ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ।। १८ ।।

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।

ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ।। १८ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु तद् ब्रह्म ज्योतिषां सूर्यादिप्रकाशकवस्तूनां ज्योतिः प्रकाशनशक्तिप्रदम् । तमसः अव्यक्तात् मृत्योः अज्ञानाद्वा परम् । तेनास्पृष्टमुच्यते ‘आदित्यवर्णं तमसः परस्तात्’ इत्यादौ । ज्ञानम् अवबोधस्वरूपम् । ‘स्वयमेवात्मनाऽऽत्मानं वेत्थ’ इति स्वज्ञेयत्वाद् ज्ञेयम्, स्वप्रकाशमित्यर्थः । अन्यज्ञेयत्वस्य ‘ज्ञेयं यत्तत् प्रवक्ष्यामि’ इति पूर्ववाक्य एवोक्तत्वादत्र ‘ज्ञेयम्’ इति स्वज्ञेयत्वमेवाभिप्रेतमिति तात्पर्यनिर्णये स्फुटम् । ज्ञानेन मुक्तौ प्राप्यत्वाद् ज्ञानगम्यं सर्वस्य प्राणिजातस्य हृदि विष्ठितं विशेषेण नियन्तृ । तथाविधतया वाऽवस्थितम् ।। १८ ।।