यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ।। २३ ।।

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।

न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ।। २३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– सर्वस्यैतस्यासुरसम्पत्परिवर्जनस्य श्रेष्ठाचरणस्य च शास्त्रं कारणम् । शास्त्रप्रमाणाद्धि उभयं शक्यं कर्तुम्, नान्यथेत्युच्यते– यः शास्त्रविधिमित्यादिना ।। यः पुमान् शास्त्रविधिं कर्तव्याकर्तव्यज्ञानकारणं विधिप्रतिषेधाख्यं शास्त्रविधानम् उत्सृज्य अपरिज्ञाय कामकारतः स्वेच्छामात्रेण वर्तते प्रवर्तते । स न सिद्धिं ज्ञानम् अवाप्नोति, न सुखम् ऐहिकमामुष्मिकं वा स्वर्गादिकम् अवाप्नोति । परां गतिं मोक्षं न अवाप्नोतीति किमु ।। २३ ।।