दैवी सम्पद्विमोक्षाय निबन्धायाऽसुरी मता । मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ।। ५ ।।
दैवी सम्पद्विमोक्षाय निबन्धायाऽसुरी मता ।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ।। ५ ।।
भाष्यम्
दैवीं सम्पदम् अभिजातः प्रतिजातः ।। ५ ।।
प्रमेयदीपिका
‘सम्पदं दैवीमभिजातोऽसि’ इत्यत्र अभिजातः उत्तमजन्मा । नायं धातुः सकर्मकः । तत् कथं द्वितीया? इत्याशङ्क्य ‘अभिलक्ष्य जातः’ इति केचित् व्याचक्षते । तदसत् । अर्जुनस्य देवत्वेन देवत्वमुद्दिश्य जन्मायोगादित्याशयवानाह– दैवीमिति ।। अनेनैतद्व्याव्याचष्टे। नायमभिरुपसर्गः । येन तस्य जनिसम्बन्धे द्वितीयानुपपत्तिः स्यात्, लक्ष्यसम्बन्धे चोक्तानुपपत्तिः स्यात् । किन्तु प्रत्यर्थलक्षणे कर्मप्रवचनीयः । तथा च ‘कर्मप्रवचनीययुक्ते द्वितीया’ उपपद्यते । यथा वृक्षमभिवृक्षं प्रति विद्योतत इत्यत्र वृक्षो विद्योतनस्य लक्षणमित्यर्थः । एवं देवी सम्पत् जातस्य तव लक्षणमित्यर्थः सम्पद्यते । तथा चार्जुनस्य प्राप्तदेवत्वाविरोध इति । अत एव ‘सम्पदं दैवीमभिजातस्य भारत’ ‘अभिजातस्य पार्थ सम्पदमासुरीम्’ इत्येतद्विहायेदं व्याख्यातम् । अर्जुनस्य देवत्वप्रसिद्धेरेतत्साहचर्यात् तत्राप्येतदर्थत्वोपपत्तेः
।। ५ ।।
भावबोधः
।। अयं धातुरिति ।। जनिधातुरित्यर्थः । देवत्वप्रसिद्धेरिति ।। तयोर्देवत्वासुरत्वप्रसिद्ध्यभावादित्यर्थः ।। ५ ।।
भावदीपः
।। प्रत्यर्थलक्षण इति ।। ‘लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः’ इति प्रतीत्युपसर्गस्य लक्षणरूपेऽर्थे कर्मप्रवचनीयसञ्ज्ञोक्तेरिति भावः ।। अत एवेति ।। देवत्वस्य अर्जुनलक्षणत्वज्ञापनार्थत्वादेवेत्यर्थः। प्रसिद्धस्यैव लक्षणत्वात् । षष्ठ्यन्तनिर्दिष्टस्थले च देवासुरत्वाप्रसिद्धेरिति भावः ।। ५ ।।
वाक्यार्थप्रदीपः
अयं धातुरिति ।। जनिधातुरित्यर्थः ।। प्रत्यर्थलक्षणे कर्मप्रवचनीय इति ।। अभिरभाग इति लक्षणात् एकस्याभेः कर्मप्रवचनीयत्वविधानादित्यर्थः । लक्षणे कर्मप्रवचनीय इत्येवोक्ते अनुर्लक्षण इत्यन्वर्थस्य जनकत्वरूपलक्षणस्यापि अभ्यर्थत्व-प्रसक्तौ जनकत्वरूपस्य च तस्य प्रकृते असम्भवात् कर्मप्रवचनीयत्वमित्याशङ्कानिरासाय प्रत्यर्थत्वेन लक्षणं विशेषितम् । तथाच लक्ष्यते चिन्ह्यते येन तल्लक्षणं चिह्नं बोधकमत्रलक्षणम् तादृशलक्षणे अभिः कर्मप्रवचनीय इत्युक्तं भवति। प्रत्यर्थे लक्षणे प्रतेः