व्याचष्टे– एकस्मिन्निति । वैष्णव-त्त्वेन रमाब्रह्मादिषु भक्तौ विद्यमानायामपि प्राधान्येनैकस्मिन् विष्णावेव भक्तिर्यस्यासावेक-भक्तिरित्यर्थः ।।
प्रमेयदीपिका
‘एका भक्तिर्यस्य’ इति विग्रहे भक्तिशब्दस्य प्रियादित्वा-त्तस्मिन् परतः पूर्वपदस्य पुंवद्भावो न सिद्ध्यतीत्यालोच्याऽह– एकस्मिन्नेवेति ।। ‘अस्य’ इत्यध्याहार्यम् । तथाऽपि वैयधिकरण्याद् बहुव्रीहिर्न सिद्ध्यतीति चेन्न । आगमसिद्धत्वाच्च इत्याह– तच्चेति ।। ‘यस्य’ इत्युपस्कर्तव्यम् ।। १७ ।।
भावबोधः
।। प्रियादित्वादिति ।। ‘स्त्रियाः पुंवद्भाषितपुंस्कात्’ इति सूत्रे ‘प्रियादिषु’ इति प्रियादिगणस्य पुंवद्भावनिषेधादित्यर्थः । यद्यप्येका भक्तिर्यस्येति विग्रहेऽपि ‘एकतद्धिते च’ इत्युत्तरपदमात्रे एकशब्दस्य ह्रस्वत्वविधानात् ‘सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावो वक्तव्यः’ इत्यत्र प्रियादिपर्युदासानाश्रयणाच्च पुंवद्भावो भविष्यति । तथाप्यस्मिन् पक्षे भगवत एव भक्तिविषयत्वरूपार्थविशेषसिद्धिरिति भावः ।। आगमसिद्धत्वादिति ।। आगमस्यापि ‘सप्तमीविशेषणे बहुव्रीहौ’ इति सप्तम्यन्तस्य पूर्वनिपातवचनमेव ज्ञापकमिति भावः । ‘मुक्तश्च कां गति’मित्येतद्भगवदग्रहणे चासम्भवादित्यत्र प्रमाणान्तरम् ।। १६,१७ ।।
भावदीपः
।। प्रियादित्वादिति ।। ‘स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्समानाधिकरणे स्त्रियामपूरणी प्रियादिषु’ इति (पा.सू.६.३.३४) षष्ठतृतीयपादीयसूत्रेणोक्तषष्ठपुंस्कात् परस्य अनूङ्गः स्त्रीप्रत्ययस्य पुंवद्रूपं स्यात् । एकार्थे स्त्रीलिङ्गे परतः, न तु पूरण्यां प्रियादौ परतः’ इति पुंवद्भावस्य प्रियादौ परतो निषेधात्; भक्तिपदस्य प्रियादौ पाठादित्यर्थः । ‘एका भक्तिः यस्य’ इत्युक्तावपि ‘एकतद्धिते च’ (पा.सू.६.३.६२) इति तत्पादगतसूत्रेण ‘तद्धितान्ते उत्तरपदे च परत एकशब्दस्य ह्रस्वो भवति’ इत्युक्तेः ‘एकभक्तिः’ इति रूपसिद्धावपि वक्ष्यमाणप्रमाणानुरोधाद् व्यधिकरणबहुव्रीहिरप्याराश्रित इति ज्ञेयम् ।। तथापीति ।। एकशब्दस्य पुल्लिङ्गत्वोपपत्तावपीत्यर्थः । ‘अनेकमन्यपदार्थे’ (पा.सू.२.२.२४) इति समानाधिकरणानामेव बहुव्रीह्युक्तेरिति भावः ।। बहुव्रीहित्वख्यापनायाऽह– इत्युपस्कर्तव्यमिति ।। अन्यथा ‘स उच्यते’ इत्युक्त्यनुपपत्तेरिति भावः
।। १७ ।।
वाक्यार्थप्रदीपः
