ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ।। १ ।।
तृतीयाध्यायः
अर्जुन उवाच–
ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत् किं कर्मणि घोरे मां नियोजयसि केशव ।। १ ।।
भाष्यम्
आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र । ज्ञानसाधनत्वेनाकर्म विनिन्द्य कर्म विधीयत उत्तराध्याये ।।
भावप्रदीपिका
पूर्वाध्यायसङ्गतितश्चोत्तराध्यायार्थमाह– आत्मेति ।। आत्मपदात् ज्जीवेश्वरौ । अकर्म कर्माकरणम् । ‘तस्मादसक्तः’ इतिपर्यन्तं विनिन्द्य, ततः ‘एवं’ (‘एवम् इत्यन्तम्’ इति स्यात्) कर्म विधीयते ।।
भावप्रकाशिका
तृतीयाध्यायार्थं वदन् सङ्गतिप्रसङ्गेन पूर्वाध्यायार्थं चाह– आत्मस्वरूपमिति ।। परमात्मस्वरूपम् । तज्ज्ञानस्यैव पुरुषार्थहेतुत्वात् । अत एव ‘ज्ञानं हि जैवमुक्तम्’ इत्यत्र जीवाश्रितज्ञानं परमात्मविषयमिति ज्ञातव्यम् । तदुपायस्यैवोप-र्यभिधानाच्च । ‘न त्वेवाहम्’ इति दृष्टान्तमुखेन शास्त्रप्रतिपाद्यमेवोन्मुखीचकार । उपरि च ‘नाभावो विद्यते सतः’, ‘अप्रमेयस्य’, ‘अजो नित्यः,’ ‘सर्वगतस्थाणुः’ इति परमात्म-स्वरूपस्यैव प्रतिपादकत्वात्, न च तस्यान्यार्थता । बिम्बपरिज्ञानार्थत्वदर्शनात् प्रतिबिम्बा-वलोकस्य । अतो ‘न त्वेवाहम्’ इत्यारभ्य प्राधान्यतः परमात्मा परमात्मस्वरूपम्, तज्ज्ञानसाधनं च सयोगकर्म ‘योगस्थः’ इत्यादावुक्तं पूर्वाध्याये ।।
उत्तराध्याये यदि बन्धभयात् कर्मसंयोगः क्रियते, तर्ह्यकरणेऽपि बन्धो न स्यात् । कृतानां तु कर्मणां भोगेन क्षयात्, किं कर्मणा तत्साध्येन वा ज्ञानेन ? इत्याशङ्क्य, अनन्तत्वात् कर्मणां भोगतः साकल्येन क्षयासम्भवात्, पुनरकर्तुमशक्यत्वात्, कर्मेन्द्रिय-संयमनेऽपि मानसदुष्कर्मोत्पत्त्या मिथ्याचारत्वप्रसङ्गात्, प्रजापतिवचनलङ्घनप्रसङ्गात्, स्वोपकारिदेवायजनेन कृतघ्नत्वापत्तेः, स्वविहितयज्ञद्वारा चक्राप्रवर्तनेन विश्वहननदोष-प्रसङ्गाच्च, न कर्माकरणं मुक्तिसाधनमिति अकर्म विनिन्द्य, ज्ञानमेव मुक्तिसाधनमिति ज्ञानसाधनत्वेन कर्म विधीयते ‘तस्मादसक्तः’ इत्यादिनेति भावः ।
प्रमेयदीपिका
