मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते ।। १० ।।

मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ।

हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते ।। १० ।।

भाष्यम्

उदासीनवदिति चेत् स्वयमेव प्रकृतिः सूयत इत्यत आह– मयेति ।। प्रकृतिसूतिद्रष्टा कर्ता अहमेवेत्यर्थः । तथा च श्रुतिः ‘यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम्’ इति ।।

भावप्रदीपिका

‘असक्तम्’ इति उदासीनशब्दार्थे कथितेपि तदविवेकेना आक्षेपसमाधानायोत्तरश्लोकमवतार्य सप्रमाणकं व्याचष्टे– उदासीनवदिति ।। १० ।।

प्रमेयदीपिका

कथं तर्हि,‘अहं केवलं द्रष्टैव; प्रकृतिरेव चराचरं सूयते’ इत्युत्तरवाक्यमित्यतः तन्निवर्त्याशङ्कां प्रदर्श्य व्याचष्टे– उदासीनवदिति ।। भगवतोदासीनसादृश्यं स्वयमेव व्याख्यातम् । तदज्ञात्वा क्रियाभाव एवोक्त इति मत्वा शङ्कितम् । पुरा ‘प्रकृतिं स्वामवष्टभ्य विसृजामि’ इत्युक्तम् । इदानीं तु ‘उदासीनवत्’ इति निष्क्रियत्वमुच्यते ।। एवं तर्हि प्रकृतिरेव सूयते । त्वयि तु तत्सन्निधानात् कर्तृत्वोपचारमात्रमित्यापन्नम् इति तन्निवृत्त्यर्थमिदं वाक्यम् । तत्र ‘अध्यक्षेण’ इत्यनेन प्रकृतिसूतेः द्रष्टाऽहमेवेत्युच्यते ।

तृतीयया च तत्प्रयोजककर्ता चाहमेव । नतु तस्याः स्वातन्त्र्यमिति । दर्शनपूर्वकत्वात् प्रयोजकत्वस्य तदुक्तिः । अन्यथा तृतीया व्यर्था स्यादिति भावः । प्रकृतिप्रयोजकत्वं परमेश्वरस्य कुतः? इत्यत आह– यत इति ।। प्रसूता सृष्टावभिमुखीभूता । प्रसूती प्रसूतिः । तोयेन कर्मणा । व्यससर्ज विससर्ज । बहुलग्रहणात् ।। १० ।।

भावबोधः

ननूदासीनवच्चेत् जगत्सृष्ट्यादि न स्यादिति शङ्कनीयम् । प्रकृतिरेव सूयते इति शङ्कायां किं बीजमित्यत आह– पुरेति ।। ननु विवक्षित-प्रयोजकत्वस्य मयेति तृतीययैव लाभात् अध्यक्षेणेति व्यर्थमित्यत आह– दर्शनपूर्वकत्वादिति ।। अन्यथेति द्रष्टृत्वमेव प्रतिपाद्यते । न तु प्रयोजकत्व-मित्यङ्गीकारे अहमध्यक्ष इत्येव स्यात् । न तूभयत्र तृतीयेत्यर्थः । बहुलग्रहणा-दिति ।। बहुलं छन्दसीति सूत्रे बहुलग्रहणात् लिट्यडागम इत्यर्थः ।। १० ।।

भावदीपः

शङ्कानुदयमाशङ्क्याज्ञानमूलतया तामुज्जीवयति– भगवते-त्यादिना ।। व्याख्यातमिति ।। असक्तपदेनेत्यर्थः ।। अधुना शङ्कापरभाष्यार्थमाह– पुरेत्यादिना ।। इति शङ्कितमिति इतिपदस्य पूर्वेणान्वयः ।। इत्यनेनेति ।। प्रातिपदिके-नेत्यर्थः ।। ‘मया’ इति तृतीययैव प्रयोजककर्तृत्वलाभात् ‘तत्र अध्यक्षेण’ इति किमर्थम्? इत्यत आह– दर्शनेति ।। अन्यथेति ।। द्रष्टृत्वमात्रस्याभिमतत्वे ‘अहम् अध्यक्षः’ इत्येव ब्रूयादित्यर्थः ।। बहुलग्रहणादिति ।। षष्ठान्त्यपादे अडागमतन्निषेधप्रकरणे ‘बहुलं छन्दस्यमाङ्-योगेऽपि’ इति बहुलग्रहणं तु लुङ्, लङ्, लिङ्भ्योऽन्यत्रापि लकारे अडागम इत्यर्थः ।। अडागमाभावमात्राभिप्राये ‘छन्दस्यमाङ्योगेऽपि’ इत्येव ब्रूयादित्यर्थः ।। १० ।।

