अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ।। ४५ ।।

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ।

तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ।। ४५ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु एवं क्षमामाप्य अभिमतं प्रार्थ्यते– अदृष्टपूर्वमिति ।। इन्द्ररूपेण पूर्वं दृष्टत्वेऽपि, अर्जुनेन तदधमैर्वा पूर्वमदृष्टं तव रूपं दृष्ट्वा हृषितोऽस्मि । प्रव्यथितं प्रचलितम् । ततो मम व्यथानिवृत्तये तदेव रूपं दर्शय । तद्दर्शयितुं प्रसीद च ।। ४५ ।।