प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ।। २० ।।
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ।। २० ।।
भाष्यम्
‘यतश्च यत्’ (१३.४) इति वक्तुं प्रकृतिविकारपुरुषान् सङ्क्षिप्याऽह– प्रकृतिमिति ।।
भावप्रदीपिका
उत्तरश्लोकानवतारयति– यतश्चेति । ‘यतश्च यत्’ इति प्रतिज्ञातप्रवर्तकं वक्तुं प्रवर्त्यं दर्शयतीत्यर्थः ।
प्रमेयदीपिका
ननु ‘प्रकृतिं पुरुषं चैव विद्धि’ इत्यादिकमप्रतिज्ञातं किमित्युच्यते । मैवम् । ‘यादृक् च’ (१३.४) इति प्रतिज्ञातस्य सप्रकारस्य क्षेत्रस्य कथनात् । तत्प्रतिज्ञाक्रमेण प्रागेव कुतो नोक्तमित्यत आह– यतश्चेति ।।
‘यतश्च यत्’ (१३.४) इति प्रतिज्ञातं प्रेरकस्वरूपं तावत्प्रभावानन्तरं वक्तव्यं प्राप्तम् । तत्र प्रेरकस्य स्वरूपनिरूपणं प्रेर्यज्ञानमपेक्षते । प्रेर्यं च सप्रकारं क्षेत्रम् । अतः प्रेरकस्वरूपं वक्तुमनेन प्रेरणीयं सप्रकारं क्षेत्रमुच्यते । तस्य प्रागपि वचने गौरवं स्यादिति भावः । तर्हि ‘प्रकृति’ इत्यादि कथमुच्यते? ईश्वरातिरिक्तस्सर्वोऽपि चेतना-चेतनवर्गः क्षेत्रमित्युच्यते । तत्र प्रकृतिशब्देन ‘महाभूतानि’ (१३.६) इत्यादिनोक्तानि चतुर्विंशतितत्त्वानि गृह्यन्ते । विकारशब्देनेच्छाद्युपलक्षिताः क्षेत्रान्तर्भूता अपि गुणत्रया-द्यास्सर्वे विकारा विवक्षाविशेषवशेन पृथगुपात्ताः । पुरुषशब्देन जीव इति ।। ‘यावत् सञ्जायते’ (१३.२७) इत्यादिना पुनर्वक्ष्यमाणत्वात् पुनरुक्तिदोषं परिहर्तुं ‘सङ्क्षिप्य’ इत्युक्तम् । आह सप्रकारान् निरूपयति ।।
भावबोधः
।। प्रागपि वचन इति ।। ‘यादृक्च’ इति प्रतिज्ञानुसारेण ‘यच्च’ इति प्रतिज्ञातक्षेत्रस्वरूपस्य ‘पञ्च चेन्द्रियगोचराः’ इत्यन्तेन निरूपणानन्तरमपीत्यर्थः । प्रकृतीत्यादि कथमिति ।। प्रकृतिशब्दवाच्यभूतादिक्षेत्रस्य ‘यच्च’ इति प्रतिज्ञाविषयत्वात् ‘महाभूतानि’ इत्यनेनोक्तत्वाच्चेच्छादिविकाराणां ‘यद्विकारि’ इति प्रतिज्ञाविषयत्वात् ‘इच्छाद्वेष’ इत्यादिनोक्तत्वाच्च पुरुषपदोक्तजीवस्य क्षेत्रभिन्नत्वेन ‘यच्च’ इत्यादिप्रतिज्ञाविषयत्वाभावात् कथं तदुक्तेः ‘यादृक्च’ इति प्रतिज्ञातोक्तित्वमिति भावः । ईश्वरातिरिक्त इति ।। ‘चेतनाचेतनं चैतत् सर्वं क्षेत्रमितीरितम्’ इति वचनादिति भावः । नन्वेवमपि ‘यादृक्च’ इति प्रतिज्ञातोक्तित्वं कथमस्येत्यत आह– सप्रकारानिति ।। प्रकृतिपुरुषयोरनादित्वरूपस्य सत्त्वादीनाम् अल्प-विकारत्वरूपस्य, इच्छादीनां बहुविकारत्वरूपस्य प्रकारस्य निरूपणादिति भावः ।। २० ।।