पूर्वोत्तराध्यायेभ्योऽस्य तृतीयाध्यायस्य भेदं स्वस्मिन्नेकतां च दर्शयन् एतदध्यायप्रतिपाद्यमर्थं पूर्वाध्यायार्थसङ्गतत्वेन विवक्षुस्तत्प्रतिपाद्यं तावदाह– आत्मेति ।। जीवेश्वरस्वरूपं साङ्ख्याख्यमित्यर्थः । ज्ञानसाधनम् आात्मज्ञानसाधनं योगाख्यम् । पूर्वत्र पूर्वस्मिन्नध्याये । न चैवं द्वितीयाध्यायस्यैक्यानुपपत्तिः । साधनस्यैव प्राचुर्यात्, प्रचुरेण च व्यपदेशात् । तथाच सप्तमादौ वक्ष्यति ‘साधनं प्राधान्येनोक्तमतीतै-रध्यायैः’ (७.१) इति । ‘आत्मस्वरूपम्’ इत्यादि तु प्रकरणभेदप्रदर्शनायोक्तमिति ।।
एतत्सङ्गतत्वेन तृतीयाध्यायार्थमाह– ज्ञानेति ।। योगो द्विविधः । कर्मसमाधिभेदात्। तत्र तावज्ज्ञानसाधनत्वेन कर्म विधीयते कर्तव्यमेवेति ज्ञाप्यते कैश्चन वाक्यैः । अकर्म कर्माकरणम् । विनिन्द्य अस्मिन्नध्याये । अकर्मनिन्दाऽपि कर्मविध्यर्था इत्येकार्थता । तथाऽपि प्रकरणभेदार्थमेवमुक्तम् ।।
‘ज्ञानसाधनत्वेन’ इति वदता मोक्षसाधनता निरस्ता । तेन प्रश्नप्रतिवचनाप-व्याख्यानमप्यपहस्तितम् ।। आनन्दवृद्ध्यर्थता त्वनुज्ञायत एव ।।
भावबोधः
।। जीवेश्वरस्वरूपमिति ।। ‘न त्वेवाहम्’ इत्यादिनोभय-स्वरूपोक्तेरात्मशब्द उभयपर इति भावः । ‘एषा तेऽभिहिता साङ्ख्ये’ इत्युक्तत्वादाह– साङ्ख्याख्यमिति ।। योगाख्यमिति ।। ‘योगे त्विमां शृणु’ इत्युक्तत्वादिति भावः । ‘तत्र तावत्’ इति षष्ठे समाधिर्विधीयत इति भावः । सन्ध्यामुपासीतेत्यादिवद्विधानाभावात् कथं ‘विधीयते’ इत्युक्तमित्यत उक्तम् । कर्तव्यमेवेतीति ।
भावदीपः
।। स्वस्मिन्नेकतामिति ।। अर्थैकत्वनिबन्धनत्वादेकवाक्यताया इति भावः ।। विवक्षुरिति ।। ‘ज्ञान’ इत्यादिना । जीवेश्वरस्वरूपमिति ।। ‘नत्वेवाहम्’ (२.१२) इत्यादिना प्राधान्येन जीवस्य तादर्थ्येनेश्वरस्य च स्वरूपमित्यर्थः ।। ‘एषा तेऽभिहिता साङ्ख्ये’ (२.३९) इत्युक्तम्– साङ्ख्याख्यमिति ।। आत्मज्ञानेति ।। ईश्वरज्ञानेत्यर्थः ।। योगाख्यमिति ।। निवृत्तिकर्मरूपं समाधिरूपं चेत्यर्थः ।। अपव्याख्यानमिति ।। ज्ञानकर्मणोः मोक्षहेतुत्वेन समुच्चयतया यदपव्याख्यानं तदित्यर्थः ।।
भावरत्नकोशः
तृतीयाध्यायस्य द्वितीयाध्यायशेषत्वं चतुर्थाध्यायशेषत्वं वा किं न स्यात् ? न स्यात् । तेभ्यो भिन्नार्थप्रतिपादकत्वात् । एवं विलक्षणार्थप्रतिपादकत्वे स्वयं नानार्थप्रतिपादनपरो नैकं वाक्यं स्याद् इत्यपि न । स्वयं ज्ञानसाधनकर्मकर्तव्यत्वरूपम् एकमर्थं प्रतिपादयत एकार्थत्वेनैकवाक्यत्वात् । तथाच आहुः ‘अर्थैकत्वादेकं वाक्यम्’ इति । अस्तु ततो विलक्षणार्थत्वम् एकवाक्यत्वं च । तथाऽपि द्वितीयानन्तर्यमस्य कुतः? सङ्गतिसद्भावादित्येव अर्थ उत्तरभाष्येणोच्यत इति भावेन तदवतारयति– पूर्वोत्तरेति ।।