वाक्यार्थप्रदीपः 

ननु व्यससर्जेत्यस्य लिट्त्वात्् कथं तत्राडागमः । ‘लङ्लुङ्लृङ्क्ष्वडुनुदात्तः’ इति लङ् लुङ् लृङ्क्ष्वेवाडागमविधानादित्यत आह– बहुलग्रहणा-दिति ।। ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इति सूत्रे बहुलग्रहणात् लिट्यपि अडागम इत्यर्थः ।।

भावरत्नकोशः

।। तर्हि यदीश्वरस्य स्वतः कर्तृत्वं स्यात्, तर्हीत्यर्थः । ‘मयाऽध्यक्षेण’ इत्यस्य तात्पर्यम्– अहं केवलं द्रष्टैवेति ।। सूयते जनयति । सादृश्यं कर्मसु व्यासक्त्यभावलक्षणं व्याख्यातम्, ‘असक्तं तेषु कर्मसु’ इति विवृतम् । तदज्ञात्वा स्वकृत-व्याख्यानम् आच्छाद्य । इति मत्वेति ।। उदासीनशब्दस्य क्रियामात्राभाववद्बोधकत्वस्य आपाततोऽवगमादिति भावः । ‘शङ्कितम्’ इत्येतदेव विशदयति– पुरा प्रकृतिमिति ।। विसर्गशब्दितजगत्सृष्टिलक्षणक्रियाकर्तृत्वम् आख्यातेनाभिहितम् इत्यर्थः । इत्यापन्नमितीति ।। इतिशब्दस्य ‘शङ्कितमिति’ इति पूर्वेण सम्बन्धः । कर्तृतृतीयातात्पर्यम्– द्रष्टाऽहमेवेति ।। तृतीयया ‘अध्यक्षेण मया’ इत्यत्रत्यतृतीयया । अन्यत्र तृतीयाऽयोगात् ‘कर्तृकरणयोस्तृतीया’ इति शास्त्रादत्र कर्तर्येव तृतीयेति भावेनोक्तम्– कर्ता चाहमेवेति ।। स्वातन्त्र्यमिति ।। ‘उच्यते’ इत्यनुवर्तते ।

ननु ‘त्वयि कर्तृत्वोपचारमात्रम्’ इत्याक्षेपे ‘अहमेव स्वतन्त्रः कर्ता, नान्यः’ इति परिहार-समर्पकं ‘मया’ इत्येतदेव वक्तुमुचितम्, नतु ‘अध्यक्षेण’ इत्येतदपि । प्रयोजनादर्शनात्, इत्यत आह– दर्शनेति ।। तदुक्तिः ‘अध्यक्षेण’ इति विशेषणोक्तिः । ‘अहं केवलं द्रष्टैव, प्रकृतिरेव चराचरं सूयते’ इति प्रागुक्तापातप्रतीतार्थाङ्गीकारे बाधकमाह– अन्यथेति ।। द्रष्टृत्वमात्रस्याभि-मतत्वे ‘अहमध्यक्षः, प्रकृतिस्तु सूयते’ इत्येवावक्ष्यत्, तृतीयाविभक्तिर्न तत्र प्रयोक्तव्येत्यर्थः । प्रकृतिप्रयोजकत्वं प्रकृतिकर्तृकसृष्टौ प्रयोजककर्तृत्वम् ।

नन्वत्र श्रुतौ परमेश्वरस्य प्रकृतिं प्रति प्रयोजकत्वं न प्रतीयते, प्रकृतेर्भगवत्प्रसूतत्वं प्रकृता-नुपयुक्तमेव च प्रतीयते? इत्यत आह– प्रसूता सृष्टावभिमूखीभूतेति ।। ‘कृदिकारात्’ इत्यत्र ‘अक्तिनः’ इति पर्युदासादाह– प्रसूती प्रसूतिरिति ।। विसर्गस्य ईकारश्छान्दस इति भावः । तथा च द्वादशे ‘यतः प्रिया सा जगतः प्रसूतिः’ इति भाष्ये । ‘तोयेन’ इत्यनुवादः, ‘कर्मणा’ इति व्याख्यानम् । तन्नामसु पाठादिति भावः । लिट्यडागमश्छान्दसत्वादिति तदर्थमाह–विससर्जेति ।। छन्दस्यडागमे प्रमाणोक्तिः – बहुलग्रहणादिति ।। ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इति सूत्रे ।

