उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ।। २४ ।।

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।

सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ।। २४ ।।

गीताक्षरार्थस्तु– तथा च को दोषः ? इति चेत् उच्यते । अहं चेत् कर्म न कुर्यां तदा लोका उत्सीदेयुः विनश्येयुः । लोकस्थितिहेतुकर्मविलोपात् । किञ्च कर्मविलोपे ब्राह्मण-क्षत्रियादिवर्णविवेको न स्यादिति सङ्करस्य कर्ता स्याम् । ततश्च प्रजा उपहन्याम् उपहतवान् भवेयम् ।। २४ ।।