नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ।। ४० ।।
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ।। ४० ।।
भाष्यम्
मया विना यद्भूतं स्यात् तन्नास्ति ।‘विश्वरूप अनन्तगते अनन्तभाग अनन्तग अनन्त ’ इत्यादि मोक्षधर्मे ।। ४० ।।
भावप्रदीपिकान तदस्ति इत्यस्यान्वयमुक्त्वा, तत्रैव प्रमाणमाह– मयेति ।।
प्रमेयदीपिका
‘न तदस्ति विना’ इत्यत्र पदानां व्यवहितत्वादन्वयमाह– मयेति ।। भगवतः अनन्तै रूपैः । सर्वपदार्थव्यापित्वे प्रमाणमाह– विश्वेति ।। विश्वं रूपं प्रतिमा यस्यासौ विश्वरूपः । अनन्तानां गतिः आश्रयः अनन्तगतिः । अनन्ता भागाः अवताराः यस्यासौ अनन्तभागः । अनन्तान् पदार्थान् गतः अनन्तगः । अनन्तःकालाद्यपरिच्छिन्नः ।। ४० ।।
भावरत्नकोशः
।। भगवत इति ।। विश्वरूपः इत्यनन्तरं ‘तत्सम्बुद्धिः’ इति शेषः । एवमुत्तरत्रापि । ‘पदार्थान्् गतः’ इत्यत्र गमेः ‘गत्यर्थाकर्मक’ इति कर्तरि क्तः । कालाद्यपरिच्छिन्नः कालदेशगुणाद्यपरिच्छिन्नः ।।
सङ्क्षेपकरणे कारणं दर्शयतोपसंह्रियते– नान्तोऽस्तीति ।। हे परन्तप मम दिव्यानां विभूतीनाम् अन्तः अवसानं यतो नास्ति, अत उक्तविभूतिरूपाणाम् आनन्त्यात् एष उक्तो विभूतिविस्तरः उद्देशत एव इदमिदं विभूतिरूपमिति योऽयमत्र विशेषनामनिर्देशः कृतः सोऽपि सङ्ग्रह एव ।। ४० ।।