ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ।। ३२ ।।
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ।। ३२ ।।
भाष्यम्
फलमाह– ये म इति ।। ये तु एवं निवृत्तकर्मिणः तेऽपि मुच्यन्ते ज्ञान-द्वारा । किम्वपरोक्षज्ञानिनः? न तु साधनान्तरमुच्यते ।
‘निवृत्तादीनि कर्माणि ह्यपरोक्षेशदृष्टये ।
अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्न मार्गते ।
सर्वं तदन्तराधाय मुक्तये साधनं भवेत् ।
न किञ्चिदन्तराधाय निर्वाणायापरोक्षदृक् ।।’
इति ह्युक्तं नारायणाष्टाक्षरकल्पे ।
अत एव समुच्चयनियमो निराकृतः ।। ३१,३२ ।।
भावप्रदीपिका
संन्यासकर्मणः फलस्य ज्ञानद्वारा मोक्षाख्यस्य प्रसिद्धत्वेऽपि तद्दार्ढ्याय वाचा वक्तीत्यभिप्रायेणाह– फलमिति ।। ज्ञानिनो मुच्यन्ते निवृत्तकर्मिणोऽ-पीत्यर्थान्तरभ्रान्तिं निराकर्तुं यथावद्व्याचष्टे– ये त्विति ।। अर्थान्तरं किं न स्यात् ? इत्यत आह– न त्विति । आदिपदात् स्वपदपार्थानीन्द्रादिकर्माणि निवृत्तादीनान्त्ये । तदेव विव्रियते– सर्वं तदिति ।। तत्सर्वं निवृत्तकर्मादि भगवद्दृष्टिमन्तराधाय । ननु केवल-कर्मणो मोक्षहेतुत्वाभावेऽपि ज्ञानसमुच्चितस्य किं न स्यात् ? इत्यत आह– अत एवेति । ‘निवृत्तादीनि’ इति प्रमाणादेव ।। ३१-३२ ।।
भावप्रकाशिका
एवंविधैः कर्मभिः न स्वर्गादिरूपपुष्पमात्रावाप्तिः, नापि प्रत्यवायपरिहारमात्रम् । किन्तु ज्ञानद्वारा फलं भवति कैवल्यमिति भावेनोत्तरश्लोकमवतार्य व्याचष्टे– फलमिति ।। ननु किं द्वारभूतेन ज्ञानेन ? साधनान्तरमेव कर्म किं न स्यात् ? अपिशब्दबलात् । तथा चान्ये वदन्ति–
‘मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।
नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया ।।’ इति ।
इत्याशङ्क्यापिशब्दः कैमुत्यन्यायसूचको, न तु ज्ञानमिव कर्मापि मुक्तिसाधनम् इत्ये-तदर्थकमित्येतत् सप्रमाणकमाह– ये त्वेवमिति । आदिपदेन स्वस्वपदकामाधि-कारिकदेवाद्यनुष्ठितं (ध्रुवाद्यनुष्ठितं-इति अपपाठः) तपआदिकर्म (गृह्यते) । ननु मा भून्मुक्तौ साधनान्तरं कर्म ज्ञानात् । समुच्चयनियमस्तु तयोः स्यादेव । ज्ञानिनोऽप्यर्जुनस्य कर्मविधानादित्याशङ्क्य, एतदस्मादेव वचनात् सोऽपि निराकृत इत्याह– अत एवेति ।। ज्ञानिनोऽपि कर्मविधिर्मुक्तावानन्दवृद्धय एव । ज्ञानं तूत्पन्नं विनाऽपि कर्म मुक्तिं ददात्ये-वेति न समुच्चयनियम इत्यर्थः ।। ३१,३२ ।।
प्रमेयदीपिका