कर्मप्रवचनीयत्ववत् अभ्यर्थे लक्षणे अभेरपि कर्मप्रवचनीयत्वमिति दृष्टान्ततया तदुपादानमित्याहुः । अस्त्वेवमभि-शब्दस्य कर्मप्रवचनीयत्वम्, किं तावतापि इत्यत आह– तथाचेति।। कर्मप्रवचनीययुक्ते द्वितीयेति तत्र तद्विधानादिति भावः । तत्रैव सम्प्रतिपन्नं दृष्टान्तमाह– यथेति ।। वृक्षो विद्योतनस्य लक्षणमिति वृक्षं प्राप्य विद्योतत इति प्राप्तक्रियाजनितो लक्ष्यलक्षणभावः प्रत्यादिभिः द्योत्यत इति भावः ।।
।। इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां श्रीविद्याधीशतीर्थतत्पूज्यचरणानां निजशिष्यकेशवेन विरचिते
व्याकरणस्पृष्टप्रमेयदीपिकावाक्यार्थप्रदीपे षोडशोध्यायः ।।
भावरत्नकोशः
।। उत्तमजन्मा कुलीनः ।। अयं धातुः ‘जातः’ इत्यत्र प्रकृतिभूतो ‘जनी प्रादुर्भावे’ इति जनिधातुः । तत्कथमिति ।। ‘कर्मणि द्वितीया इत्युक्तेरिति भावः । केचिदिति ।। तथा च शङ्करः ‘दैवीं देवादीनां या सम्पत् तामभिलक्ष्य जातस्य’ इति । ‘देवत्वेन’ इति वदन् ‘इन्द्रो ह्यर्जुनः’ इत्यभिसन्धत्ते । ‘जनिधातोरकर्मकत्वात् कथं द्वितीया इति शङ्का कथं परिहृता इत्यतो भाष्यभावमाह– अनेनेति ।। येन उपसर्गत्वेन । ‘उपसर्गाः क्रियायोगे ’इति वचनादत्र जनिधात्वर्थः क्रियायोगो वा लक्षधात्वर्थक्रियायोगो वा उपसर्गत्वे निमित्तमिति विकल्पं मनसि निधाय आद्ये दोषमाह– तस्य जनिसम्बन्ध इति ।। अन्तेऽप्याह– लक्षिसम्बन्ध इति ।। ‘लक्ष दर्शनाङ्कनयोः’ इति धात्वर्थक्रियायोग इत्यर्थः । उक्तानुपपत्तिः अर्जुनस्य सिद्धदेवत्वमुद्दिश्य जन्मायोगात् इत्युक्तानुपपत्तिः ।
प्रतेर्लक्षणाद्यनेकार्थत्वाद् विवक्षितमर्थं दर्शयति– लक्षण इति ।। चिह्न इत्यर्थः । ‘लक्षणेत्थम्भूताख्यानभागवीप्सासु पतिपर्यनवः’ इति सूत्रे येष्वर्थेषु प्रतेः कर्मप्रवचनीयत्वमुक्तम्, तेषु भागमात्रं वर्जयित्वा ‘अभिरभागे’ इत्यभेः कर्मप्रवचनीयत्वस्योक्तत्वादत्र लक्षणेऽर्थे अभेः कर्मप्रवचनीयत्वं युक्तमिति तद्योगे द्वितीयोपपत्तेरिति भावः । अभेः प्रत्यर्थे लक्षणे कर्मप्रवच-नीयत्वेन तद्योगे द्वितीयेत्यत्र उदाहरणं दर्शयति– यथा वृक्षमभीति ।। तव लक्षणमिति ।। विशेषणरूपं चिह्नमित्यर्थः । विरोध इति ।। इतिशब्दस्य ‘व्याचष्टे’ इति पूर्वेणान्वयः । ‘नार्जुनस्य प्राप्तदेवत्वविरोधः’ इत्युक्तेऽर्थे उपष्टम्भकमाह– अत एवेति ।। दैव्याः सम्पदोऽर्जुन-लक्षणत्वज्ञापनार्थत्वादेवेत्यर्थः ।
