अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ।। ४२ ।।
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ।। ४२ ।।
।। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः ।। १० ।।
भाष्यम्
‘किम्’ इति वक्ष्यमाणप्राधान्यज्ञापनार्थम् । न तूक्तनिष्फलत्वज्ञापनाय । तथासति नोच्येत । ‘अज्ञात्वैनं सर्वविशेषयुक्तं देवं वरं को विमुच्येत बन्धात्’ इति ऋग्वेदखिलेषु ।
भावप्रदीपिकाअथवा बहुना इत्यत्रान्यथाप्रतीतिं निवारयति– किमिति ।। ननु सर्वगतत्वज्ञाने तदन्तर्गतत्वात् पूर्वोक्तमफलमेव किं न स्यात् ? इत्यत आह– अज्ञात्वेति ।।
प्रमेयदीपिका
‘अथवा बहुनैतेन किं ज्ञातेन’ इति पूर्वोक्तव्यस्तज्ञाना-क्षेपात् तस्य निष्फलत्वमिति प्रतीतिनिरासार्थमाह– किमिति ।। किमित्ययमाक्षेपो वक्ष्यमाणसर्वव्याप्तरूपज्ञानस्य उक्त रविप्रभृतिपरिच्छन्नवस्तुस्वरूपज्ञानापेक्षया प्राधान्य-ज्ञापनार्थमेव न तूक्तविशेषज्ञानस्य निष्फलत्वज्ञापनार्थम् । निष्फलत्वे तदुक्तिवैयर्थ्या-पत्तिरित्यर्थः ।। ननु व्याप्तिज्ञानेनैव मुक्तिसम्भवाद् विशेषज्ञानं व्यर्थमेव किं न स्यात्? इत्यत आह– अज्ञात्वेति ।। ‘प्रियशिरस्त्वाद्यप्राप्तिः’ इत्यादिकं ध्यानापेक्षयोक्तम् । ज्ञानापेक्षया तु श्रुतिरित्यविरोधः । अथवा विशिष्टाधिकारिविषयेयं श्रुतिः ।।
भावबोधः
ननु सर्वस्य ज्ञेयत्वे ‘प्रियशिरस्त्वाद्यप्राप्तिः’ इति सूत्रविरोध इत्यत आह– प्रियेति ।। विशिष्टाधिकारीति ।। सूत्रं त्वल्पाधिकारिविषयमिति भावः ।। ४२ ।।
।। इति श्रीरघूत्तमतीर्थप्रणीता गीताभाष्यटीकाभावबोधे दशमोऽध्यायः ।।
भावदीपः
।। व्यस्तेति ।। व्यासो विस्तारः विस्तरेणोक्तविभूतिज्ञाना-क्षेपादित्यर्थः ।। ‘आदित्यानामहं विष्णुः’ इत्यादिनोक्तविष्ण्वादिज्ञानापेक्षयेति भ्रमनिरासायाऽह– उक्तरविप्रभृतीति ।। ननु ‘तस्य प्रियमेव शिरः’ इत्याद्युक्तप्रियशिरस्त्वसम्भृतिद्युव्याप्त्यादेर-सर्वाधिकारिकत्वस्य सूत्रकृदुक्तेः कथम् ‘अज्ञात्वैनं’ इति श्रुतिः? इत्यत आह– प्रियशिर-स्त्वादीति ।। विशिष्टाधिकारीति ।। उत्तमेत्यर्थः ।। ‘यो माम्’ इत्युक्तसर्वत्रहरिदर्शनस्य कथं प्राधान्यलाभः? इत्यत आह– विशिष्टेति ।। ‘यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि’ इति षष्ठे व्याप्तिज्ञानस्य योगक्षेमादिविशिष्टफलोक्तेरित्यर्थः ।।
भावरत्नकोशः
