दंष्ठ्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ।।२५।।

दंष्ठ्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।

दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ।।२५।।

भावरत्नकोशः

गीताक्षरार्थस्तु कस्मात् ? दंष्ट्राकरालानीति ।। दंष्ट्रा-करालानि दंष्ट्राभिर्विकृतानि अत एव भयानकानि कालानलसन्निभानि प्रलयानलसदृशानि । पारवश्यादियमुक्तिः– दिशो न जान इति ।। शर्म सुखम् । जगन्निवास जगदाधार ।। २५ ।।