यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ।। ३९ ।।

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।

निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ।। ३९ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- यदग्र इति ।। यद् अग्रे समुपनतिसमये अनुबन्धे च पश्चादपि विपाककाले आत्मनो मोहनं मोहकरं निद्राऽऽलस्यप्रमादेभ्यः समुत्तिष्ठ-तीति निद्राऽऽलस्यप्रमादोत्थं तत्सुखं तामसमुदाहृतम् ।। ३९ ।।