एतदध्यायप्रतिपाद्यं व्याचिख्यासिततृतीयाध्यायार्थम् । अबुद्धिस्थेन सङ्गतेर्दर्शयितुमशक्य-त्वादुक्तं– तत्प्रतिपाद्यमिति ।। पूर्वाध्यायप्रतिपाद्यमित्यर्थः । तेन ‘ज्ञानसाधनत्वेन’ इति भाष्येणैव प्रतिपाद्योक्तिलाभात् किम् ‘आत्मस्वरूपम्’ इति भाष्येण ? इति शङ्का निरस्ता । ‘न त्वेवाहम्’ (२.१२) इत्यादिना जीवेश्वरस्वरूपस्योक्तत्वादाह– जीवेश्वरस्वरूपमिति । आत्मशब्दस्तूभयसाधारण इति भावः । नन्वेतदयुक्तम् । ‘एषा तेऽभिहिता साङ्ख्ये’ (२.३९) इति साङ्ख्यस्यैवाभिधानावेदनादित्यत उक्तं– साङ्ख्याख्यमिति ।। आत्मज्ञानसाधनं परमात्म-ज्ञानसाधनम् । तत् किं रूपमिति न ज्ञायते, ‘योगे त्विमां शृणु’ (२.३९) इति योग एवोक्तश्चेत्यत उक्तं– योगाख्यमिति ।। समनन्तरातीतश्लोक आत्मस्वरूपज्ञानयोरनुक्तेराह– पूर्वस्मिन्नध्याय इति ।। तेन ‘पंूर्वयोरध्याययोरिति भाष्यार्थवर्णनं प्रथमे जीवादिस्वरूपानुक्ते-रयुक्तम्’ इति चोद्यं निरस्तम् ।
एवं जीवेश्वरस्वरूपस्य योगाख्यज्ञानसाधनस्याभिधानाङ्गीकारे, प्रतिपाद्यभेदस्य वाक्यभेद-प्रयोजकत्वं हि न्यायप्राप्तमिति भावः । प्राचुर्यात् प्राधान्यात् । ज्ञानसाधनं हि योगाख्यं प्रायेण प्रतिपादितमिति तत् प्रधानम् । अन्यत् प्रतिपादितमपि क्वचित् तदपि तदर्थमिति भावः । तावताऽप्येतस्य साधनपरत्वव्यपदेशः कुत इत्यत आह– प्रचुरेण इति ।। अल्पनीरमिश्रक्षीरे क्षीरव्यपदेश इवेति इति भावः । तथा च तत्त्वप्रकाशिकायां ‘योऽर्थो यत्र प्रायेणोच्यते सोऽध्यायादिस्तदर्थ इति व्यवस्थोपपत्तेः’ (ब्र.सू.भा.४.१.१) इति । सप्तमादौ सप्तमाध्या-योपक्रमे ।।
नन्वेकवाक्यताज्ञापनार्थं प्रधानप्रतिपाद्यं निरूपणीयम् । तच्च साधनमेव । तत् किम् ‘आत्मस्वरूपम्’ इति भाष्यप्रयोजनम् ? इत्यत आह– आत्मस्वरूपमित्यादि त्विति ।। ‘एषा तेऽभिहिता साङ्ख्ये’ (२३९) इत्यन्तेनात्मस्वरूपरूपज्ञेयमुक्तम् । ततः आध्यायपरिसमाप्तेर्ज्ञान-साधनं योगलक्षणमुच्यत इति प्रकरणभेदप्रदर्शनाय अभिहितमित्यर्थः । प्रकरणभेदाप्रदर्शने तु कुत्र किमुच्यते? इति शिष्याणां मनो व्याकुलं स्यादिति भावः । ननु ‘योगे त्विमां शृणु’ (२.