।। एका भक्तिः यस्येति इत्यादि ।। स्त्रियाः पुंवद्भाषितपुंस्कात्’ इति सूत्रे भाषितपुंस्कात् परस्य अनङः स्त्रीप्रत्यस्य समानाधिकरणे स्त्रीलिङ्गे पदे परे पुंवद्भाव-मभिधाय अतिप्रसङ्गपरिहारार्थे ‘अप्रियादिषु’ इति प्रियादिषु परेषु पुंवद्भावो न भवतीत्यभिधानात् ‘प्रिया मनोज्ञा कल्पाणी सुभगा दुर्भगा भक्तिः सुभगा’ इत्यादिना प्रियादिगणे भक्तिशब्दपाठेन तस्याः प्रियादित्वात् एकशब्दस्य पुंवद्भावानुपपत्तेः तदभावे च तत्प्रयुक्तस्त्रीप्रत्ययलोपानुपपत्तेः एका भक्तिरित्येव स्यात् । नचैकविभक्तिरित्यर्थः ।। ननु एका भक्तिर्यस्येति विग्रहेऽपि ‘एकतद्धिते च’ इत्युत्तरत्र सूत्रे तद्धिते चोत्तरपदमात्रे एकशब्दस्य ह्रस्वत्वविधानात् सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावो वक्तव्य इत्यत्र ‘अप्रियादिषु’ इति निषेधानाश्रयणाच्च्च पुंवद्भावोपपत्तेः व्यर्थं व्यधिकरण-बहुव्रीत्वाश्रयणमिति चेन्न । एका भक्तिर्यस्येति विग्रहे भगवत एव भक्तिविषयत्वरूपार्थविशेष-सिद्ध्यनुपपत्त्या तत्सिद्ध्यर्थं व्यधिकरण बहुव्रीह्याश्रयणमित्यत्र तात्पर्यादिति भावः ।।
।। श्री इति श्रीपदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चूडामणीनां श्रीमद्विद्याधीशतीर्थपूज्यचरणानां निजनिशिष्यकेशवेन विरचिते व्याकरणस्पृष्टप्रमेयदीपिकावाक्यार्थप्रदीपे सप्तमोऽध्यायः ।।
भावरत्नकोशः
।। इति विग्रह इति ।। सामानाधिकरण्यलाभायाभ्युपगते ‘एका-भक्तिरित्येव निर्देशः स्यात्, यतः’ इति शेषः । प्रियादित्वात् प्रियादिगणे पाठात् । तथा च वृत्तिः ‘प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा भक्तिः’ इति । तस्मिन् भक्तिशब्दे पूर्वपदस्य एका-शब्दस्य । पुंवद्भावः ‘स्त्रियाः पुंवत्’ इति सूत्रोक्तं पुंशब्दस्येव रूपम् । ‘स्त्रियाः पुंवत् भाषित-पुंस्कादनूङ् समानाधिकरणे स्त्रियाम् अपूरणीप्रियादिषु’ इति सूत्रस्यायमर्थः । भाषितपुंस्काद् अनूङ् ऊङभावो यस्यामिति बहुव्रीहिः, निपातनात् पञ्चम्या अलुक्, षष्ठ्याश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात् पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात्, समानाधिकरणे स्त्रीलिङ्ग उत्तरपदे, न तु पूरण्यां प्रियादौ च परत इति । उदाहरणं च चित्रा गावोऽस्य चित्रगुः, रूपवती भार्या अस्य रूपवद्भार्य इत्यादि ।