एतेन ‘सम्पदं दैवीमभिजातस्य’ ‘पार्थ सम्पदमासुरीम्’ इति च वाक्यद्वये प्रथमोप-स्थितेऽपि, तत्र ‘अभिजातस्य प्रतिजातस्य’ इति व्याख्यानं किमिति न कृतम् , किमिति च ‘दैवीं सम्पदमभिजातोऽसि पाण्डव’ इति चरमश्रुतवाक्यं भाष्ये व्याख्यातम् इति चोद्यं परिहृतं भवति । ‘अत एव’ इत्युक्तं हेतुं दर्शयति– अर्जुनस्येति ।। एतत्साहचर्यात् प्रसिद्ध-देवत्वार्जुनसम्पत्साहचर्यात् । तत्रापीति ।। ‘सम्पदं दैवीमभिजातस्य’ इत्यत्र, ‘पार्थ सम्पदमा-सुरीम्’ इत्यत्र ‘दैवीं सम्पदमभिजातस्य प्रतिजातस्य’ इति ‘आसुरीं सम्पदमभिजातस्य प्रतिजातस्य’ इति च व्याख्यानोपपत्तेरित्यर्थः ।। ५ ।।
गीताक्षरार्थस्तु दैवासुरसम्पदोः फलप्रदर्शनेन दैवसम्पत्फलयोग्यस्य अर्जुनादिसाधकवर्गस्य असुरस्वभावत्वशङ्का निवार्यते– दैवीति ।। दैवी देवसम्बन्धिनी सम्पत् ‘अभयं सत्त्वसंशुद्धिः’ इत्यादिरूपो धर्मः विमोक्षाय तत्तद्योग्याय विविधमोक्षाय मता । आसुरी तु निबन्धाय नीचस्थाने अन्धतमसे बन्धाय तत्र अनिवर्त्यदुःखमनुभवितुम् इति यावत् मता । दैवीं सम्पदमभिजातः प्रतिजातोऽसीति मा शुचः शोकं मा कार्षीः । दैव्याः सम्पदः स्वाभाविकत्वेन कदाचिदप्यन-पायात् मा भैषीरिति अर्जुनोपलक्षितसज्जने भगवतोऽनुक्रोशः ।। ५ ।।
भावदीपिका
।। उत्तमजन्मेति ।। तथा च ‘अभिजातोऽसि’ इत्यस्य ‘सत्कुलप्रसूतोऽसि’ इत्यर्थो द्रष्टव्यः । अयं धातुः जनिधातुः । द्वितीया ‘सम्पदं दैवीम्’ इति द्वितीया । उपसर्गाणां क्रियासम्बन्धाभावे ससाधनक्रियावाचित्वमभिप्रेत्याह– अभिलक्ष्येति ।। दैवीं सम्पदं देवत्वमभिलक्ष्य उद्दिश्य जात इत्यर्थः । ‘लक्ष दर्शनाङ्कनयोः’ इति लक्षधातोः सकर्मकत्वात् द्वितीया युक्तेत्यर्थः । देवत्वेन प्राप्तदेवत्वेन । देवेन्द्रावतारत्वेनास्यापि देवत्वा-दिति भावः । जनिसम्बन्ध इति ।। ‘अभिजात उत्तमजन्मा’ इति जनिसम्बन्ध इत्यर्थः । लक्ष्यसम्बन्ध इति ।। अध्याहृतलक्ष्यपदेन सम्बन्ध इत्यर्थः । उक्तानुपपत्तिः अर्जुनस्य ‘देवत्वेन’ इत्युक्तानुपपत्तिः । अयमभिरुपसर्गो न चेत् तर्हि किमिति पृच्छति – किं त्विति ।। उत्तरमाह– प्रत्यर्थ इति ।। नच अभेः कथं कर्मप्रवचनीयसंज्ञा? ‘लक्षणेत्थम्भूताख्यानभाग-वीप्सासु प्रतिपर्यनवः’ इति सूत्रेण प्रत्यादित्रयाणामेव लक्षणाद्यर्थचतुष्टये कर्मप्रवचनीयताया उक्तत्वात्, तत्र च अभेरनुक्तेरित्यत उक्तम् – प्रत्यर्थ इति ।। तथा च ‘अभि’ इत्यस्य प्रत्यर्थकत्वात्, तस्य च कर्मप्रवचनीयताया उक्तत्वादिति भावः ।