३९) इति प्रतिज्ञानुसारेण योग एव वाच्यो न तु कर्म, तदुक्तेरसङ्गतत्वादित्यत आह– योग इति ।। कर्मणोऽपि योगत्वाद् ज्ञानसाधनत्वेन तद्वचनं नासङ्गतमिति भावः । ‘समाधिर्ध्यानम्’ इति न्यायदीपिकायां व्यक्तम् । स च षष्ठे वक्ष्यत इति ‘तावत्’ इत्युक्तम् । कर्म विधीयत इति ।। तथा च तात्पर्यनिर्णये ‘तत्र कर्मयोगं विशेषतः प्रपञ्चयत्यनेनाध्यायेन’ (गी.ता.३.१) इति । विपूर्वस्य दधातेः करणार्थत्वादत्र कर्म क्रियत इति न युज्यते । कृष्णेन कर्म क्रियत इत्यसङ्गतेरित्याशङ्क्य ‘विधीयते’ इत्यस्यार्थमाह– कर्तव्यमेवेति ज्ञाप्यत इति ।। ‘तस्मादसक्तः सततं कार्यं कर्म समाचर’ (३.१९) इति विधिदर्शनादिति भावः ।।
कैश्चन ‘तस्मादसक्तः’ (३.१९) इत्यन्तैः । अकर्मेत्यस्यार्थः– कर्माकरणमिति ।। युक्तिभिः कर्माकरणस्यैव मोक्षाङ्गत्वान्नावश्यं कर्मानुष्ठेयमिति कर्माकरणपक्षं ‘कर्मणामकर्तु-मशक्यत्वात्, कर्मेन्द्रियसंयमेऽपि मानसदुष्कर्मादिमिथ्याचारत्वप्रसङ्गात्, प्रजापतिवाक्याना-लम्बनप्रसङ्गात्, स्वोपकारिदेवायजनेऽकृतज्ञत्वापत्तेः, स्वविहितयज्ञद्वारा चक्राप्रवर्तने विश्वहनन-दोषप्रसङ्गाच्च, न कर्माकरणं मुक्तिसाधनम्’ इति प्राचीनटीकोक्तरीत्या विनिन्द्य इत्यर्थः ।
नन्वकर्मनिन्दनं कर्मविधानं चेत्येवम् अनेकार्थकत्वादेतदध्यायस्यैकवाक्यता न स्यादित्यत आह– अकर्मेति ।। प्रयाजादिविधिसमभिव्याहृतस्य ज्योतिष्टोमादिवाक्यस्य तदेकवाक्यता यथा तथेहापीति भावः । एवमेकवाक्यत्वाभिप्रायेण ‘अकर्म विनिन्द्य’ इति भाषणं नातीव प्रयोजनवदित्यत आह– तथाऽपीति ।। यद्यपि ‘कैश्चन श्लोकैरकर्म विनिन्द्यते कर्मविधानार्थम्’ इति व्याख्याने सुकरमेवैकवाक्यत्वपरिज्ञानम् । तथाऽपि प्राधान्येन कर्मकरणं विधीयत इति ज्ञापनार्थम् ‘अकर्म विनिन्द्य’ इत्युक्तमित्यर्थः ।
।। तेन मोक्षसाधनतानिरासेन । अपव्याख्यानं ‘बुद्धिः कर्मापेक्षया चेत् ज्यायसी तव मता तर्हि क्रूरे युद्धकर्मणि किमिति मां नियोजयसि ? ज्ञानमेव सम्पादयिष्यामि । न तूभयम्’ इत्यादिरूपं प्रश्नवाक्यापव्याख्यानं, ‘यतः कर्मणामनारम्भात् मोक्षं नाश्नुतेऽतो ज्ञानकर्मणी समुच्चिते एव मोक्षसाधने’ इति प्रवचनवाक्यापव्याख्यानम् । अपहस्तितमिति ।। ‘कर्तृकरणाद् धात्वर्थे’ इत्यपासितुः करणवाचकाद् हस्तशब्दाद् धात्वर्थे