सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ।। १८ ।।

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।

क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ।। १८ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु सत्कारेति ।। सत्कारः ‘साधुरयं तपस्वी ब्राह्मणः’ इत्यादिवाक्पूजारूपः साधुकारः । मानः प्रत्युत्थानाभिवन्दनादिरूपं माननम् । पूजा पादक्षालनअर्चनादिरूपा गौरवितप्रीतिहेतुक्रिया, एता एव अर्थः प्रयोजनं यस्य तत् सत्कारमानपूजार्थं दम्भेनैव परवञ्चनेनैव यत् तपः क्रियते तदिह विद्वत्सदसि राजसं प्रोक्तम् । तस्यैव गर्हितत्वं दर्शयितुमुक्तम् – ‘चलं कादाचित्कफलम् अध्रुवं क्षयिष्णुफलकं च’ इति । मोक्षसाधनातिरिक्तफलकं सर्वं तपो राजसमिति भावः ।। १८ ।।