भगवतोदासीनसादृश्यं स्वयमेव व्याख्यातम् । तदज्ञात्वा, ‘क्रियाऽभाव एवोक्तः’ इति मत्वा शङ्कितम् । पुरा ‘प्रकृतिं स्वामवष्टभ्य विसृजामि’ इत्युक्तम् । इदानीं तु ‘उदासीनवत्’ इति निष्क्रियत्वमुच्यते । एवं तर्हि प्रकृतिरेव सूयते । त्वयि तु तत्सन्निधानात् कर्तृत्वोपचार-मात्रमित्यापन्नमिति । तदेतन्निवृत्त्यर्थमुच्यते– मयेति ।। कार्यमधिकृत्याक्षाणि यस्य सोऽध्यक्ष इत्यध्यक्षशब्देन प्रकृतिसूतेः द्रष्टा अहमेवेत्युच्यते । तृतीयया च तत्प्रयोजककर्ता चाहमेव, न तु तस्याः स्वातन्त्र्यमिति प्रकृतिसूतेर्द्रष्टा तत्प्रयोजककर्ता च । मया प्रकृतिः सचराचरं जगत् सूयते उत्पादयति । न केवलं प्रकृतिसूतेर्द्रष्टा प्रयोजककर्ता चाहम्, किन्तु जगत्कर्ता चास्मीत्युच्यते– हेतुनेति ।। कर्तृरूपकारणभूतेनानेन मया जगत् विविधतया परिवर्तते पुनःपुनर्जायते ।। १० ।।

भावदीपिका

ननु भगवत उदासीनत्वस्य निषिद्धत्वात् कथमियं शङ्केत्यत आह– भगवत इति ।। व्याख्यातम् ‘असक्तम्’ इत्यनेनेत्यर्थः । क्रियाभावः कर्तृत्वाभावः । ननूदासीनवच्चेत्, जगत्सृष्ट्यादि न स्यात् इति शङ्कनीयम् । ‘प्रकृतिरेव सूयते’ इति शङ्कायां किं बीजम् ? इति चेत्तत्राह– पुरेति ।। तृतीयया ‘मयाऽध्यक्षेण’ इति तृतीयया । तत्प्रयोजककर्ता प्रकृतिनिष्ठसूतिप्रयोजककर्ता । ‘कर्तृकरणयोस्तृतीया’ इति कर्तरि तृतीया-विधानादिति भावः । ननु विवक्षितस्य प्रयोजककर्तृत्वस्य ‘मया’ इति तृतीययैव लाभात्, ‘अध्यक्षेण’ इति व्यर्थम् ? इत्यत आह– दर्शनेति ।। तदुक्तिः ‘अध्यक्षेण’ इति द्रष्टृत्वोक्तिः । अन्यथेति ।। द्रष्टृत्वमेव प्रतिपाद्यते, न तु प्रयोजककर्तृत्वम् इत्यङ्गीकारे ‘अहमध्यक्षः’ इत्येतावता पूर्णत्वेनोभयत्र कर्तृत्वार्थकतृतीयाविभक्तिवैयर्थं स्यादित्यर्थः ।। ननु ‘लुङ्लङ्ऌङ््क्ष्वडुदात्तः’ इति लुङादावेव अडागमविधानेन लिटि तद्विधानाभावात् ‘विससर्ज’ इति वक्तव्यम्, ‘वि अससर्ज’ इति कथम् ? इत्यत आह– बहुलेति ।। ‘बहुलं छन्दसि’ इति सूत्रे बहुलग्रहणात् लिट्यपि अडागम इत्यर्थः ।

 क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव ।

 इति स्म वैयाकरणाः प्रयोगे चतुर्विधं बाहुलिकं वदन्ति’ ।।

इति वचनबलेन बहुलशब्दार्थो द्रष्टव्यः ।। १० ।।

भावप्रकाशः

।। व्याख्यातमिति ।। असक्तमित्यनेनेति शेषः । ननू-दासीनवदिति चेत्तर्हि जगतः सृष्ट्यादि न स्यादिति शङ्कनीयम् । प्रकृतिरेव सूयत इति शङ्कायां किं बीजमित्यत आह– पुरेति तृतीयया चेति ।। मयेति तृतीययेत्यर्थः । ननु कर्तृत्वमौप-चारिकमित्याक्षेपे तन्मात्रं वक्तव्यं दर्शनं किमर्थमुक्तमित्यत आह– दर्शनपूर्वकत्वादिति ।। अहं केवलं द्रष्टैव प्रकृतिरेव चराचरं सूयत इति प्रागुक्तापातप्रतीतार्थाङ्गीकारे बाधकमाह– अन्यथेति ।। नन्वत्र प्रकृतेर्भगवदुत्पन्नत्वमयुक्तमेवोच्यते । प्रकृतं च परमेश्वरस्य प्रेरकत्वं नोच्यत इत्यत आह– सृष्टावभिमुखीकृतेति ।। ‘कृदिकारादक्तिन’ इति क्तिनन्तान् ङीपो निषेधात् प्रसूतीति कथमित्यत आह– प्रसूतिरिति ।। ननु लुङ्लङ्लृङ्क्ष्वडुदात्त इत्युक्तेः कथं टि्यडागम इत्यत आह– विससर्जेति ।। श्रुतावडागमप्रयोगं समर्थयते– बहुलेति ।। बहुलं च्छन्दस्यमाङ् योेगेऽपीति सूत्रे बहुलग्रहणाल्लिट्यडागम इत्यर्थः ।।