अन्यथाप्रतीतिं निराकर्तुं तावदुत्तरश्लोकद्वयप्रतिपाद्यमाह–फलमिति ।। केचिद् विद्वांस एवं कुर्वन्तीत्येतावता मया कार्यं न वा? इत्याशङ्क्य स्वोक्तकरणाकरणयोः फलमाहेत्यर्थः । ‘मुच्यन्ते तेऽपि कर्मभिः’ इत्यपिशब्देन ज्ञानमिव निवृत्तं कर्मापि मोक्षसाधनमुच्यते’ इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे– ये त्विति ।। कैमुत्यद्योतनार्थोऽपिशब्दो न समुच्चयार्थ इत्यर्थः । प्रासङ्गिकं चैतत् । समुच्चये यद्यपिशब्दः । स च द्वेधा । ज्ञानमिव कर्मापि पृथक् साधनम् । ज्ञानकर्मसमुच्चय एवेति ।।
तत्रआद्यं पक्षं निराकरोति– न त्विति ।। निष्कामत्वादिनाऽनुष्ठितानि यज्ञादीनि निवृत्तानि ।आदिपदेन नित्यनैमित्तिकानां ग्रहणम्। अपरोक्षा च सा ईशदृष्टिश्च । तादर्थ्ये चतुर्थी । मुक्तौ मुक्तिसाधने । किञ्चित् सहकारि ।। कर्मापि मुक्तिसाधनमुच्यत इत्यत उक्तम्– सर्वमिति ।। तत्सर्वं निवृत्तादिकम्। अन्तरा मध्ये । ज्ञानम् आधाय मुक्तये मुक्तेः । ‘अहल्यायै जार’ इति यथा । साक्षात् साधनत्वेन श्रुतमपि कर्म यथा व्यवहितं जातं किं ज्ञानमपि तथा? नेत्युक्तम्– न किञ्चिदिति ।।
द्वितीयमपि प्रकारमतिदेशेन निराचष्टे– अत एवेति ।। ‘अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्न मार्गते’ इत्युक्तत्वादेवेत्यर्थः ।। ३१,३२ ।।
भावदीपः
‘कर्मणैव’ इत्यादावेव कर्मज्ञानद्वारा मोक्षोपायो न साक्षादिति समर्थनात् पुनरिह ‘मुच्यन्ते’ इत्यादिकं किमर्थमुच्यते? इत्यत आह–प्रासङ्गिकमिति ।। ‘कर्मणैव हि’ इत्यादिना विद्वांसोऽपि कर्म कुर्वन्तीत्युक्तेऽत्र तावता मया कुतः कार्यम्? इति शङ्कायां करणाकरणयोः फलोक्तेः प्रसङ्गप्राप्तत्वादिति भावः । कैमुत्यद्योतितं प्रमेयं प्रासङ्गिक-मिति वाऽर्थः । इत्यादि यथेति ।। ‘अहल्यायाः’ इति विपरिणामो यथा, ‘न वा ओ पत्युः कामाय’ (बृ.उ.४.४.५) इत्यादौ कामेनेति यथा तथा ‘मुक्तये’ इत्यस्य मुक्तेरिति विपरिणाम इत्यर्थः ।। ३१-३२ ।।
वाक्यार्थप्रदीपः (पां.टि.)– ।। तादर्थ्ये चतुर्थीति ।। ‘मुक्तये हरिं भजति’ इत्याद्यभियुक्त- प्रयोगमूलकतादर्थ्ये चतुर्थी वाच्येति वार्तिकादिति भावः । मुक्तये मुक्तेरिति ।। ‘चतुर्थ्यर्थे बहुलं छन्दसि’ इति षष्ट्यर्थे चतुर्थी इति भावः । तत्रैव सम्प्रतिपन्नं दृष्टान्तमाह– अहल्यायै जार इति ।। तत्र यथा षष्ट्यर्थे चतुर्थीत्यर्थः । नच चतुर्थ्यर्थे षष्ठीविकल्पनात् नास्य षष्ट्यर्थे चतुर्थीविधाय-कत्वमिति वाच्यम् । अत्र ‘षष्ठी शेषे’ इत्यतः ‘षष्टी’ इत्यस्यानुवृत्तिम् । ‘चतुर्थी अर्थः’ इति च योगविभागमाश्रित्य ‘चतुर्थी षष्ठी च परस्परार्थे बहुलं भवतः’ इत्यभियुक्तव्याख्यानेन षष्ट्यर्थे चतुर्थी विधायकत्वेनोदाहरणोपपत्तिरिति ध्येयम् ।।
भावरत्नकोशः
