साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ।। ३० ।।

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।

प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ।। ३० ।।

।। ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे

श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ।।

भावरत्नकोशः

।। साधिभूतेति । साधिभूताधिदैवम् अधिभूताधिदैवसहितम्, साधियज्ञम् अधियज्ञसहितं च मां ये विदुः, अपि च प्रयाणकाले मरणकाले मामेव विदुुः ते युक्त-चेतसः समाहितमानसाः । ‘तद्ब्रह्म’ इत्युक्तौ भगवतो ब्रह्मणोऽन्यत्वशङ्कायां तत्परिहारार्थं ‘साधिभूताधिदैवं माम्’ इत्युक्तमित्युत्तरप्रस्थाने भगवत्पादाः ।।

कामैस्तैस्तैः’ इत्यादेः ‘यत्सर्वे मिश्रयाजिनः’ इत्यादिना अथ केचन द्वेषिणोऽपि सन्ती-त्युच्यते– अव्यक्तमितीति । यत् केषाञ्चिदद्वैतज्ञानं तदपि मदिच्छयेत्युक्तम्– नाहं प्रकाश इतीति ।

जीवधर्मानीश्वरे तु यो जीवेष्वैश्वरानपि ।

 विद्याज्जीवैश्वरैक्यं वा द्वन्द्वमोही स उच्यते ।।’

इत्यादिना च तात्पर्यनिर्णयतट्टीकयोरर्थान्तरस्योक्तावपि, को विशेषस्तवान्येभ्य इत्यत आह– अव्यक्तमिति ।। अज्ञानं च मदिच्छयेत्याह– नाहमिति ।। ‘द्वन्द्वमोहेन सुखदुःखादि-विषयमोहेन’ इत्यादि भाष्यतट्टीकादिरीत्याऽत्रास्माभिरर्थ उक्त इति न विसंवादः शङ्कनीयः । एवमन्यत्रापीति ।

 ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्सूरीन्द्रतीर्थपूज्यपादशिष्येण सुमतीन्द्रयतिना विरचितायां प्रमेयदीपिकाव्याख्यायां भावरत्नसमाख्यायां सप्तमोऽध्यायः ।।