नन्वनेन पुंवद्भावसिद्धावपि ‘एकतद्धिते च’ इत्यत्र एकशब्दस्य तद्धितप्रत्यये उत्तरपदे च परतः ह्रस्वो भवति । एकस्या भाव एकत्वम्, एकता । एकस्याः क्षीरम् एकक्षीरम् इति व्याख्यानात्, अत्रापि ‘एका भक्तिः’ इति विग्रहेऽप्येकशब्दे ह्रस्वो भविष्यतीत्यतः किमिति व्यधिकरणबहुव्रीहि-राश्रयितव्य इति चेन्न । ‘एकतद्धिते च’ इति सूत्रस्य व्यधिकरणार्थमिदमिति वदता हरदत्तेन भिन्न-विभक्तिकविग्रहस्थल एव प्रवर्तितत्वेन ‘एका चासौ भक्तिः’ इति सामानाधिकरण्यस्थलेऽ-नवतारात् । अत एव भाष्ये वृत्त्यादौ च ‘एकस्याः क्षीरमेकक्षीरम्’ इत्यादि व्यधिकरणमेवो-दाहृतम् । ‘सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः’ इति ‘दिङ्नामान्यन्तराले’ इति सूत्रे भाष्यकारेष्ट्या गतार्थत्वात् ‘एकतद्धिते च’ इति सूत्रमेवेदं न कर्तव्यमित्याधुनिकेनैतत्सूत्रस्य प्रत्याख्यातत्वात् । न चैवमुक्तभाष्यकारेष्ट्यैवाप्येकशब्दे पुंवद्भावो भविष्यतीति व्यधिकरणबहुव्रीह्याश्रयणमनुचितमिति वाच्यम् । ‘उपायस्य उपायान्तरादूषकत्वम्’ इति भावेन व्यधिकरणबहुव्रीहेरभ्युपगमोपपत्तेः । ‘अपूरणीप्रियादिषु’ इति पर्युदस्तव्यतिरिक्तविषयत्वोपपत्तेश्च ।
वस्तुतस्तु ‘सर्वनाम्नो वृत्तिमात्रे’ इतीष्टिरनादरणीया ‘स्त्रियाः पुंवत्’ इति योगविभागेन ‘एकस्याः क्षीरमेकक्षीरम्’ इत्यादीष्टसिद्धेः । सम्मतं चैवं योगविभागाश्रयणं वैयाकरणानाम् । ‘दिङ्नामान्यन्तराले’ इत्यत्र ‘स पुनः स्त्रियाः पुंवत्’ इति योगविभागेन सिद्ध्यति, इति न्यासकारवचनात् । न चैवमनेनैव योगविभागेनात्रापि पुंवद्भावसिद्धेर्न व्यधिकरणबहुव्रीह्याश्रयणं युक्तमिति वाच्यम् । एतत्सूत्र एव ‘अपूरणीप्रियादिषु’ इति भक्तिशब्दे परतः पुंवद्भावनिषेधादिति मीमांसामभिसन्दधानो भाष्यकारो व्यधिकरणबहुव्रीहिरित्याह– इत्यालोच्येति ।। एतदङ्गीकारश्च भगवत एकस्यैव भक्तिविषयत्वप्रदर्शनरूपमहाप्रयोजनलाभायेति हृदयमिति भावः । अस्ये-त्यध्याहार्यमिति ।। ‘एकस्मिन्नेव भक्तिः’ इत्यनन्तरम् ।। इत्यध्याहार्यम् ‘यस्य सः’ इत्यध्याहार इत्यवचनम् ‘अस्य’ इत्यनेन बहुव्रीहित्वस्फोरणस्य कृतत्वात्, लाघवाच्च । अत एव ‘चित्रगुः’ इत्यत्र ‘चित्रा गावो यस्य’ इत्येव विग्रहः प्रदर्शितो हरदत्तेन ।