।। अन्यथाप्रतीतिं ‘कर्मभिर्मुच्यन्ते’ इति कर्मणां मोक्ष-साधनत्वमुच्यत इत्यन्यथाप्रतीतिम् । निराकर्तुं ‘न तु साधनान्तरमुच्यते’ इत्युपरितनभाष्येण । श्लोकद्वयप्रतिपाद्यम् ‘एवंविधैः कर्मभिर्न स्वर्गादिरूपपुष्पमात्रावाप्तिः, नापि प्रत्यवायपरिहारमात्रं फलम् । किन्तु ज्ञानद्वारा कैवल्यमेव’ इति प्राचीनटीकोक्तं श्लोकद्वयनिर्गलितार्थमित्यर्थः । इममर्थं सूचयन् भाष्यं परिष्करोति– किं विद्वांस इति ।। तेऽपि निवृत्तकर्मानुतिष्ठन्तोऽपि मुच्यन्त इत्युक्तौ कर्मापि मोक्षसाधनमिति सिद्ध्यतीति भावेन ‘अपिशब्दबलात्’ इति प्राचीन-टीकोक्तमेवाह– अपिशब्देनेति ।। यद्बलाद् अन्यथाप्रतीतिस्तमन्यथयति– कैमुत्येति । निवृत्त-कर्माणोऽपि मुच्यन्ते, किम्वपरोक्षज्ञानिन इति कैमुतिकन्यायसूचनार्थः, न तु ज्ञानमिव कर्मापि मोक्षसाधनमिति कर्मणः साधनत्वसमुच्चयार्थ इत्यर्थः । ननु नात्र कैमुत्यं द्योतनीयम् । विदुषा निवृत्तं कर्म कर्तव्यं फलवत्त्वादित्येतावत्युक्तेऽपि कर्माऽवश्यकमिति स्वमतसिद्धिरित्यत आह– प्रासङ्गिकमिति । महाफलहेतुत्वात् कर्म कर्तव्यमिति भगवन्मतम् । तत्र ज्ञानस्य महाफलहेतुत्वं शास्त्रसिद्धमिति कथं कर्म तद्धेतुः? इति शङ्कायां कर्मिणोऽपि मुच्यन्ते किमु ज्ञानिन इत्ये-तदप्युक्तशङ्कां परिहर्तुं प्रसङ्गागतत्वादुक्तमित्यर्थः ।
भाष्ये ‘तेऽपि मुच्यन्ते किम्वपरोक्षज्ञानिनः’ इत्युक्त्यैैव गीतागतापिशब्दार्थकैमुत्यसूचन-सम्भवात् ‘ज्ञानद्वारा’ इति न वक्तव्यम् । ‘कर्मणैव हि संसिद्धिम्’ इत्यत्रैव कर्म ज्ञानद्वारैव मोक्षसाधनम् इत्यर्थस्य समर्थितत्वाच्च । अत एव ‘न तु समाधानान्तरमुच्यते, न तु निवृत्ता-दीनि’ इत्याद्यपि न वक्तव्यमित्यत आह– प्रासङ्गिकमिति ।। एतत् ‘ज्ञानद्वारा न तु साधनान्तरमुच्यते’ इत्यादिभाष्यं प्रसङ्गप्राप्तस्य कर्मणो मोक्षसाधनत्वस्य समर्थनार्थमित्यर्थ इत्यप्याहुः । एतदपरोक्षज्ञानस्य प्राधान्यमित्यर्थः इति केचित् । समुच्चय एवापिशब्दार्थः किं न स्यात् ? इत्याशङ्क्य तद्दूषणपरं भाष्यमवतारयति– समुच्चये यदीति ।। ‘तर्हि’ इति शेषः । स च समुच्चयः । द्वेधा निरूपणीयः । पृथगिति ।। स्वर्गे ज्योतिष्टोमाद् अग्निहोत्रमिव पृथ-गित्यर्थः ।। ज्ञानकर्मसमुच्चय इति ।। स्वर्गे दर्शपौर्णमासौ समप्राधान्येन यथा साधनम्, तथा ज्ञानं कर्म च समप्राधान्येन मोक्षे साधनमिति समुच्चय इत्यर्थः ।
ननु साधनान्तरं नोच्यत इत्येतत् कुतः ? कर्मणामपि मोक्षसाधनत्वस्य तत्र तत्र श्रवणा-दित्यतः कर्मणो मोक्षसाधनत्ववचनगतिं वर्णयत् प्रमाणमुच्यते भाष्ये– निवृत्तादीनीति ।। तत्र निवृत्तकर्मशब्दस्य विवक्षितमर्थमाह– निष्कामत्वादिनेति ।। निष्कामत्वं फलस्नेहराहित्यम् । आदिशब्देनेश्वरप्रीत्युद्देश्यकत्वादि ग्राह्यम् । यज्ञादीनि यदकरणे प्रत्यवायाभावः, यानि चानिमित्तेऽप्यनुष्ठेयानि, तानीष्टिपश्वादीनि तत्तत्फलविशेषसाधनतया विहितान्यपि फलमनभि-सन्धायेश्वरप्रीत्युद्देशेनानुष्ठितानि च तान्यत्र निवृत्तशब्देन विवक्षितानीत्यर्थः । ‘यज्ञादि’ इत्यादिशब्देनोक्तविधदानादिग्रहः ।
