असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ।। ८ ।।
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ।। ८ ।।
भाष्यम्
जगतः सत्यं प्रतिष्ठा । ईश्वरश्च विष्णुः । तद् वैपरीत्येनाऽहुः । ‘तस्योप-निषत् सत्यस्य सत्यमिति । प्राणा वै सत्यम्, तेषामेष सत्यम्’ (बृ.उ. ८.१.२०) इति हि श्रुतिः । ‘द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं च ... स्थितं च यच्च सच्च त्यच्च’ (बृ.उ.२.३.१ ) इति । ‘तस्योपनिषत् सत्यस्य सत्य-मिति एष ह्येवैतत् सादयति यामयति चेति’ इति प्राचीनशालाश्रुतिः । परस्परसम्भवो ह्युक्तः अन्नाद्भवन्ति भूतानि (३.१४) इत्यादिना ।। ८ ।।
भावप्रदीपिका
न केवलं जगदसत्यत्वादिवादिनोऽसत्यमित्यादिनोच्यन्ते । किन्त्वीश्वरस्यास्वातन्त्र्याद्यभ्युपगन्तारोऽपि इत्यभिप्रायेणाह– जगत इति । जगतः सत्यं हरिरिति कोऽर्थ इत्यत आह– तस्येति । ननु जगतः परस्परसम्भवे सत्येव तदभावोक्तिरयुक्ता । स एव कुत इत्यत आह– परस्परेति ।। ८,९ ।।
प्रमेयदीपिका
न केवलं जगतो मिथ्यात्वादि वदतामसुरत्वम् ‘असत्य-मप्रतिष्ठं ते’ इत्यनेनोच्यते । किन्तु जगज्जन्मादिकारणं विष्णुं ये न मन्यन्ते तेषां सर्वेषामपीति भावेनाऽह– जगत इति ।। तद्वैपरीत्येनेति ।। न विद्यते सत्य-मस्येत्यादि । जगतः सत्यं विष्णुः इत्यत्र श्रुतिमाह– तस्येति ।। तस्य विष्णोः सत्यस्य सत्यमिति उपनिषत् रहस्यं नाम । कथम्? प्राणाः मूर्तामूर्तं जगदिति यावत् सत्यमित्युच्यते । तेषां प्राणानाम् एषः विष्णुः सत्यमित्यर्थः ।।
एवं चेज्जगतो मुख्यं सत्यत्वं न भवेत् । अन्यथा निर्धारणायोगादित्यतो मूर्तामूर्तात्मकस्य जगतः सत्यत्वं तावदन्यथा श्रुत्यैव व्याचष्टे– द्वे वावेति ।। रूपे प्रतिमे । तत्र मूर्तं ‘स्थितम्’ इति ‘सत्’ इति चोच्यते । अमूर्तं तु यत् इति त्यत् इति च उच्यत इत्यर्थः । तथा च सच्च त्यच्च सत्यमित्युक्तं भवति । इदानीं जगतः सत्यत्वं विष्णोः श्रुत्या व्याचष्टे– तस्येति ।। सादयति विशरणादिकं प्रापयतीति सत् । यामयति नियच्छतीति यत् । सच्च तत् यच्च सत्यमित्यर्थः । प्रतिष्ठा ईश्वरश्चेति प्रसिद्धमेव ।।
‘अपरस्परसम्भूतम्’ इत्यस्य ‘अपरं परस्मात् सम्भूतम््’ इति व्याख्यानमसत् । प्रतिषेधप्रकरणात् । अतः परस्परसम्भूतं न भवतीत्याहुरित्येवं व्याख्येयम् । स्यादेवं यदि परस्परसम्भवो भगवतोऽभिमतः स्यादित्यत आह– परस्परेति ।। यद्वाऽनेन परव्याख्यानासाधुत्वमुपपादयति । भगवता परस्परसम्भवस्योक्तत्वात् तद्वचनं कथमासुरमिति? ईश्वराक्षेपे तात्पर्यमिति चेन्न । पुनरुक्तिप्रसङ्गात् ।। ८ ।।
