अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।। २२ ।।
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।। २२ ।।
भाष्यम्
अनन्याः अन्यदचिन्तयित्वा । तथा हि गौतमखिलेषु ‘सर्वं परित्यज्य मनोगतं यद्विना देवं केवलं शुद्धमाद्यम् । ये चिन्तयन्तीह तमेव धीरा अनन्यास्ते देवमेवाविशन्ति’ इति ।
‘कामं कालेन महतैकान्तित्वात् समाहितैः ।
शक्यो द्रष्टुं स भगवान् प्रभासन्दृश्यमण्डलः’
इति मोक्षधर्मे । नित्यमभितः सर्वतो युक्तानाम् ।। २२ ।।
भावप्रदीपिका
अनन्यपदमन्यथाप्रतीतिनिरासाय सप्रमाणकं व्याचष्टे– अनन्या इति ।। नित्याभियुक्तपदस्यान्यथाप्रतीतिं परिहर्तुमाह– नित्यमिति ।।२२।।
प्रमेयदीपिका
‘औतज्ञानिनोऽनन्याः’ इति प्रतीतिनिरासार्थमाह– अन्यथा इति ।। अविद्यमान मन्यद् येषां ते अनन्याः । तच्च ‘अनन्याश्चिन्तयन्तो माम्’ इति प्रसङ्गात् चिन्तनीयमिति लब्धे अन्यदचिन्तयित्वा इति सिद्ध्यति । प्रतीत एवार्थः किं न स्यात्? इत्यत आह– तथा हीति ।। देवमेवाविशन्ति इत्यनेन ‘योगक्षेमं वहाम्यहम्’ इत्युक्तार्थं भवति । अत्रैव कामम् इत्यागमान्तरम् । प्रभया सन्दृश्यं मण्डलं स्वरूपं यस्यासौ तथोक्तः । दर्शनस्य योगक्षेमसाधनत्वं प्रसिद्धमेव ।। ‘नित्याभियुक्तानाम्’ इत्यस्य ‘अपवादविषयाणाम्’ इत्यन्यथा प्रतीतिनिरासार्थमाह– नित्यमिति ।। सर्वतः सर्वस्मिन् देशे । शरीरेन्द्रियमनोभिर्वा युक्तानां भगवति सेवोद्युक्तानाम् ।। २२ ।।
भावबोधः
।। अत्रैवेति ।। अन्यदचिन्तयित्वा भगवन्तमेव चिन्तयतां योगक्षेमवहत्वे । अनेन महता कालेनैकान्तिकत्वात् कामं समीहितैरिति पूर्वार्धेन अनन्या इति गीतापूर्वार्धस्य शक्यो द्रष्टुमित्युत्तरार्धेन तेषामित्युत्तरार्धस्य समानार्थकत्वमित्युक्तं भवति । ननु ‘देवमेवाविशन्ति’ इत्यनेन मोक्षदातृत्वस्य योगक्षेमवहनशब्दार्थत्वेनोक्तत्वादत्र तदनुक्तेः कथमत्रैवागमान्तरमित्युक्तमित्यत आह– दर्शनस्येति ।। २२ ।।
भावदीपः
।। अत्रैवेति ।। भगवति अनन्यशब्दार्थ एवेत्यर्थः । अस्मिन्नपि वाक्ये ‘योगक्षेमं वहामि’ इत्येतदर्थोऽर्थाल्लब्ध इति दर्शयति– दर्शनस्येति ।। २२ ।।
भावरत्नकोशः
सर्वनामकार्याभावं निर्वहन्नेव ‘अन्यदचिन्तयित्वा’ इति भाष्यं घटयितुमाह– अविद्यमानमित्यादि ।। इति प्रसङ्गात् चिन्तनीयतया भगवत उक्त्या तत्प्रसङ्गा-दन्यदपि चिन्तनीयमेव वक्तव्यमित्यर्थः । प्रतीत एवार्थः ‘औतज्ञानिनोऽनन्या’ इति प्रतीत एवार्थः । इत्युक्तम् इत्येतद् उक्तार्थं भवतीत्यर्थः । ‘महता कालेन समाहितैः कामं द्रष्टुं शक्यः’ इत्यस्य स्फुटत्वाद् दुर्गमार्थम् ‘प्रभा’ इत्यादिवाक्यं व्याख्याति– प्रभयेति ।। अनेनागमेन योगक्षेमवहनं कथं लभ्यत इत्यत आह– दर्शनस्येति ।। तृतीयार्थे वाऽयं तसिरित्याह– शरीरेति
।। २२ ।।
