यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ।। ४६ ।।

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ।। ४६ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु यतः यस्माद् भगवतो भूतानां प्राणिनां प्रवृत्तिः चेष्टा भवति, येन च इदं सर्वं चराचरात्मकं जगत् ततं व्याप्तं तं भगवन्तं स्वकर्मणा ब्रह्मचर्यशमदमादिपूर्वकं सम्यक् पूजयित्वा मानवो मनुष्यो ब्राह्मणादिः सिद्धिं विन्दति लभते

।। ४६ ।।