सङ्करभाष्यव्याख्यात्रा च ‘एकस्मिन् भगवति भक्तिरस्येत्येकभक्तिः इत्येवोक्तम् । प्राचीन-टीकायाम् ‘एकस्मिन् विष्णावेव भक्तिर्यस्यासावेकभक्तिः’ इत्युक्तिरुभयथाऽप्यन्यपदार्थनिर्देश-सम्भवाभिप्राया । वक्ष्यति च ‘यस्यासौ इत्युपस्कर्तव्यम्’ इति । तथाऽपि सप्तम्यन्तत्वाश्रयणेन ह्रस्वत्वेऽपि । वैयधिकरण्यादिति । ‘बहुव्रीहिः समानाधिकरणानामिति वक्तव्यम्, व्यधिकरणानां मा भूत्’ इति वृत्तिकारवचनात् प्रकृते च भिन्नविभक्तिकत्वरूपवैयधिकरण्यान्न बहुव्रीहिः सिध्य-तीत्यर्थः । ‘चेन्न’ इत्यनन्तरं ‘व्यधिकरणानां ‘सप्तमीविशेषणे बहुव्रीहौ’ इत्यत्र सप्तम्यन्तस्य पूर्वप्रयोज्यत्वोक्तिलिङ्गात् सिद्धेरिति ब्रूमः’ इति वाक्यं संयोज्यम् । तल्लिङ्गादन्यत्र व्यधिकरण-बहुव्रीह्यभ्युपगमेऽपि, अत्र स एवाश्रयितव्य इत्यत्र को विशेषहेतुरित्यत आह– आगमसिद्ध-त्वादिति ।। तत् व्यधिकरणपदबहुव्रीह्याश्रयणम् । ‘गारुडे उक्तं च’ इति भाष्ये चशब्दान्वयः । यस्यासावित्युपस्कर्तव्यमिति । ‘मय्येव भक्तिः, अन्यत्र सा नास्ति यस्यासौ मद्भक्तिः’ इति व्याससमासौ ज्ञातव्यौ ।
ननु मद्भक्तिशब्दः किमिति व्याख्यायते ? प्रकृतार्थासङ्गतत्वात्, इत्यत उक्तं भाष्ये स एवैकभक्तिरुच्यत इति । ‘एकभक्तिः’ इत्यत्र गीतायामेकशब्देन अहं भगवानेवोच्ये, स च सप्तम्यन्तः, ‘एकस्मिन् भक्तिरस्य’ इति व्यधिकरणपदश्च बहुव्रीहिरिति सिद्धान्तितव्यमिति प्रमाणार्थत्वावगतेर्नासङ्गतिरिति व्याख्येयम् । एवं वाक्यभेदज्ञापनायैव पदसन्धिर्न कृत इति भावः ।
केचित्तु भूम्ना ‘यस्यासौ’ इत्यस्य बहुव्रीहित्वस्फोरणार्थत्वप्रसिद्धेः, प्रमाणस्थं ‘सः’ इति पदम् ‘असौ’ इत्यनूद्य तस्य ‘यस्य’ इति पदेन सम्बन्धोऽभिमत इति भावेन टीकायाम् ‘यस्यासौ’ इत्युपस्कर्तव्यमित्युक्तमित्याहुः । भाष्ये ‘सः’ इति श्रवणात् ‘यस्य’ इत्युपस्कर्तव्यम्, तेन च बहुव्रीहित्वं ज्ञापितम् । ‘अन्यत्र नास्ति’ इत्यत्र कर्त्राकाङ्क्षायाम् ‘असौ तादृशी’ इति भक्तिपरामर्शपरं पदं वोपस्कर्तव्यमित्यतः पदद्वयमपि सार्थकमिति अन्ये ।
यत्तु प्रमाणे ‘सः’ इति श्रवणाद् ‘यस्य’ इत्युपस्कर्तव्यमित्येव पाठः । ‘यस्यासौ’ इति पाठस्तु प्रामादिक इति । तन्न । व्याससमासयोः स्वपदविग्रहस्थले एकविधे प्रातिपदिकानुस्यूते व्युत्पत्तिसिद्धत्वात् । अत एव ‘चक्रं पाणौ यस्य स अरिहस्तः’, ‘कण्ठे कालो अस्य गलेगरलः’, ‘मूर्धनि शिखा यस्य स मस्तकशिखः’ इति व्याससमासयोरप्रदर्शनं विश्वजनीनम् । अत एव च द्वितीयाध्याये ‘विधेय आत्मा मनो यस्य सः, जितात्मेत्यर्थः’ इत्यत्र टीकायां ‘स इत्यनन्तरं विधेयात्मेति शेषः’ इत्युक्तम् । अतो मय्येव भक्तिर्यस्यासौ मद्भक्तिः, स एव च एकभक्तिरुच्यत इत्युक्तरीत्या व्याख्याने पदद्वयोपकार एव युक्त इति ।। १७. १८ ।।