भावबोधः
।। मूर्तामूर्तं चेति ।। वक्ष्यमाणप्रमाणानुसारेण प्राणशब्दार्थमाह– मूर्तामूर्तमिति ।। ८ ।।
भावदीपः
।। न विद्यते सत्यमस्येत्यादीति ।। अस्य जगतः सत्यं सादनरूपविशरणादिप्रापकं नियामकं च न विद्यत इत्यस्य सत्यं न विद्यते प्रतिष्ठा स्थितिहेतुरस्येति ‘अप्रतिष्ठम्’ इत्यादिरूपेण ध्येय इत्यर्थः ।। विशरणादिकमिति ।। ‘षद्लृ विशरणगत्यवसादनेषु’ इति धातोरिति भावः ।। प्रतिषेधेति ।। ‘असत्यम्’ इत्यादिपदत्रये बहुव्रीहिप्रतिषेधस्य प्रक्रान्तत्वादित्यर्थः ।। उक्तत्वादिति ।। ‘तृतीये’ इति योज्यम् । पुनरुक्तीति ।। अनीश्वरम् इत्यनेनेति भावः ।। ८ ।।
भावरत्नकोशः
‘मिथ्यात्वादि’ इत्यत्र आदिशब्देन अप्रतिष्ठत्वम् अनीश्वरत्वं च ग्राह्यम् । न मन्यन्ते ‘जगज्जन्मादिकारणं न भवति’ इति मन्यन्ते चेत्यपि ग्राह्यम् । ‘न विद्यते सत्यम् विशरणादिप्रापकम्, नियामकं चास्य जगतः’ इति असत्यम् ‘न विद्यते प्रतिष्ठा स्थितिहेतुरस्य’ इत्यप्रतिष्ठम्’ न विद्यते ईश्वरोऽस्य’ इत्यनीश्वरम् इत्येवंरूपेणाहुरित्यन्वयः । ‘उपनिषद्’ इत्यनुवादः ‘रहस्यं नाम’ इति व्याख्या । ‘प्राणाः’ इत्यनुवादः ‘मूर्तामूर्तम्’ इति व्याख्या । प्रमाणे तथा वक्ष्यमाणत्वादियमुक्तिः । तद्विवक्षितार्थकथनम्– जगदितीति ।। ‘उच्यन्ते’ इति बहुवचनम् ‘प्राणाः’ इत्येतदपेक्षया । प्राणानां मूर्तामूर्तात्मकजगत इति यावत् ।
अबाध्यत्वापरपर्यायमिह सत्यत्वमुक्तमिति मत्वा शङ्कते– एवं चेदिति ।। भगवान् सत्यस्य सत्यं चेदित्यर्थः । अन्यथा सत्त्वेन अन्यत्वेन च मूर्तामूतात्मकत्वेनेति यावत् । सच्च त्यं च मूर्तामूर्तं च । जगतः सत्यत्वं जगत् प्रति सत्यत्वम् सत्यस्य सत्यत्वमित्यर्थः । ‘विशरणादिकम्’ इत्यत्र ‘षद विशरणगत्यवसादनेषु’ इत्युक्तगत्यादिः आदिपदार्थः । सदेरन्तर्णीतण्यर्थाद् ‘अन्येभ्योऽपि दृश्यते’ इति क्विपि ‘सत्’ इति रूपमिति भावः । प्रसिद्धमेवेति ।। ‘सदायतनाः सत्प्रतिष्ठाः’, ईश्वरः सर्वभूतानाम्’ इत्यादौ प्रसिद्धमित्यतो नैतयोः प्रमाणोदाहरणमिति भावः । प्रतिषेधेति ।। ‘असत्यम् अप्रतिष्ठम् अनीश्वरम्’ इति नञा निषेधस्यैव प्रकृतत्वात् । ‘अपरम् पश्चात्कालीनं कार्यं परस्मात् पूर्वकालीनात् कारणात् सम्भूतम्’ इति व्याख्यानं प्रतिषेधप्रकरणाननुगुणमिति भावः । तद्वचनं भगवद्वचनम् । अपरं परस्मात् सम्भूतमिति वचनं वा । ईश्वराक्षेप इति ।। अपरं परस्मादेव सम्भूतम् न तु ईश्वरात् इति ईश्वरनिराकरण इत्यर्थः । पुनरुक्तिप्रसङ्गात् अनीश्वरम् इत्यनेन ।।
