विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ।। १३ ।।

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।

श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ।। १३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु विधिहीनमिति ।। विधिहीनं यथाशास्त्र-चोदितविपरीतम् असृष्टान्नं ब्राह्मणेभ्यो न दत्तमन्नं यस्मिन् तथा मन्त्रहीनं तत्तद्देवतादिप्रकाशक-मन्त्रशून्यम्, स्वरतो वर्णतो वा वियुक्तम् अमन्त्रकम् इत्यपि आहुः । अदक्षिणं कल्पोक्त-दक्षिणारहितं श्रद्धाविरहितम् आस्तिक्यनिष्ठया विशेषेण हीनं यज्ञं तामसं तमोगुणनिर्वृत्तं तामसजीवस्वरूपज्ञापकं परिचक्षते कथयन्ति प्राज्ञाः ।। १३ ।।