त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ।।१८।।

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।

त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ।।१८।।

भावरत्नकोशः

गीताक्षरार्थस्तु अक्षरम् अक्षरशब्दवाच्यं ब्रह्म त्वम् एव परमं वेदितव्यं ज्ञातव्यं मुमुक्षुभिः । परं निधानं प्रकृष्ट आश्रयः, अव्ययः ह्रासहीनः, शाश्वतः शश्वद्भवः, धर्मः निवृत्तिधर्म इति यावत्, तस्य गोप्ता रक्षिता । ‘वैदिकधर्माविता’ इति विवृतिकृतः । सनातनः चिरन्तनः । मे मतः, ‘मतिबुद्धिपूजार्थेभ्यश्च’ इति ‘मे’ इति षष्ठी

।। १८ ।।