गीताक्षरार्थस्तु किञ्च ते आसुरा जनाः जगत् असत्यं न सत्यम् असत्यं तत् असत्य-त्वाद् अप्रतिष्ठं ज्ञानबाध्यं तत एव अनीश्वरम् अस्वामिकम् आहुः । न च यतो जातम् असावीश्वर इति वाच्यम् । यतः अपरस्परसम्भूतम् एकस्मादेकस्य नोत्पत्तिरिति यावत् । न चैतावन्मात्रेण कथमासुरत्वमिति वाच्यम् । ‘अन्नाद् भवन्ति भूतानि’ इत्यादावुक्तः परस्पर-सम्भवो हि मत्सिद्धान्तः, तद्विरुद्धत्वादित्याशयात् । सत्यं न चेत् किमसदेव परस्परसम्भूतं न चेत् किं नित्यम् स्वतो वा जातम् आद्यस्योत्तरम् अन्यत् ‘सदसद्भ्याम् इति शेषः । द्बितीयस्योत्तरम्– कामहैतुकम् । ‘कामः’ इति तत्कारणमविद्या लक्ष्यते । कामहेतुकमेव कामहैतुकम्, अविद्याकल्पितम् इत्येकोऽर्थः ।
‘मिथ्या जगदिदं सर्वं भ्रमजत्वान्न तिष्ठति ।
मिथ्यात्वान्नेश्वरोऽस्यास्ति..... ।।’
इति तात्पर्यनिर्णयमूलेन ‘न केवलं जगतो मिथ्यात्वादि वदताम् आसुरत्वम् ‘असत्यम-प्रतिष्ठं ते’ इत्यनेनोच्यते, इत्यत्रत्यटीकया, तत्त्वोद्योतटीकया चावगम्यते । भाष्ये तु ‘न विद्यते सत्यमस्य तद् असत्यम्, न विद्यते प्रतिष्ठापकोऽस्य तद् अप्रतिष्ठम्, न विद्यत ईश्वरोऽस्य तद् अनीश्वरम्’ इति अपरार्थ उक्तः । तत्र टीकायाम् ‘सादयति शरणादिकं प्रापयतीति सः, यामयति नियच्छतीति यम्, सच्च तद् यं चेति सत्यम् इति सत्यशब्दं विष्णौ व्युत्पाद्य, ‘प्रतिष्ठेश्वरश्च प्रसिद्धमेव’ इति प्रसिद्ध्यैव प्रतिष्ठेश्वरशब्दयोर्विष्ण्वर्थकत्वमुक्तम् ।। ८ ।।
भावदीपिका
‘उप समीपे निषीदति’ इति व्युत्पत्तिं हृदि निधायाह– रहस्यं नामेति ।। मूर्तं चामूर्तं चेति ।। वक्ष्यमाणप्रमाणानुसारेण प्राणशब्दार्थमाह– मूर्ता-मूर्तमिति ।। पञ्चमहाभूतानामेव प्राप्तिपरिहारायाह– जगदितीति ।। अबाध्यत्वरूपं सत्यत्व-मत्रोक्तमिति मत्वा शङ्कते – एवं चेदिति ।। अन्यथेति ।। जगतो मुख्यसत्यत्व इत्यर्थः । ‘आसां गवां मध्ये कृष्णा गौः सम्पन्नक्षीरतमा’ इत्युक्ते इतरासां किञ्चित्सम्पन्नक्षीरत्वं लभ्यते, एवं ‘सत्यस्य सत्यम्’ इत्युक्ते निर्धारणे षष्ठीबलाद् ईश्वरस्य मुख्यसत्यत्वम्, जगतस्त्वमुख्यं व्यावहारिकसत्यत्वं लभ्यत इति भावः । अत्र ‘सत् त्यम्’ इति ‘सत्यम्’ इत्यत्र विग्रहं दर्शयति – सच्च त्यच्चेति ।। मूर्तामूर्तं चेत्यर्थः । जगत इति ।। षष्ठ्यन्तसत्यशब्दवाच्यस्य मूर्तामूर्तजगत इत्यर्थः ।
