न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ।। ११ ।।
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ।। ११ ।।
भाष्यम्
अन्यस्त्यागार्थो न युक्त इत्याह– नहीति ।। ११ ।।
भावप्रदीपिका
कार्यमित्येव इति कथितः कथं त्यागः ? सर्वकर्म-त्यागस्यैव मुख्यतः त्यागत्वादित्याशङ्क्य, श्लोकमवतारयति– अन्य इति ।। ११ ।।
प्रमेयदीपिका
ननु ‘इति मे पार्थ’(१८.६) इति भगवता स्वसिद्धान्तो निष्टङ्कितः । अतो ‘न हि देहभृता’ इति किमुच्यते? इत्यत आह– अन्य इति ।। सर्वकर्मपरित्यागलक्षणः । त्यागार्थः त्यागशब्दार्थः । ‘पूर्वपक्षबीजनिरासार्थम्’ इति शेषः ।। ११ ।।
भावबोधः
।। पूर्वपक्षबीजनिरासार्थमिति ।। ‘त्याज्यं दोषवत्’ इत्युक्त-त्यागो यदि सर्वकर्मपरित्यागः स्यात् तदा तन्मतबीजकः सर्वकर्मपरित्यागः कर्तव्य इति पूर्वपक्षः स्यात् । न चासौ युक्तः । हि यस्माद्देहभृता अशेषतः कर्माणि त्यक्तुं न शक्यमिति पूर्वपक्षबीजनिरासार्थमित्यर्थः ।
भावदीपः
।। निष्टङ्कितः निष्कृष्टः ।। पूर्वपक्षबीजेति ।। ‘त्याज्यं दोषवत्’ इत्यत्र सर्वकर्म त्याज्यमिति यः पूर्वपक्षस्तस्य यद्बीजम् आपातप्रतीतिरूपं वा, ‘एके अपरे’ इति विप्रतिपत्त्युक्तिरूपं वा तन्निरासार्थमित्यर्थः ।। ११ ।।
भावरत्नकोशः
।। इति मे पार्थेतीति ।। ‘एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ।।’इति । निष्ठङ्कितः ‘न त्याज्यम्, कार्यमेव’ इति इतरप्रतिक्षेपपूर्वकं निकृष्योक्त इत्यर्थः । त्यागार्थः त्यागप्रयोजनक इत्यादिप्रतीतिनिरासायाह– त्यागशब्दार्थ इति ।। पूर्वपक्षेति ।। ‘त्याज्यं दोषवत्’ इत्यत्र ‘सर्वकर्मपरित्यागः कर्तव्यः’ इति पूर्वपक्षे बीजम् आपातप्रतीतिरूपम् तन्निरासार्थम् । न हि देहभृताऽशेषकर्माणि त्यक्तुं शक्यम् इति वचनमित्यर्थः ।।
गीताक्षरार्थस्तु- ‘त्याज्यं दोषवद्’ इति पूर्वपक्षबीजनिरासार्थं सर्वकर्मणां स्वरूपत्यागः त्यागशब्दार्थो न युक्त इत्युच्यते– न हीति ।। देहभृता अशेषतः निःशेपेण कर्माणि त्यक्तुं न शक्यम् । ‘शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः’ इति प्रयोग इवायं प्रयोगः । ‘न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ’ इत्यनुवादविहितजीवनयोनिप्राणादिचेष्टारूपकर्मत्यागो न शक्यः कर्तुम्, विहितत्यागोऽपि ‘स्वयज्ञादीन् परित्यज्य निरयं यात्यसंशयम् ’इति प्रत्यवायश्रवणाद् अयुक्त इति हि यस्मात् तस्माद् ‘यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते’ इत्युक्तस्वसिद्धान्त एव युक्त इति भावः ।। ११ ।।
भावदीपिका
त्यागरूपार्थस्य अर्थाभावादाह– त्यागशब्दार्थ इति ।। पूर्वपक्षबीजेति ।। ‘त्याज्यं दोषवत्’ इत्युक्तत्यागो यदि सर्वकर्मपरित्यागः स्यात् तदा तन्मतबीजकः सर्वकर्मपरित्यागः कर्तव्य इति पूर्वपक्षः स्यात् । न चासौ युक्तः । हि यस्मात् देहभृताऽशेषतः कर्माणि त्यक्तुं न शक्यन्त इत्येवं पूर्वपक्षबीजनिरासार्थमित्यर्थः ।। ११ ।।
भावप्रकाशः
।। पूर्वपक्षबीजनिरासार्थमिति ।। सर्वकर्मत्यागः कर्तव्य इति पूर्वपक्षे त्याज्यं दोषवदित्युपन्यस्तम् मतम् आपातप्रतीतिमपेक्ष्य यद् बीजं तन्निरासार्थमित्यर्थः
।। ११ ।।