असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ।। ३५ ।।
श्रीभगवानुवाच–
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ।। ३५ ।।
भाष्यम्
उक्तं च–
‘मनसश्चञ्चलत्वाद्धि स्थितिर्योगस्य वै स्थिरा ।
विनाभ्यासं न शक्या स्याद् वैराग्याद्वा न संशयः’ इति व्यासयोगे
।। ३४,३५ ।।
भावप्रदीपिका
एतच्छ्लोकार्थं समर्थयन्नुत्तरश्लोकं व्याचष्टे– उक्तं चेति
।। ३५ ।।
प्रमेयदीपिका
अत्राऽगमं चाऽह– उक्तं चेति ।। एतेन ‘असंशयम्’ इति परिहारवाक्यमपि व्याख्यातम् ।।
भावदीपः
।। व्याख्यातमिति ।। ‘अभ्यासेन वैराग्येण च विना दुर्ग्रहणं नास्त्यसंशयम्’ इत्युक्त्या ‘ताभ्यां लभ्यते’ इत्यर्थस्यात्र प्रतीतेरिति भावः ।। ३५ ।।
भावरत्नकोशः
।। आगमे ‘अभ्यासं विना वैराग्यादिना योगस्य स्थिरा स्थितिर्न शक्या’ इत्यन्वयः । ‘आपादयितुम्’ इति शेषः । ‘मनसश्चञ्चलत्वाद्धि स्थितिर्योगस्य न स्थिरा’ इत्येतावत एव प्रकृतोपयोगित्वेऽप्यधिकांशोदाहरणप्रयोजनं दर्शयति– एतेनेति । ‘विना’ इत्यर्धोदाहरणेनेत्यर्थः । न केवलं ‘न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम्’ इति प्रश्नवाक्यं पूर्वार्धेन व्याख्यातमिति अपिशब्दः ।। ३४-३५ ।।
भावप्रकाशः
।। एतेनेति ।। विनाभ्यासादित्युत्तरार्धेनेत्यर्थः ।। ३५ ।।