‘निवृत्तादीनि’ इत्यत्र आदिशब्दार्थमाह– आदिपदेनेति ।। प्राचीनटीकायां तु ‘आदिपदेन स्वस्वपदकामाधिकारिकदेवाद्यनुष्ठितं तपआदि कर्म गृह्यते’ इत्युक्तम् । अपरोक्षत्वम् अव्यव-धानादीशविशेषणमिति भ्रमं वारयंश्चतुर्थ्यर्थमाह– अपरोक्षेति ।। ‘तादर्थ्ये चतुर्थी वक्तव्या’ इति वचनात् ‘मुक्तये हरिभजनम्’ इतिवच्चतुर्थीविभक्तिरित्यर्थः । मुक्तिसाधने मुक्तिनिष्पादने । ‘किञ्चित्’ इत्यनुवादः,‘सहकारि’ इति व्याख्यानम् । निवृत्तादिकं निष्कामत्वादिनाऽनुष्ठितं यज्ञादि नित्यनैमित्तिकं कर्म । मध्ये स्वमुक्तयोर्मध्ये । ज्ञानं भगवत्साक्षात्कारम् । आधाय द्वारीकृत्य । ज्ञानात् पूर्वमनुष्ठितं निवृत्तकर्म ज्ञानं जनयित्वा मोक्षप्रयोजकं भवतीति कर्मणो मोक्षहेतुत्वोक्तिगतिकथनपरं भाष्यवचनमिति भावः ।
ननु प्रापकशास्त्राभावात् कथं ‘मुक्तये’ इति चतुर्थी ? प्रत्युत साध्यसाधनभावनिबन्धना षष्ठ्येव युक्ता इत्यतः छान्दसत्वादियं चतुर्थी षष्ठ्यर्थे व्याख्यातव्येति सोदाहरणमाह– मुक्तये मुक्तेरिति ।। यथा ‘अहल्यायै जार’, ‘या खर्वेण पिबति तस्यै खर्वः प्रजायै गोपीथाय’ इत्यादौ षष्ठ्यां वक्तव्यायामपि ‘षष्ठ्यर्थे चतुर्थी वक्तव्या’ इति वचनाच्चतुर्थीविभक्तिरुच्यते तथाऽत्रापीत्यर्थः ।
किञ्चित् निवृत्तादिकम् । अन्तराधाय । निर्वाणाय मुक्तेः । ‘साधनं भवति’ इत्यनुवर्तने ल्यबुपपत्तिः । द्वितीयमपि ज्ञानकर्मसमुच्चय एवेति द्वितीयमपि । स च द्वेधेति प्रकारद्वयेन व्याख्यानात् प्रकारमित्युक्तम् । पक्षमित्यर्थः । ज्ञानं कर्म विना न मोक्षं साधयितुं समर्थम् । कर्म तु न ज्ञानं विना तथेति ज्ञानकर्मणोरर्थसमुच्चयनियमः सोऽपि न केवलं कर्म पृथक् साधनमिति पक्ष इत्यपिशब्द इति भाष्यार्थः ।।
गीताक्षरार्थस्तु– ये तु पुनः एतत् मम मतं अभ्यसूयन्तो नानुवर्तन्ते तान् अचेतसः विवेकशून्यान् अत एव सर्वविषयमिथ्याज्ञानिनः नष्टान् स्वात्मनाशभाजः विजानीहीति ।।३२।।
भावदीपिका
।। अन्यथाप्रतीतिमिति ।। ‘मुच्यन्ते तेऽपि कर्मभि;’ इत्यत्र कर्मभिरपीत्यपिशब्देन ज्ञानवत् कर्मणोऽपि मोक्षसाधनत्वमित्यन्यथाप्रतीतिमित्यर्थः । ‘मया कार्यम्’ इत्यनन्तरं ‘किं फलापेक्षया वा’ इति वाक्यशेषो द्रष्टव्यः । अपिशब्देनेति ।। समुच्चयार्थकेनेत्यर्थः । वक्तव्यं सर्वमुक्त्वा पश्चात् स्वोक्तकरणाकरणयोः फलं वक्तव्यम् । न ह्यत्र वक्तव्यं सर्वमुक्तम् । अतो न फलकथनमत्र सङ्गतमित्यत आह– प्रासङ्गिकं चैतदिति ।। विद्वदविदुषोः कर्मभेदोक्तौ विद्वांस एवं कुर्वन्तीत्येतावता त्वया न कार्यम्, किन्तु मदुक्त-करणाकरणयोः फलमप्यस्तीति प्रमेयस्य स्मृतत्वात्, स्मृतस्य चोपेक्षाऽनर्हत्वरूपप्रसङ्गसङ्गत्येदं फलमत्रोक्तं भगवतेत्यर्थः ।