भावदीपः
।। स्वरूपं चेति ।। ‘परं ब्रह्म’ इति ब्रह्मस्वरूपं ‘स च यः’ इति प्रतिज्ञातमित्यर्थः ।। प्रभावानन्तरमिति ।। ‘अनादिमत्’ इत्यादि ‘उपपद्येत’ इत्यन्त-ग्रन्थान्तरमित्यर्थः ।। अनेनेति ।। ‘प्रकृतिं पुरुषं च’ इत्यादिनेत्यर्थः ।। प्रकृत्यादीति कथ-मिति ।। ‘महाभूतानि’ इत्यादिना प्रकृत्यादेरनेकस्येच्छादिविकाराणां चोेक्तत्वात् पुरुषपदे-नेश्वरश्चेत् सोऽपि ‘अनादिमत्परं ब्रह्म’ इति प्रागुक्त एवेति भावः ।।
‘यादृक् च’ इति प्रतिज्ञातोक्तिपरत्वलाभायाऽह– सप्रकारान्निरूपयतीति ।। प्रकृति-पुरुषयोरनादित्वरूपं सत्वादीनां सर्गकालीनाल्पीभवत्प्रकृतिसम्भवत्वरूपम् इच्छादिविकाराणां बहुत्वप्रकृतिसम्भवत्वरूपं प्रकारं निरूपयतीत्यर्थ इत्येके । अन्ये तु प्रकृतेः कार्यकारण-कर्तृत्वहेतुत्वरूपं, पुरुषस्य भोक्तृत्वरूपं, गुणानांं सदसद्योनिगमनजन्मकारणत्वरूपं प्रकारं निरूपयतीत्यर्थ इत्याहुः ।।
भावरत्नकोशः
।। कथनात् ‘प्रकृतिं पुरुषं च’ इत्यादिना । प्रागेव क्षेत्र-निरूपणाद् अनन्तरं विकारनिरूपणाच्च प्रागेव । वक्तुम् ‘उपद्रष्टा इत्यादिना’ इति शेषः । अनेन प्रकृतिं पुरुषं च’ इत्यनेन । प्रागपि ‘यादृक्च’ इति प्रतिज्ञानुसारात् ‘पञ्च चेन्द्रिय-गोचराः’ इत्यन्तेन ‘यच्च’ इति प्रतिज्ञातक्षेत्रोक्त्यनन्तरमपीत्यर्थः ।
तर्हि यद्यत्र सप्रकारं क्षेत्रं विवक्षितम्, तर्हि । प्रकृतिशब्दः पुरुषशब्दश्च कथं भाष्ये उपात्तः ? प्रकृतिपुरुषयोः पूर्वं केनापि पदेनाप्रतिज्ञातत्वात् । प्रत्युत ‘महाभूतानि’ इत्यादिना परिगणितानामेव क्षेत्रत्वावगमात् । पुरुषशब्दस्य भगवत्परत्वे प्रेर्यत्वायोगादिति हृदयम् । परिहरति– उच्यत इति ।। ‘चेतनाचेतनं त्वेतत् सर्वं क्षेत्रमितीरितम् ’ इति तात्पर्यनिर्णयवचनं हृदि कृत्वाऽऽह– सर्वोऽपीति ।। ननु ‘इच्छादयो विकाराः’ इति इच्छाद्वेषादीनामेव विकारत्वेन भाषितत्वात् तद्विरोधः स्यात् इति चोद्यपरिहारायाह– इच्छाद्युपलक्षिता इति ।। ‘इच्छा द्वेषः सुखं दुःखम्’ इतीच्छादिपदोपलक्षिता इत्यर्थः । ननु गुणत्रयादीनां महदादिपृथिव्यन्तानां ‘महाभूतानि’ इत्युक्तक्षेत्रान्तर्भावेन प्रकृतिशब्देनैव गृहीतानां कथं विकारशब्देन ग्रहणम् इत्यत उक्तम् क्षेत्रान्तर्भूता अपीति ।।