गीताक्षरास्तु– ‘भजन्ते’ इत्युक्त्या प्राप्ता सेवकेषु साम्यशङ्का परिह्रियते– तेषामिति ।। चतुर्णां मध्ये ज्ञानी नित्ययुक्तः सदा भगवत्समाधिसम्पन्नः एकभक्तिः वैष्णवत्वेन रमाब्रह्मादिषु भक्तौ विद्यमानायामपि प्राधान्येनैकस्मिन् मयि विष्णावेव भक्तिरस्यास्तीति तथोक्तः । विशिष्यते विशेषम् आधिक्यमापद्यते । तत्प्रकारविवरणम् प्रियो हीति । ज्ञानिनोऽत्यर्थम् अहं प्रियो यतः, ततः सः ज्ञानी मम प्रियः इत्येवंरूपो विशेषः पूर्वोक्तो ज्ञातव्य इति ।। १७ ।।
भावदीपिका
।। भक्तिशब्दस्य प्रियादित्वादित्यादि ।। ‘स्त्रियाः पुंवत् भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियाम् अपूरणीप्रियादिषु’ उक्तभाषितपुंस्क•त् परस्य ऊङ्-प्रत्ययभिन्नस्य स्त्रीप्रत्ययस्य पुंवद्भावः स्यात्, समानाधिकरणार्थे एकार्थे स्त्रीलिङ्गे पदे परे, न तु पूरण्याम्पूरणार्थकाः मयट्प्रत्ययाद्याः पूरणीप्रत्ययाः, तदन्तानां पदानां परतः स्थितौ, प्रियादिषु गणस्थेषु च परतः सत्सु पूर्वपदस्य न पुंवद्भाव इति सूत्रार्थः । पुंवद्भावात् स्त्रीप्रत्ययलोपः । ‘चित्रा गावो यस्यासौ चित्रागुः’ इति भाव्ये पुंवद्भावेन स्त्रीप्रत्ययस्य टापो लोपे ‘चित्रगुः’ इति भवति । अनूङ् किम् । ‘वामोरूः भार्या यस्यासौ वामोरूभार्यः’ इत्येव भवति, न तु ‘वामोरुभार्यः’ इति । अपूरण्यां किं, कल्याणी पञ्चमी यासां स्त्रीणां ताः कल्याणीपञ्चमाः । अप्रियादिषु किम् । कल्याणीप्रिय इत्यादि । अत्र प्रियादिगणस्थयोगात् न पूर्वपदस्य पुंवद्भावेन स्त्रीप्रत्ययलोपः । प्रिया मनोज्ञा कल्याणी सुभगा दुर्भागा भक्तिः सचिवा स्वसा कान्ता । क्षान्ता समा चपला दुहिता वामा अबला तनया इति प्रियादिगणः । एवं च प्रकृतेः ‘एकभक्तिः’ इत्यत्र ‘एका भक्तिर्यस्य’ इति विग्रहे भक्तिशब्दस्य प्रियादिगणस्थत्वात्, तस्मिन् परतः पूर्वपदभूतैकपदस्य ‘स्त्रियाः पुंवत्’ इति सूत्रेण पुंवद्भावासम्भवेन स्त्रीप्रत्ययलोपाभावात्, ‘एका भक्तिर्यस्यासौ एकाभक्तिः’ सत्येव स्यात्, नतु पुंवद्भावेन स्त्रीप्रत्ययस्य टापो लोपेन ‘एकभक्तिः’ इतीत्यर्थः ।
