व्यासप्रसादाच्छ्रुतवान् एतद्गुह्यमहं परम् । योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ।।७५।।

व्यासप्रसादाच्छ्रुतवान् एतद्गुह्यमहं परम् ।

योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ।।७५।।

भावरत्नकोशः

गीताक्षरार्थस्तु- गीताशास्त्रस्य युद्धरङ्गे रहसि समुपदिष्टस्य श्रवणं तव कथं स्यात् इत्याशङ्कापरिहारायोच्यते– व्यासप्रसादादिति ।। भगवता व्यासेन मह्यं कुरुक्षेत्रे यावद्युद्धसमाप्ति तत्रतत्र प्रवृत्तस्य सर्वस्यापि व्यापारस्य दर्शनश्रवणे स्यातामिति हि दिव्यं चक्षुर्दत्तम् । अतो व्यासप्रसादात् परं गुह्यम् एतत् श्रुतवान् । कस्माच्च इत्यपेक्षाया-मुच्यते– योगं योगेश्वरादिति ।। योगं ज्ञानोपायः, तत्प्रतिपादकत्वाच्छास्त्रमपि योगः, तं योगानामीश्वराद् योगेश्वरात् साक्षाद् अव्यवधानेन स्वयम् आत्मना, नापरचोदनाय । अर्जुनं प्रति कथयतः कृष्णात् श्रुतवान् इत्यनेन रहसि वृत्तं तव कर्णपथं कथं गतम् किं तच्छ्रुतम् कस्माच्च इति कृतशङ्कात्रयं परिहृतं भवति ।। ७५ ।।