यद्यप्युक्तरीत्या क्षेत्रान्तर्भूताः । तथापि पृथगुपात्ताः । केन निमित्तेन इत्यतो ‘गुणानां च विकारत्वेऽपि अधिकविकारत्वविवक्षया अन्येषाम्’ ‘विकारांश्च गुणांश्च’ इति पृथगुक्तिः इति, ‘विशेषविकृतिस्थिताः’ इति च तात्पर्यनिर्णयोक्तिं हृदि कृत्वोक्तम्– विवक्षाविशेषवशेनेति ।। गुणत्रयाणाम् उत्तरोत्तरं महदादिकारणविवक्षया क्षेत्रत्वम् प्रकृतिं प्रत्युपादेयत्वविवक्षया विकारत्वम् इति विवक्षाविशेषवशेनेत्यर्थः । ‘तेषामत्यल्पोऽपि विशेषो लयात् सर्ग इति विकाराः पृथगुक्ताः’ इति भाष्ये वक्ष्यमाणविवक्षाविशेषवशेनेत्यर्थ इत्यपि आहुः । ननु क्षेत्रादीनामुक्तत्वाद् ‘आह’ इति किमित्युच्यते? इति चोद्यपरिहाराय, ‘यादृक्च’ इति प्रतिज्ञातप्रकारोक्तिघटनाय च व्याचष्टे– सप्रकारान्निरूपयतीति ।। प्रकृतिपुरुषयोरनादित्वरूपम्, सत्त्वादीनां सर्गकालीनाल्प-विशेषवत्त्वप्रकृतिसम्भवत्वरूपम्, इच्छादिविकाराणां बहुविशेषवत्त्वप्रकृतिसम्भवत्वरूपम्, जीवस्य भोक्तृत्वरूपं च प्रकारं निरूपयतीत्यर्थ इति भावः ।।
भावदीपिका
।। प्रागेवेति ।। क्षेत्रनिरूपणानन्तरं विकारनिरूपणाच्च प्रागेवेत्यर्थः । वक्तव्यं प्राप्तमिति ।। वक्तव्यतया प्राप्तमित्यर्थः । वक्तुम् ‘उपद्रष्टा इत्यनेन’ इति शेषः । प्रागपीति ।। प्रेरकस्वरूपं वक्तुं सप्रकारं क्षेत्रमत्र प्रभावानन्तरं तावद्वक्तव्यमेव । तस्य ‘यादृक्च’ इति प्रतिज्ञातसप्रकारक्षेत्रस्य प्रतिज्ञाक्रमानुसारेण ‘पञ्च चेन्द्रियगोचराः’ इत्यन्तेन ‘यच्च’ इति प्रतिज्ञातक्षेत्रस्वरूपनिरूपणानन्तरमपि प्रवचने गौरवं स्यादित्यर्थः ।