गीताक्षराप्थस्तु- एवं त्रैविद्यानां पुनरावृत्तिफलमभिधाय भागवतानां भगवद्भजनेन अपुनरावृत्तिपुरुषार्थलक्षणमोक्षफलमुच्यते– अनन्या इति ।। अविद्यमानम् अन्यत् चिन्तनीयं येषां ते अनन्याः ‘अन्यदचिन्तयित्वा’ इति यावत् । मां चिन्तयन्तो ये जनाः पर्युपासते सम्यक् स्वस्वयोग्यगुणगणम् उपसंहृत्योपासते तेषामहं नित्याभियुक्तानां नित्यम् अभितः ेसर्वतः सर्वस्मिन् देशे, शरीरेन्द्रिय मनोभिर्वा युक्तानां भगवत्सेवोद्युक्तानां योगक्षेमं योगेन अप्राप्तप्राप्ति-लक्षणेन सहितं क्षेमं स्थितस्य परिपालनम् अपुनरावृत्तिपुरुषार्थं वहामि प्रापयामि । यद्यप्यहमेव सर्वयज्ञानां भोक्ता । तथापि त्रैविद्यानुष्ठितं मद्भजनम् अज्ञानसम्भिन्नमिति तत्फलं फल्गु पुनरावृत्तिमच्च । मद्भजनं मोक्षफलकत्वात् त्रैविद्यानुष्ठितान्यदेवताभजनाद् उत्कृष्टफलकमिति ‘किं फलं समम्’ इति प्रश्नः परिहृत इति ।। २२ ।।
भावदीपिका
‘सर्वम्’ इति प्रमाणे केवलं शुद्धमाद्यं देवं विना यत् मनोगतं सर्वं विषयजातं तत् परित्यज्य तमेव ये चिन्तयन्तीत्यर्थः । योगक्षेममिति ।। अप्राप्तप्राप्तिरूपत्वात् प्राप्तपरिरक्षणरूपत्वाच्च मोक्ष एव मुख्यतो योगक्षेमशब्दार्थ इति द्रष्टव्यम् । अत्रैवेति ।। अन्यदचिन्तयित्वा भगवन्तमेव चिन्तयतां योगक्षेमवहत्व इत्यर्थः । तथा च ‘महता कालेनैकान्तिकत्वात् कामं समाहितैः’ इत्यनेन ‘अनन्याः’ इति गीतापूर्वार्धस्य, ‘शक्यो द्रष्टुम्’ इत्युत्तरार्धेन ‘तेषाम्’ इत्युत्तरार्धस्य समानार्थत्वं द्रष्टव्यम् । प्रभयेति ।। ज्ञानेन, देहकान्त्या वेत्यर्थः । ननु ‘देवमेवाविशन्ति’ इत्यनेन मोक्षदातृत्वस्य योगक्षेमवहशब्दार्थ-त्वेनोक्तत्वात् ‘कामम्’ इत्यत्र च तदनुक्तेः, कथम् ‘अत्रैवागमान्तरम्’ इत्युक्तम् ? इत्यत आह– दर्शनस्येति ।। अपवादः निन्दा । ‘जनापवादाद् भीरुं मां नातोऽन्यद् वक्तुमर्हसि’ इत्यादिप्रयोगात् ।। २२ ।।
भावप्रकाशः
प्रकृतप्रमेयाप्रतिपादनात् काममिति प्रमाणोक्तिव्यर्थेत्यतो गूढाभिसन्धिराह– अत्रैवेति ।। भगवन्तमेव चिन्तयतां योगक्षेमप्राप्तावित्यर्थः । घटादिवत्प्रमायां दृश्यस्वरूप इति व्याख्याने माहात्म्यालाभादाह– प्रभया सन्दृश्यमिति ।। आदपरपूर्वकं दर्शनीयमित्यर्थः । कुत इत्यतः तत्र निमित्तमुक्तं प्रभयेति प्रभानिमित्तेनेत्यर्थः ।
ननु मोक्षदातृत्वं योगक्षेमवहत्वमिति देवमेवाविशन्तीत्यनेन व्याख्यातम् । नच तत्काममिति वाक्ये प्रतीयते तत्कथमत्रैवेत्युक्तमित्यतोऽभिसन्धिमुद्घाटयति– दर्शनस्येति ।। अपवाद-विषयाणामितीति ।। अभियोगस्तु शपथे स्यादाक्रोशे पराभव इति विश्वोक्तेरभियोगशब्द-स्तावदाक्रोशार्थः । आक्रोशोनिन्दापवादश्चेत्यनर्थान्तरम् । तथा च भावे घञन्ताभियोग-शब्दस्यापवादार्थत्वेऽभिपूर्वयुजेरेव तदापन्नम् । क्तप्रत्ययश्च कर्मार्थः । ततोऽपवादविषयाणा-मित्यर्थलाभ इति भावः ।। २२ ।।