निरसने णिच्प्रत्यये हस्तेनापास्यति अपहस्तयतीत्यतः कर्मणि निष्ठायाम् अपहस्तितमिति रूपम् । वामेन पाणिनाऽपास्तमित्यर्थः । यद्वा, ‘अप अपवर्जनवियोग आलेखनचौर्यनिर्देशवैकृतविधिविपर्ययऋणग्रहणअवयवपूजा-निह्नवसव्यावृत्तिषु’ इत्युपसर्गनिघण्टौ ‘अप’ इत्युपसर्गस्य विधिविपर्ययार्थकत्वाभिधानात् साधुकर्मविवक्षितदक्षिणपाणिविपरीते सव्यपाणावपहस्तशब्दः । अपशब्द इति यथा । सोऽस्य निरासकत्वेन प्राप्त इत्यत्र ‘तदस्य सञ्जातं तारकादिभ्य इतच्’ इतीतच्प्रत्यये अपहस्तेन सव्यहस्तेन निरस्तम्, अतितुच्छमित्यर्थः ।
ननु कर्मणां मोक्षसाधकत्वनिराकरणं स्वव्याहतम् । स्वयमपि तदङ्गीकारात् । ‘सुकृतमप्रियं मानुष्यादिफलं जहाति । न बृहत्फलमुपासनादिनिमित्तम्’इति भाष्ये (गी.भा.२.५०), टीकायां च, मुक्तेर्ज्ञानकर्मसमुच्चयसाध्यत्वं चोच्यते । अतः कथं मुक्तौै कर्मणोऽनुप्रवेशाभाव-प्रतिपादनम् ? इति चेत्, अत्र वक्तव्यम् । किं कर्मणां ज्ञानवत् प्राधान्येन मोक्षसाधनत्वं किंवा ज्ञानफलमुक्तावतिशयाधायकतयाऽऽरादुपकारकत्वरूपतच्छेषत्वेन । नाऽद्यः, ‘कर्मणा ज्ञानमा-तनोति, ज्ञानेनामृतीभवति’, ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’ (४.३३) इत्यादि-श्रुतिस्मृतिविरोधात् । तदिदमाह– ज्ञानसाधनत्वेनेति ।। न द्वितीयः । इष्टापत्तेरिति भावेनाऽह– आनन्दवृद्ध्यर्थता त्विति ।। केचित्तु, यदि कर्म मोक्षसाधनतया भगवतोऽभिप्रेतं न स्यात् कथं तर्हि ‘कुरु कर्मैव’ (४.१५) इत्यादिना तद्विधानम् ? इत्याशङ्क्य कर्मणः साक्षान्मोक्षाननु-प्रवेशेऽपि मोक्षगतातिशयाधायकत्वमस्तीत्याह– आनन्दवृद्ध्यर्थता तु इत्यवतारयन्ति । ज्ञानात् पूर्वमनुष्ठितानि निवृत्तकर्माणि ज्ञानमापादयन्ति । ज्ञानानन्तरमनुष्ठितानि तु ज्ञानकार्ये मोक्षेऽतिशयमादधतीति न कोऽपि दोष इति भावः ।।
भावदीपिका
प्रणम्य यादवाचार्यगुरूणां पादपङ्कजे ।
क्रियते तृतीयाध्यायटीका
भावप्रदीपिका
।।
स्वस्मिन्निति तृतीयाध्याय इत्यर्थः । एकवाक्यताम् एकार्थप्रतिपादकत्वेनैकवाक्यताम् । ‘अर्थैकत्वादेकं वाक्यम्’ इति जैमिनिवचनात् । तत्प्रतिपाद्यम् पूर्वाध्यायप्रतिपाद्यम् । आत्म-शब्दार्थमाह– जीवेश्वरेति ।। ‘न त्वेवाहम्’ इत्यादिनोभयस्वरूपोक्तेरात्मशब्द उभयपर इति भावः । ननु ‘एषा तेऽभिहिता साङ्ख्ये’ इति पूर्वं साङ्ख्यस्योक्तत्वेन