न सिद्ध्यतीति ।। ‘स्त्रियाः पुंवदिति सूत्रेण’ इति शेषः । ननु भक्तिशब्दस्य प्रियादित्वात्, ‘तस्मिन् परतः’ इत्यादि कस्मादुक्तम् । किं नाम, एका भक्तिरिति विग्रहे ‘न कोपधायाः’ इति पुंवद्भावो न सिद्ध्यतीति कस्मान्नोक्तम् । ‘न कोपधायाः’ ककारयुक्तोपधायाः स्त्रियाः पुंवद्भावो न स्यात् । ‘पाचिका भार्या यस्यासौ पाचिकाभार्यः’ ‘रसिकाभार्यः’ इति दर्शनात् । एवं च प्रकृतेऽप्येकशब्दस्य ककारोपधत्वेन पुंवद्भावायोगात् ।।
न च ‘कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारये प्रतिप्रसूयते’ इति वार्तिकेन ‘न कोपधायाः’ इति प्रतिषिद्धस्यापि पुंवद्भावस्य प्रतिप्रसवात्, ‘एका चासौ शाटी च एकशाटी’ इति दर्शनाच्च, ‘एकभक्तिः’ इति युक्तमिति वाच्यम् । तत्र ‘कर्मधारये’ इत्युक्तत्वात्, प्रकृते च बहुव्रीहि-समासत्वादिति चेत्, उच्यते । ‘न कोपधायाः’ इत्यस्य ‘स्त्रियाः पुंवत्’ इ िसूत्रप्राप्तपुंवद्भाव-प्रतिषेधकत्वात् । यथोक्तं काशिकायाम् ‘न कोपधायाः’ इति ‘स्त्रियाः पुंवत्’ इति सूत्रप्राप्तपुंवद्भावो निषिद्ध्यते’ इति । न ह्यत्र प्रकृते ‘स्त्रियाः’ इत्यनेन पुंवद्भावप्राप्तिरस्ति, येन ‘न कोपधायाः’ इत्यादिवक्तव्यं स्यात् । तत्र ‘अप्रियादिषु’ इत्युक्तत्वादिति ।। यद्यपि ‘एका भक्तिर्यस्य’ इति विग्रहेऽपि ‘एकतद्धिते च’ इति सूत्रेण उत्तरपदमात्रे परे एकशब्दस्य ह्रस्वताविधानात् पुंवद्भावः सिद्ध्यति । तथाऽप्यस्मिन् पक्षे भगवतो भक्तिविषयत्वरूपार्थविशेषासिद्धिरित्याद्यालोचनीयमिति द्रष्टव्यम् । न सिद्ध्यतीति ।। समानाधिकरणबहुव्रीहेरेवार्थगमकत्वादिति भावः । आगमसिद्ध-त्वादिति ।। ‘एकभक्तिः इत्यत्र व्यधिकरणबहुव्रीहिः’ इति शेषः ।। १७,१८ ।।
भावप्रकाशः
।। न सिध्यतीति ।। ‘स्त्रियाः पुंवद्भाषितपुंस्कात्’ इति सूत्रे ‘अपूरणी प्रियादिषु’ इत्यनेन प्रियादिशब्दे परे पुंवद्भावनिषेधादिति भावः । यद्यपि सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः सम्भवति । तथाऽपि वक्ष्यमाणागमानुसारात् व्यधिकरणबहुव्रीहिरङ्गीकृता इति ज्ञातव्यम् । वैयधिकरण्यादिति । ‘समानाधिकरणानां बहुव्रीहिरिष्यते’ इत्युक्तेरिति भावः । उपलक्षणं चैतत् । सप्तमीविशेषणे बहुव्रीहिरिति सप्तम्यन्तस्य पूर्वनिपातोक्तिरूपलिङ्गाच्चेति ग्राह्यम् । यस्यासावितीति ।। अत्र यस्येत्युपस्कर्तव्यमित्येव पाठः । स उच्यत इति तच्छब्दस्य सत्त्वात् । अन्यादृशस्तु लेखकप्रमादादित्याहुः ।। १७ ।।