केचित्तु एतत् ‘न तु’ इत्यादिनोच्यमानं प्रमेयम्’ प्रासङ्गिकमित्यर्थ इत्याहुः । अपिशब्द इति ।। गीतागतोऽपिशब्दो न केवलं ज्ञानेन, किन्तु कर्मभिरपीति । स चेति ।। समुच्चय इत्यर्थः । पृथक् स्वातन्त्र्येण ।। समुच्चय एवेति ।। परस्परसापेक्षे ज्ञानकर्मणी इति यावत् । ‘न तु’ इति भाष्यस्य ज्ञानमिव कर्मापि मोक्षे स्वातन्त्र्येण साधनान्तरमित्युच्यते गीतायामपिशब्देनेति न त्वित्यर्थः । कर्मणः स्वातन्त्र्येण मोक्षसाधनत्वाभावे प्रमाणमुच्यते भाष्ये– निवृत्तादीनीति ।। तत्र ‘निवृत्तानि’ इत्यस्य ध्वस्तानीत्यन्यथाप्रतीतिनिरासायाऽह– निष्कामत्वादिनेति ।। नित्य-नैमित्तिकानामिति ।। तेषां काम्यत्वाभावेनाबन्धकतया ज्ञानसाधनत्वादिति भावः ।।
अपरोक्षपदसमभिव्याहाराद् दृष्टिपदेन ज्ञानमात्रमवग्राह्यम् इत्याशयेन विग्रहं दर्शयति– अपरोक्षा च सेति ।। सम्प्रदाने चतुर्थीति भ्रमं वारयति– तादर्थ्य इति ।। तथा चापरोक्षेश-दृष्ट्यर्थमित्यर्थो द्रष्टव्यः । ‘मुक्तौ’ मुक्त्यवस्थायाम् इति प्रतीतिनिरासायाऽह– मुक्तिसाधन इति ।। साधनशब्दोऽत्र भावसाधनो विवक्षित इति द्रष्टव्यः ।। कर्मापीति ।। ‘साक्षात्’ इति शेषः । तथा चापरोक्षेशदृष्टेरेव न मोक्षसाधनत्वमित्याशयः । ननु ‘कर्मणा यमभिप्रैति स सम्प्रदानम्’ इत्युक्तसम्प्रदानसञ्ज्ञायाः प्रकृतेऽसम्भवात् कथं ‘मुक्तये’ इति चतुर्थी? इत्यत आह– मुक्तये मुक्तेरिति ।। तथा च षष्ठ्यर्थे चतुर्थीति भावः । षष्ठ्यर्थे चतुर्थी कुत्र दृष्टा? इत्यतः श्रौतप्रयोगं दर्शयति– अहल्यायै जारेति ।। अहल्याया जार इत्यर्थस्तत्र सर्वेषां सम्मतः, तद्वदिहापीत्यर्थः ।। न किञ्चिदितीति ।। अपरोक्षदृक् किञ्चिदन्तराधाय मुक्तये साधनं न भवेत् । किन्तु साक्षात् निर्वाणाय लिङ्गभङ्गरूपमोक्षाय साधनं भवतीत्यर्थो द्रष्टव्यः । इत्युक्तत्वा-देवेति ।। तत्र ज्ञानस्य सहकार्यन्तरनैरपेक्ष्योक्तेरिति भावः ।। ३१-३२ ।।
भावप्रकाशः
अहल्यायै जारेति यथेति ।। ‘तादर्थ्ये चतुर्थी वाच्या’ इत्यत्र ‘तादर्थ्यशब्द उपकार्योपकारकभावपरः’ इति कृष्णपण्डिताद्युक्तेः अहल्यायाश्च भोग्यतया जारोपकारकत्वाद्यथोक्तवार्तिकात् चतुर्थी तथा मुक्तेरपि जन्यत्वेन साधनोपकार्यतया तत्र चतुर्थीत्यर्थः । नच सम्बन्धस्य द्विष्ठत्वात् ‘जार’ इत्यादौ चतुर्थी किं न स्यात्? इति वाच्यम् । षष्ठीवद्विशेषणात् तदुपपत्तेः । यद्वा ‘चतुर्थ्यर्थे बहुलं च्छन्दसि’ इत्यत्र ‘षष्ठ्यर्थे चतुर्थी वाच्या’ इति यद्वार्तिकं तेनात्र चतुर्थीति दिक् ।। ३१-३२ ।।