कथं ‘जीवेश्वरस्वरूपमुक्तं पूर्वत्र’ इत्युक्तम्? इत्यत आह– साङ्ख्येति ।। योगाख्यमिति ।। ‘पूर्वत्र काले’ इत्यन्यथा-प्रतीतेर्व्याचष्टे - पूर्वस्मिन्नध्याय इति ।। केचित्तु पूर्वशब्देनाव्यवहितपूर्वाध्यायस्यैव विवक्षित-त्वान्न प्रथमाध्यायप्रसक्तिरित्याशयेनाऽह– पूर्वस्मिन्नध्याय इति ।। इत्याहुः । एवमिति ।। पूर्वाध्यायस्याऽत्मस्वरूपज्ञानसाधनोभयप्रतिपादकत्व इत्यर्थः । ऐक्यानुपपत्तिः अर्थैक्याभावेनैक-वाक्यताऽनुपपत्तिरित्यर्थः । कुतो न? इत्यत आह– साधनस्यैवेति ।। प्राचुर्यात् प्राधान्यात् । तथा च प्राधान्येन साधनप्रतिपादकत्वाद् एकवाक्यत्वव्यपदेशो युक्त इत्यर्थः ।
ननु प्राधान्येन साधनप्रतिपादकत्वेऽपि अप्राधान्येनाऽत्मस्वरूपस्यापि प्रतिपादनात् तदपेक्षयैक्यव्यपदेशः कस्मान्न स्यात्? इत्यत आह– प्रचुरेणेति ।। योऽर्थो यत्र प्राधान्येनोच्यते सोऽध्यायस्तदर्थो यथा फलाध्याय इति भावः । अस्त्वेवम्, अथाप्यत्रोभयोरपि प्रतिपादनात् साधनमेव प्राधान्येनोक्तमित्यत्र किं ज्ञापकम्? इत्यत आह– तथा चेति ।। सप्तमादौ सप्तमाध्यायस्याऽदौ । ननु साधनस्यैव प्राधान्येन ‘ज्ञानसाधनमुक्तं पूर्वत्र’ इत्येतावदेव वक्तव्ये ‘आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र’ इति वाक्यविन्यासः कुतः? इत्यत आह– आत्मेति ।। ज्ञानसाधनं केन भागेनोक्तम्? इति शङ्कापरिहाराय गीतायाम् ‘एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु’ (२.३९) इति प्रकरणभेदस्य प्रदर्शितत्वात् तदनुसारेण भाष्यकारैरपि प्रकरणभेदप्रदर्शनार्थम् ‘आत्मस्वरूपम्’ इत्यादिकमुक्तमित्याशयः ।
।। एतदिति ।। पूर्वाध्यायेत्यर्थः । तावदिति ।। समाधियोगस्तु षष्ठाध्याये निरूप्यत इति भावः । विपूर्वकस्य दधातेः करोत्यर्थकत्वेन कर्म विधीयते क्रियते इत्यसङ्गतार्थत्वपरिहाराय व्याचष्टे– कर्तव्यमेवेति ।। केचित्तु ‘सन्ध्यामुपासीत’ इत्यादिवद् विधानाभावात् कथं ‘विधीयते’ इत्युक्तम्? इत्यत उक्तम्– कर्तव्यमेवेति’ इत्याहुः । ‘अकर्म कर्मान्यज्ञानादिकं विनिन्द्य’ इत्यन्यथाप्रतीतेर्व्याचष्टे - कर्माकरणमिति ।। ‘सर्वथाऽहं कर्मैव न करिष्यामि’ इति पक्षं पूर्वत्र विनिन्द्य’ इत्यन्यथाप्रतीतिवारणायाऽह– विनिन्द्यस्मिन्नध्याय इति ।। ‘न हि कश्चित्’ (३.