मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत् त्वमहङ्कारान्न श्रोष्यसि विनङ्क्षयसि ।। ५८ ।।

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।

अथ चेत् त्वमहङ्कारान्न श्रोष्यसि विनङ्क्षयसि ।। ५८ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु भगवति निरुद्धचित्तस्य फलमुच्यते– मच्चित्त इति ।। मच्चित्तः सर्वाणि दुर्गाणि दुस्तराणि मोक्षप्रतिबन्धकपापानि मत्प्रसादात् तरिष्यति अतिक्रमिष्यति इति । स्वोक्ताकरणेऽनिष्टमुच्यते– अथ चेदिति ।। अथ चेत् यदि पुनः त्वम् अहङ्कारात् पण्डितोऽहमित्यभिमानात् ‘युध्यस्व’ इति मदुक्तं न श्रोष्यसि श्रुत्वा तत्र निष्ठां न करिष्यसि तर्हि विनङ्ख्यसि विनाशं गमिष्यसि पुरुषार्थभ्रष्टो भविष्यसि इति यावत् ।। ५८ ।।