ननु लक्षणाद्यर्थेषु कस्मिन्नर्थेऽत्र कर्मप्रवचनीयसंज्ञेत्यत उक्तम् – लक्षण इति ।। ‘प्रति’ इत्यस्यार्थभूतं यल्लक्षणं तदर्थेऽयमभिः कर्मप्रवचनीयसंज्ञ इत्यर्थः । तथाऽपि कथं द्वितीयो-पपत्तिरित्यत आह– तथा चेति ।। ‘कर्मप्रवचनीययुक्ते द्वितीया’ इति सूत्रेणेत्यर्थः । ‘वृक्षमभि विद्योतते विद्युत्’ इत्युदाहरणम् । अत्राभेर्लक्षणार्थत्वमुपपादयन्, दृष्टन्तेन प्रकृतेऽप्युपपादयति – यथेत्यादिना ।। लक्षणं चिह्नं ज्ञापकमित्यर्थः । दैवी सम्पदिति ।। जातस्य तव अहिंसादिरूपा दैवी सम्पत् अभि पूर्वप्राप्तदेवत्वज्ञापिकेत्यर्थः । एतद्विहायेति ।। ‘सम्पदं दैवीमभिजातस्य’ इत्यादेः सामान्योक्तित्वेन यत्किञ्चित्पुरुषविषयकत्वसम्भवेन अर्जुनविषयकत्वा-भावात् तत्र ‘देवत्वमुद्दिश्य जातः’ इत्यर्थोक्तावपि बाधकाभावाद् अर्जुनविषयत्वेनावगतं ‘सम्पदं दैवीमभिजातोऽसि’ इति वाक्यमेव व्याख्यातमित्यर्थः । ‘अत एव’ इत्युक्तं विशदयति– अर्जुनस्येति ।। तथा चात्र ‘देवत्वमुद्दिश्य’ इति व्याख्यानं न सम्भवतीत्याशयः । एतदर्थत्वेति ।। जातस्य पुंसो दैवी सम्पत् अभि लक्षणम्, जातस्य पुंस आसुरी सम्पत् अभि लक्षणमित्यर्थोपपत्तेरित्यर्थः ।। ५-७ ।।
भावप्रकाशः
।। उत्तमजन्मेति ।। कुलीन इत्यर्थः । ‘अभिजातः स्थिते न्याये कुलीनप्राप्तरूपयोः इति विश्वोक्तेरिति भावः । अयं धातुरिति ।। जनिधातुरित्यर्थः । उपसर्गत्वे क्रियायोगः तन्त्रम् । ‘उपसर्गाः क्रियायोगे’ इत्युक्तेः । तत्र किं श्रुतक्रियायोगः अध्याहृतक्रियायोगो वेति विकल्प्याद्ये आह– तस्य जनिसम्बन्ध इति ।। अन्त्ये आह– लक्षिसम्बन्ध इति ।। लक्षदर्शनाङ्कनयोरित्युक्तधात्वर्थक्रियायोग इत्यर्थः । लक्षणे इति ।। परिच्छेदक इत्यर्थः । परिच्छेदकं च द्विविधम् । विशेषणमुपलक्षणं च । तद्द्वयमपि लक्षणशब्देनात्र विवक्षितमिति बोध्यम् ।
नन्वभेर्लक्षणे कर्मप्रवचनीयत्वं कुत इत्यत उक्तम्– प्रत्यर्थेति ।। अयं भावः । ‘लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनव’ इत्यनेन येष्वर्थेषु प्रतेः कर्मप्रवचनीयत्वमुक्तं तेष्वेव भागमात्रं वर्जयित्वाऽभिरभागे इत्यभेः कर्मप्रवचनीयत्वमुक्तम् । अतो लक्षणे कर्मप्रवचनीयत्वं युक्तमिति । लक्षणमिति ।। उपलक्षणमित्यर्थः ।। न लक्षणमिति ।। विशेषणमित्यर्थः ।। अत एवेत्युक्तं दर्शयति– अर्जुनस्येति ।। ५-७ ।।