यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ।। ११ ।।
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ।। ११ ।।
भाष्यम्
तदेव ध्येयं प्रपञ्चयति– यदक्षरमित्यादिना ।। प्राप्यते मुमुक्षुभिरिति पदं स्वरूपम् । ‘पद गतौ’ इति धातोः ।। ‘तद्विष्णोः परमं पदम्’ इति च श्रुतेश्च । ‘गीयसे पदमित्येव मुनिभिः पद्यसे यतः’ इति वचनान्नारदीये ।। ११ ।।
भावप्रदीपिका
उत्तरश्लोकचतुष्टयमवतारयति– तदेवेति । मरणकाल-कर्तव्यम् । ‘पद’शब्देन प्रणव इति शङ्कानिरासाय ‘पद’शब्दं सप्रमाणकं व्याचष्टे– प्राप्यत इति । अनेन ‘अक्षर’शब्दोऽपि विष्णुपर इत्युक्तं भवति ।। ११ ।।
प्रमेयदीपिका
‘क्रममुक्त्यर्थमोङ्कारोपासनमुच्यते’ इत्यन्यथाव्याख्यानमपा-कर्तुमाह– तदेवेति ।। वायुजययुतानां मरणकाले कर्तव्यमेव । ‘मामनुस्मरन्’ इत्यादि-विरोधादिति भावः । ननु पदत्वं शब्दस्येवोङ्कारस्य सम्भवति । न विष्णोरित्यत आह– प्राप्यत इति ।। कर्मण्यकारप्रत्ययः । पदं स्वरूपमिति प्रयोगप्रदर्शनम्– तद्विष्णोरिति ।।११।।
भावबोधः
।। क्रममुक्त्यर्थमिति । जीवन्मुक्तिरूपसगुणमुक्तिद्वारा निर्गुण-मुक्त्यर्थमित्यर्थः । मामनुस्मरन् इत्यादिविरोधादिति । तन्मते ओङ्कारस्य शुद्धब्रह्मपरत्वेन कृष्णाख्यविशिष्टपरत्वाभावादिति भावः । आदिपदेन मद्भावं यातीत्यस्य ग्रहणम् । विशिष्ट-प्राप्तेरोङ्कारोपासनाफलत्वाभावादिति भावः ।। ११ ।।
भावदीपः
।। क्रममुक्त्यर्थमिति ।। अर्चिरादिलोकप्राप्तिद्वारकमुक्त्यर्थमित्यर्थः । ‘तदेव’ इत्यस्यार्थः– वायुजयेत्यादि ।। अपव्याख्याने दोषमाह– मामिति ।। आदिपदेन ‘यो मां स्मरति’ इत्यादिग्रहः ।। ११ ।।
भावरत्नकोशः
‘परस्य ब्रह्मणो वाचकरूपेण, प्रतिमावत् प्रतीकरूपेण च परब्रह्मप्रतिपत्तिसाधनत्वेन मन्दमध्यमबुद्धीनां विवक्षितस्योङ्कारस्योपासनं कालान्तरे मुक्तिफलं यत् तदेव ‘यदक्षरं वेदविदः’ इत्युपन्यस्यते’ इति सङ्करभाष्यं सङ्क्षेपतोऽनुवदति– क्रममुक्त्यर्थमिति । कालान्तरभावि निर्गुणमुक्तिफलकमित्यर्थः । तदेव ध्येयसहितं कर्तव्यमेव, इति एवशब्देन न पुनः परोक्तमभिसन्धत्त इति प्राप्तम् । तत्कुतः ? इत्यत आह– मामिति । परकीयव्याख्याने
‘ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् ।
यः प्रयाति त्यजन् देहं स याति परमां गतिम् ।।’
इति भगवदनुस्मरणवतः परगतिशब्दितमुक्तिरत्रोच्यमाना अनुपपन्ना । ओङ्कारोपासनाभि-सन्धाने तदनुस्मरणस्यैव वक्तव्यत्वात् । उच्यते चात्र ‘मामनुस्मरन्’, ‘अनन्यचेता मां स्मरति’ इति भगवदनुस्मरणम् । न च तद्युक्तम् । उपास्यस्यैवानुस्मर्तव्यत्वौचित्यात् । ‘तस्याहं सुलभः’ इति भगवतः सुखेन लभ्यत्वोक्तेरनौचित्याच्च । न ह्यन्योपासकं प्रति स्वात्मा सुलभ इति भाष्याशय इति भावः । ‘क्रममुक्त्यर्थम्’ इत्ययुक्तम् । परमगम्यस्य भगवत एवात्र ‘माम्’ इत्यनुस्मर्तव्यत्वा-वेदनादिति भाव इत्यपि आहुः ।