।। व्यत्यस्तज्ञानाक्षेपात् विस्तरेणोक्तविभूतिज्ञानस्य ‘किं ज्ञातेन’ इति किंशब्देनाक्षेपादित्यर्थः । तस्य विस्तृत्योक्तविभूतिज्ञानस्य । रविप्रभृतीति ।। ‘ज्योतिषां रविरंशुमान्’ इत्यादिनोक्तरविप्रभृतीत्यर्थः । ननु भगवद्गतसर्वधर्माणां ज्ञेयत्वे ‘प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि’ भेदे ‘वेधाद्यर्थभेदात्’ इत्यादि ब्रह्मसूत्रविरोधः । तत्र ‘तस्य प्रियमेव शिरः’ इत्यादिशास्त्रोक्तप्रियशिरस्त्वादिगुणोपासना न सर्वेषाम्, यतो मोक्षाख्य-फलतारतम्यार्थम् उपासनाया उपचयापचयौ वृद्धिह्रासौ, तारतम्यमिति यावत््, उपेयाविति भागवतगुणानामपि सर्वाधिकार्युपास्यत्वाभावस्य प्रियशिरस्त्वाद्यधिकरणे स्थितेः इत्यत आह– प्रियशिरस्त्वादीति ।। ध्यानापेक्षयेति ।। एतत्सूत्रस्य उपासनापादगतत्वादिति भावः । ‘अज्ञात्वैनम्’ इति भाष्ये श्रवणादाह– ज्ञानापेक्षया त्विति ।। विशिष्टेति ।। उत्तमेत्यर्थः । सूत्रं तु मन्दाधिकारिविषयमिति हृदयम् । विशेषज्ञानं रविप्रभृतिपरिच्छिन्नवस्तुस्वरूपज्ञानम् । अन्यान् व्याप्तिज्ञानायोग्यान् अन्यथासिद्धत्वात् बहुफलयोग्यत्वज्ञापनार्थत्वात््् ।
भावदीपिका
।। व्यस्तज्ञानेति ।। परिच्छिन्नज्ञानेत्यर्थः । ननु यदि सर्वेषां सर्वविशेषयुक्ततया भगवज्ज्ञानाभावे मुक्त्यभावः, तर्हि ‘प्रियशिरस्त्वाद्यप्राप्तिः उपचयापचयौ हि भेदे’ इति सूत्रे मोक्षार्थं सर्वेषां प्रियशिरस्त्वादिगुणविशेषयुक्ततया भगवदुपासनाभावस्योक्तत्वेन तद्विरोधः स्यात् ? इत्यत आह– प्रियेति ।। अज्ञात्वेति ।। श्रुत्या यथाशक्ति सर्वविषयक-ज्ञानं सम्पाद्यमित्युच्यते । सूत्रेण सर्वविशेषविषयध्यानं निषिध्यत इति न विरोध इति भावः । विशिष्टाधिकारीति ।। ‘ब्रह्मणा त्वखिलैर्गुणैः, उपास्यः सर्ववेदैश्च’ इति भगवत्पादीयवचनात् ब्रह्माद्युत्तमाधिकारिविषया श्रुतिः, सूत्रं त्वल्पाधिकारिविषयम् । ‘सच्चिदानन्द आत्मेति मानुषैस्तु’ इति वचनादिति भावः ।
भावप्रकाशः
ननु सर्वस्य ज्ञेयत्वे प्रियशिरस्त्वाद्यप्राप्तिरिति सूत्रविरोध इत्यत आह– प्रियशिरस्त्वादीति ।। फलभेदार्थमुपचयापचययोः भावान्न सर्वेषां प्रियशिरस्त्वादि-गुणोपासा प्राप्तिः । नैव सर्वे गुणाः सर्वैरुपास्या मुक्तिभेदतः । विरिञ्चस्यैव यन्मुक्तावानन्दस्य सुपूर्णतेति वाराहोक्तेरिति सूत्रार्थः । विशिष्टाधिकारीति ।। सूत्रं त्वल्पाधिकारिविषयमिति भावः । ननु गुणोत्कर्षपरं वाक्यं स्तुतिः । तद्वाचित्वं च किमो नास्तीति स्तुत्यर्थत्वेनेत्य-युक्तमित्यत आह– प्रशस्तता ज्ञापनमिति ।। गुणोत्कर्षज्ञापनमित्यर्थः ।