५) इत्यादिनेत्यर्थः । अनेन उत्तराध्याय इत्येतदपि व्याख्यातं भवति । अन्यथै-तदपेक्षयाऽप्युत्तरध्याये चतुर्थ इत्यन्यथाप्रतीतिः स्यादिति भावः । नन्वेतदध्यायस्याकर्म-निन्दाकर्मविधिरूपार्थ-द्वयप्रतिपादकत्वेनैकार्थत्वाभावाद् एकवाक्यता न स्यादित्यत आह– अकर्मनिन्देति ।। अकर्मणि निन्दिते सति कर्मविधौ प्रवर्तत इति कर्मविध्यनुकूलत्वेनैवाकर्मणो निन्दितत्वात् कर्मविधिरूपैकार्थत्वस्य प्राधान्यतः प्रतिपादनात् तदपेक्षयैकवाक्यतोपपन्नेति भावः ।
नन्वेवमेकार्थत्वाभिप्राये ‘ज्ञानसाधनं कर्म विधीयत उत्तराध्याये’ इत्येव कस्मान्नोक्तम्? ‘अकर्म विनिन्द्य’ इत्यंशः कुतः? इत्यत आह– तथाऽपीति ।। यद्यप्येवमेकार्थता, तथाऽ-पीत्यर्थः । ननु ‘न हि कश्चित्’ (३-५) इत्याद्यैः कर्मविधानाभावात् कथं समस्ताध्यायेनापि कर्मैव विधीयत इत्युच्यते? इति शङ्कापरिहाराय प्रकरणभेदज्ञापनाय ‘अकर्म विनिन्द्य’ इत्युक्तमिति भावः ।। इति वदतेति ।। कर्मणो ज्ञानसाधनत्वं वदतेत्यर्थः । ननु कर्मणो मोक्षसाधनत्वनिरासस्य का प्रकृतसङ्गतिः? इत्यत आह– तेनेति ।। कर्मणः सकाशद् बुद्धि-र्ज्यायसी चेत् कर्मणि कस्मान्नियोजयसि? तस्य मोक्षसाधनत्वाभावाद् बुद्धेरेव तद्भावात् । मोक्षसाधनस्यैवाधिकारिणा सम्पाद्यत्वाद् इत्यर्जुनप्रश्नाशयवर्णनं, तथा ‘लोकेऽस्मिन्’ इत्यत्र ‘कर्मयोगेन योगिनाम्’ इत्यधिकारिविशेषाणां कर्मणैव मुक्तिरिति कर्मणो मोक्षसाधनत्वं भगवतोऽभिप्रेतमिति प्रतिवचनव्याख्यानं च यद् भास्करेण कृतम्, तद् ज्ञानात् पूर्वं कृतस्य कर्मणो ज्ञानेनैव कृतार्थत्वम्, न लिङ्गभङ्गरूपमोक्षसाधनत्वमिति, ‘स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने’ इत्यनुगीतोपक्रमे भगवतैव प्रतिपादितत्वेनापहस्तितमित्यर्थः । नन्वथापि ज्ञानोत्तरकृतकर्मण आनन्दाभिवृद्धिरूपसाधनत्वस्यापि ‘स हि धर्मः’ इति भगवतैवोक्तत्वेनाऽ-नन्दवृद्धिरूपमुक्तिसाधनत्वं ज्ञानोत्तरकृतकर्मणो नास्तीति प्रश्नाशयः । तदस्तीति प्रतिवचनाभि-प्राय इति व्याख्यायत इति चेत् तर्हि अनुज्ञया वर्तामह इत्यभिप्रेत्याऽह– आनन्दवृद्धर्थता त्विति ।। अर्जुनादीनां ज्ञानोत्तरकृतयुद्धादिकर्मण आनन्दवृद्ध्यर्थताया अस्माभिरङ्गीकारादिति भावः ।
भावप्रकाशः