‘षद्लृ विशरण...’ इत्यादिधातुमाश्रित्याह– विशरणादिकमिति ।। अत्र ‘सत् यम्’ इत्येव विवक्षितम्, नतु पूर्ववत् ‘सत् त्यम्’ इति इत्याशयेनाह– सच्च तदिति ।। ननु ‘जगतः सत्यम्’ इत्याद्यर्थत्रयमध्ये ‘जगतः सत्यं विष्णुः’ इत्यत्र श्रुतिरुक्ता । ‘प्रतिष्ठा ईश्वरः’ इत्यत्र कस्मान्न प्रमाणमुदाहृतम् इत्यत आह– प्रतिष्ठेति ।। ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’ ‘ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम्’ इत्यादिना जगतः प्रतिष्ठा ईश्वरश्चेति प्रसिद्धमेवेत्यर्थः । अपरं पश्चात्कालीनं कार्यम् । परस्मात् पूर्वकालीनात् कारणात् । प्रतिषेधेति ।। ‘असत्यम् अप्रतिष्ठम्’ इत्यादिप्रतिषेधप्रकरणादित्यर्थः । अत इति ।। प्रकरणाविरोधायेत्यर्थः । स्यादेवमिति ।। ‘परस्परं सम्भूतं न भवति’ इति वदतां निन्द्यत्व-मित्यर्थः । ‘परस्परं सम्भूतं न भवतीत्याहुः’ इति स्वव्याख्यानोपपादकत्वेन ‘परस्पर’ इति वाक्यं व्याख्यातम् । अधुना परकृतव्याख्यानासाधुत्वोपपादकत्वेनापि व्याख्येयम्, इत्याह– परव्याख्यानेति ।। ‘अपरं परस्मात् सम्भूतम्’ इति परव्याख्यानेत्यर्थः । तद्वचनं परस्परसम्भववचनम् । ईश्वरेति ।। ‘अपरं परस्मात् सम्भूतम्’ इत्येव न तु ‘ईश्वरेण सम्भूतम्’ इतीश्वराक्षेप इत्यर्थः । पुनरुक्तीति ।। ‘अनीश्वरम्’ इत्यनेन तदभावस्योक्तत्वेन पुनरुक्तिप्रसङ्गादित्यर्थः ।।
भावप्रकाशः
‘मूर्तं चामूर्तञ्च’ इति वक्ष्यमाणप्रमाणानुसारेणाह– मूर्तामूर्तं जगदिति यावदिति ।। मूर्तामूर्तयोः स्वरूपत्वायोगादाह– प्रतिमे इति ।। ‘सच्च त्यच्च’ इति समाहारद्वन्द्वः छान्दसः समासान्तलोपश्चेति भावः । जगतः सत्यत्वमिति ।। सम्बन्धमात्रे षष्ठी । जगत्प्रति सत्यत्वमित्यर्थः । सादयतीति ।। तथा च सदेरन्तर्भूतण्यर्थाद् अन्येभ्योऽपि दृश्यत इति कर्तरि क्विबिति भावः । प्रतिषेधकरणादिति ।। सत्यं नेत्यादिरूपेण निषेधस्यैव प्रकृतत्वादित्यर्थः । तद्वचनमिति ।। अपरं परस्मात् सम्भूतमिति वचनमित्यर्थः । ईश्वराक्षेप इति ।। अपरं परस्मात् सम्भूतं न त्वीश्वरादितीश्वरनिराकरणे तात्पर्यमित्यर्थः । पुनरुक्तीति ।। ‘अनीश्वरम्’ इत्यनेनेति शेषः ।। ८,९ ।।