।। शब्दस्येति । तत उत्पन्नस्य सुपः ‘अव्ययात्’ इति लुका लुप्तत्वेऽपि ‘दधि’ इत्यादाविव स्वार्थबोधकत्वाप्रतिहतिरिति भावः । ‘शब्दस्यैवोङ्कारस्य’ इत्यत्र पररूपत्वाद् वृद्ध्यभावो युक्तः । ‘प्राप्यते’ इतःपूर्वं भाष्ये ‘पठ््यते’ इति शेषो वक्तव्यः । कर्मण्यकारप्रत्यय इति । ‘घञर्थे कविधानम्’ इत्यत्र ‘अकर्तरि कारके’ इत्यनुवृत्तेः, कर्मणि तेन कप्रत्यये कस्येत्त्वेन लोपे, अकारः शिष्यत इति मुक्तानुबन्धकप्रत्ययग्रहणमिदमिति ज्ञातव्यम् ।
पदशब्दस्यार्थान्तरमप्यस्तीत्यत्र किं प्रमाणम् ? इति शङ्कापनोदाय ‘तद्विष्णोः’ इति श्रुतिः प्रमाणीकृता । तत्रत्यं पदमनूद्य व्याख्याति– पदं स्वरूपमिति । इदं च पदशब्दस्य स्वरूपे प्रयोगे दर्शनं श्रुतिवचनमुदाहृतमित्यर्थः । प्रयोगस्य दर्शनं प्रदर्शनमिदं कृतमिति वा । दर्शयतेरपि ल्युटि ‘दर्शनम्’ इति हि रूपम् । ‘प्रयोगप्रदर्शनम्’ इत्यपि कोशेषु पाठो दृश्यते । न च तत्रापि स्वरूपार्थत्वं कुत इति वाच्यम् । ‘पद्यते गम्यते’ इति योगवृत्तेः सम्भवात् । ‘सदा पश्यन्ति सूरयः’ इति वाक्यशेषे दर्शनकर्मत्वावेदनाच्च नोङ्कारस्य श्रावणस्यैतद्युक्तम् । तथा च विष्णोः परमं पदमवभाति’ इति यजुर्वेदभाष्ये भट्टभास्करः ‘परमम् उत्तमं पदं स्वरूपम्’ इति व्याचख्याविति । भाष्ये पद्यसे गम्यसे प्राप्स्यस इत्यर्थः ।। ११ ।।
गीताक्षरार्थस्तु- वायुजयादियुतानां मरणकाले कर्तव्यमेव सध्येयं प्रपञ्च्यते यदक्षरमिति । यदक्षरं सर्वथा नाशरहितं वेदविदो वेदार्थतत्त्वज्ञाः यत् च वीतरागाः अपगतरागादिदोषाः यतयो यत्नवन्तः विशन्ति मुक्तौ, यत् च इच्छन्तो ब्रह्मचर्यं मनआदीनां ब्रह्मणि चरणं चरन्ति अनु-तिष्ठन्ति । तत् पद्यते गम्यते प्राप्यते मुमुक्षुभिरिति पदं गम्यं सङ्ग्रहेण प्रवक्ष्ये व्याख्यास्यामि ।।११।।
भावदीपिका
।। क्रममुक्त्यर्थमिति ।। जीवन्मुक्तिरूपसगुणमुक्तिद्वारा निर्गुण-मुक्तिः प्राप्त्यर्थमित्यर्थः । अन्यथाव्याख्याने बाधकमाह– मामनुस्मरन्नित्यादीति ।। तन्मते ओङ्कारस्य शुद्धह्मपरत्वेन कृष्णाख्यविशिष्टपरत्वाभावात्, ‘ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनु-स्मरन्’ सत्यनेन विरोधः स्यादित्यर्थः । आदिपदेन ‘मद्भावं याति’ इत्यस्य ग्रहणम् । विशिष्टप्राप्तेः ओङ्कारोपासनाफलत्वाभावादिति भावः । न विष्णोरिति ।। अतोऽन्यथाव्याख्यानमेव युक्तमिति भावः । अकारेति ।। तथा च ‘पद्’ अस्माद्धातोः कर्मण्यकारप्रत्यये ‘पद’ इति रूपम् । पदं स्वरूपमिति ।। तद् विष्णोः परमम् उत्तमम्, ‘पद्यते’ इति पदं स्वरूपं सदा सूरय इत्यर्थः । प्रयोगप्रदर्शनमिति ।। पदशब्दस्य ‘पद्यते’ इति व्युत्पत्त्या प्राप्यार्थत्वे इत्यर्थः ।। ११ ।।
भावप्रकाशः
।। क्रममुक्त्यर्थमिति । जीवन्मुक्तिरूपसगुणमुक्तिद्वारा निर्गुण-मुक्त्यर्थमोङ्कारोपासनमुच्यत इत्ययुक्तम् । विशिष्टोपासनतत्प्राप्त्योरुक्तिविरोधादिति भावः । अकार-प्रत्यय इति । घञर्थे कविधानमिति कप्रत्यय इत्यर्थः । कस्य लोपेऽकार एवावशिष्यत इति भावे-नाकारप्रत्यय इत्येवोक्तम् । न च स्थास्नापाव्यधिहनियुध्यर्थमिति परिगणनविरोधः । शब्दकौस्तुभे येन विधिरिति सूत्रे पणनं पणः, घञर्थे कविधानमिति क इत्युक्तत्वेन स्थास्नेत्यादेरुदाहरण-मात्रत्वादिति ।। ११ ।।