ननु ‘योगे त्विमां श्रुणु’ इति प्रतिज्ञातत्वाद्यावत्प्रतिज्ञान्तरं करिष्यते तावत् तदेव प्रतिपाद्यमिति ज्ञास्यते । तत् किं पुनः प्रतिपाद्यवर्णनेन ? किञ्च ‘ज्ञानसाधनत्वेन’ इत्यादिनैव प्रतिपाद्योक्तिलाभात् किम्‘ आत्मस्वरूपम्’ इति वाक्येनेत्यत आह– पूर्वेति ।। तत्प्रतिपाद्यमिति ।। अबुद्धिस्थेन सङ्गतेः दर्शयितुमशक्यत्वात् पूर्वाध्याय-प्रतिपाद्यमाहेत्यर्थः । ‘नत्वेवाहम्’ इत्यादिना जीवेश्वरयोरुक्तत्वादाह– जीवेश्वरस्वरूपमिति ।। ननु ‘जीवेश्वरस्वरूपमुक्तम् ’ इत्ययुक्तम् । ‘एषा तेऽभिहिता साङ्ख्ये’ इति वाक्यात् पूर्वाध्याये साङ्ख्यस्यैवोक्तत्वावगमादित्यत उक्तम्– साङ्ख्याख्यमिति ।। अव्यवहितपूर्वश्लोके आत्मस्वरूप- ज्ञानसाधनयोरनुक्तेराह– पूर्वस्मिन्नध्याय इति ।। प्राचुर्यात् प्राधान्यात् सप्तमादौ सप्तमोपक्रमे ।
ननु योगे त्विमां शृण्विति प्रतिज्ञातत्वात् ज्ञानसाधनत्वेन योग एव वाच्यो न तु कर्मेत्यत आह– योगो द्विविध इति ।। तथा च कर्मणोऽपि योगत्वात् ज्ञानसाधनत्वेन तत्कथनं युक्तमिति भावः । समाधिर्ध्यानम् । तथैव न्यायदीपिकोक्तेः । षष्ठे समाधिर्वक्ष्यत इति सूचयितुं ‘तावत्’ इत्युक्तम् । ननु कर्मकर्तव्यत्वबोधके ‘लोकेऽस्मिन् ’ इत्यादौ विधिप्रत्यय एव न दृश्यते । यत्र च दृश्यते ‘नियतं कुरु कर्म’ इत्यादौ तत्रापि कर्मकरणस्यैव सन्ध्योपासन-वद्विधेयत्वं न तु कर्मणः । यत्रापि ‘युध्यस्व विगतज्वरः’ इति विधेयत्वं प्रतीयते तत्रापि युद्धस्यैव न तु कर्ममात्रस्य । तत्कथं कर्म विधीयते इत्युक्तम्? इत्याशङ्क्य सर्वसङ्ग्रहायाह– कर्तव्यमेवेति ज्ञाप्यत इति ।। नन्वर्थैक्याभावादध्यायस्यैकवाक्यता न स्यादित्यत आह– अकर्मनिन्दाऽपीति ।।
।। एवमुक्तमिति ।। ‘अकर्म विनिन्द्य’ इत्याद्युक्तमित्यर्थः । तेनेति ।। मोक्षसाधनता-निरासेनेत्यर्थः । प्रश्नेति ।। बुद्धिः कर्मापक्षया ज्यायसी चेत् मता तर्हि घोरे युद्धाख्ये कर्मणि किमर्थं मां नियोजसि ज्ञानमेव सम्पादयिष्यामि नतु उभयमित्यादिरूपेण प्रश्नापव्याख्यानं, ‘कर्मणामनारम्भात्, मोक्षं नाश्नुते, अतो ज्ञानकर्मणी समुच्चिते एव मोक्षसाधने’ इति प्रतिवचनापव्याख्यानं चेत्यर्थ इत्याहुः ।। कर्मणो मोक्षसाधनत्वं किं ज्ञानवत् प्राधान्येन उत आनन्दविवृद्ध्यर्थत्वेन । आद्यो भाष्यकृतैव ‘ज्ञानसाधनत्वेन’ इत्यादिना निरस्तः । द्वितीये त्विष्टापत्तिरित्याह– आनन्दवृद्ध्यर्थतात्विति ।।