तर्हि प्रकृतीत्यादि कथमिति ।। प्रकृतिशब्दवाच्यभूतादिक्षेत्रस्य ‘यच्च’ इति प्रतिज्ञात-विषयत्वात् ‘महाभूतानि’ इत्यनेनोक्तत्वाच्च, इच्छादिविकाराणां ‘यद्विकारि’ इति प्रतिज्ञा-विषयत्वाद् ‘इच्छाद्वेष’ इत्यादिनोक्तत्वाच्च पुरुषपदोक्तजीवस्य क्षेत्रभिन्नत्वेन ‘यच्च’ इत्यादि-प्रतिज्ञाविषयत्वाभावात् कथं तदुक्तेः ‘यादृक्च’ इति प्रतिज्ञातोक्तित्वमिति भावः । उत्तरमाह– ईश्वरातिरिक्त इति ।। ‘चेतनाचेतनं चैतत् सर्वं क्षेत्रमितीर्यते’ इति वचनादिति भावः । विवक्षाविशेषेति ।। तेषाम् ‘अत्यल्पः’ इति वक्ष्यमाणविवक्षाविशेष इत्यर्थः । नन्वेवमप्यत्र प्रकारनिरूपणात् ‘यादृक् च’ इति प्रतिज्ञातोक्तित्वं कथमस्य इत्यत आह– सप्रकारानिति ।। प्रकृतिपुरुषयोरनादित्वस्य, सत्त्वादीनाम् अल्पविकारत्वरूपस्य, इच्छादीनां बहुविकारत्वरूपस्य च प्रकारस्य निरूपणादिति भावः ।।
भावप्रकाशः
।। प्रेरकस्वरूपमिति ।। प्रेरकस्य प्रेरणोपयोगिधर्मवैशिष्ट्य-मित्यर्थः । स्वरूपमात्रस्य परं ब्रह्मेति नामोक्त्याऽभिहितत्वात् । एवमग्रेऽपि बोध्यम् । प्रागपीति ।। ‘यादृक् च’ इति प्रतिज्ञानुसारात् ‘पञ्च चेन्द्रियगोचराः ः ’ इत्यन्तेन । ‘यच्च’ इति प्रतिज्ञातक्षेत्रोक्त्यनन्तरमपीत्यर्थः । प्रकृतीत्यादि कथमिति ।। ‘महाभूतानि’ इत्याद्युक्त्वा ‘एतत्क्षेत्रम्’ इत्युक्तत्वेन प्रकृत्यादीनां क्षेत्रत्वाभावावगमादिति भावः । ईश्वरातिरिक्त इति ।। ‘चेतनाचेतनं चैतत् सर्वं क्षेत्रमितीरितम् । क्षितिरेतद्भगवतो यदतः क्षेत्रमीर्यते’ इति निर्णयोक्ते-रिति भावः । न चैवम् ‘एतत् क्षेत्रम्’ इति गीताविरोधः । तत्र ‘समासेन’ इत्युक्ततया सङ्क्षेपेणाभिधानात् । अत्र समग्रक्षेत्रोक्तेरिति ।
प्रकृतिशब्देनेति ।। ‘गोभिः श्रीणीतमत्सरम्’ इतिवत् कारणशब्दस्य कार्ये लक्षणेति भावः । ननु ‘इच्छाद्वेष’ इत्यनेनेच्छादीनामेव विकारत्वेनोक्तत्वात् तद्विरोध इत्यत उक्तम्– इच्छाद्युपलक्षिता इति ।। ननु गुणत्रयादीनां पृथिव्यन्तानां ‘महाभूतानि’ इत्याद्युक्तक्षेत्रान्त-र्भूततया प्रकृतिशब्देन ग्रहणात् कथं विकारशब्देन ग्रहणमित्यत उक्तम्– क्षेत्रान्तर्भूता अपि पृथगुपात्ता इति ।। तत्र हेतुर्विवक्षाविशेषवशेनेति ।। गुणत्रयादीनामुत्तरोत्तरं महदादि-कारणत्वविवक्षया क्षेत्रत्वम् । प्रकृत्याद्युपादेयत्वविवक्षया विकारत्वमिति विवक्षावशेनेत्यर्थः । ‘यादृक् च’ इति प्रतिज्ञातप्रकारोक्तित्वघटनाय व्याचष्टे– सप्रकारानिति ।। प्रकृति-पुरुषयोरनादिरूपस्य गुणत्रयादीनां प्रकृतिसम्भवत्वरूपस्य च प्रकारस्योक्तेरिति भावः ।