नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन ।। २७ ।।

नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।

तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन ।। २७ ।।

भाष्यम्

एते सृती सोपाये ज्ञात्वाऽनुष्ठाय न मुह्यति । तच्चाह स्कान्दे– ‘सृती ज्ञात्वा च सोपाये अनुष्ठाय च साधनम् । न कश्चिन्मोहमाप्नोति न चान्या तत्र वै गतिः’ इति ।। २७ ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये अष्टमोऽध्यायः ।।

भावप्रदीपिका

न केवलभक्त्या भगवद्भावभावितत्वेनान्तकालस्मरणं भवति, किन्तु मार्गज्ञानध्यानाभ्यां चेत्यभिप्रायं श्लोकं सप्रमाणकं व्याचष्टे– एतदिति । सोपायेऽनुष्ठाय च साधनम् इति ‘योगी’ इत्यस्यार्थः ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीगीताभाष्यटीकायां श्रीपद्मनाभतीर्थभट्टारकविरचितयां श्रीमद्भगवद्गीताभाष्यभावप्रदीपिकायां अष्टमोऽध्यायः ।। २७ ।।

प्रमेयदीपिका

‘नैते सृती पार्थ’ इति मार्गज्ञानमात्रेण मोहाभावोऽभिधीयत इति प्रतीतिनिरासार्थमाह– एत इति ।। अनुष्ठाय ‘उपायम्’ इति शेषः । कुत एतत्? ‘योगी’ इत्युक्तत्वात् । पुराणसंवादाच्चेत्याह– तच्चेति ।। मोहः भगवद्विस्मृतिरूपः । अन्या भगवत्प्राप्तेः ।।

भाष्ये पुराणे च ‘अनुष्ठाय’ इत्याकारस्थाने क्वचिदीकारो लेखकदोषेण पतितः । मूलपुस्तकेष्वदर्शनात् ।। २७ ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां श्रीजयमुनिविरचितायां प्रमेयदीपिकायाम् अष्टमोऽध्यायः समाप्तः ।। ८ ।।

भावदीपः

।। उपायमितीति ।। ज्ञानं कर्म चेत्यर्थः ।। २७ ।।

।। इति श्रीमत्सुधीन्द्रतीर्थश्रीपादशिष्यश्रीराघवेन्द्रयतिकृते

श्रीगीताभाष्यटीकाभावदीपे अष्टमोऽध्यायः ।।

भावरत्नकोशः

‘अनुष्ठाय च साधनम्’ इति वचनानुसारेण भाष्ये शेषमाह– उपायमितीति । ज्ञानकर्मरूपमित्यर्थः । भाष्ये ‘सृती’ इत्यस्य मार्गावित्यर्थः । योगीत्युक्त-त्वादिति ।। सोपायमार्गज्ञानस्य तदपायानुष्ठानस्यैवात्र योगत्वेन विवक्षितत्वात् ‘न मुह्यति’ इति युक्तमिति भावः । ननु भगवदनुस्मरणं कर्तव्यम् । तादर्थ्येन मार्गादिज्ञानमप्यापादनीयमिति प्रकृतत्वात्, अत्र मिथ्याज्ञानस्य प्रतिषेध्यतया अप्राप्तस्याभाववचनं न प्रकृतसङ्गतम् ? इत्यतो विवक्षितमोहशब्दार्थं दर्शयति– मोहो भगवदिति ।। अन्यत्वं किमपेक्षयेत्यतः प्रतियोग्याह– भगवत्प्राप्तेरिति । एवं च तत्रोक्तसाधनानुष्ठानेन मोहाभावे भगवत्प्राप्तिरेव फलं योगिन इति भाष्यं व्याख्यातम् भवति । लेखकेति । अनुपूर्वात् ‘ष्ठा गतिनिवृत्तौ’ इत्यतः क्त्वाप्रत्ययस्य समासे ल्यपि ‘अनुष्ठाय’ इत्याकारस्यैव श्रवणौचित्येन ईकारस्यालाक्षणिकत्वात् । ‘घुमास्थागापाजहातिसां हलि’ इति प्राप्तम् ईत्वं तु ‘न ल्यपि’ इति प्रतिषिद्धमिति भावः । हेत्वन्तरं चाह मूलेति । अदर्शनात् ईकारपाठस्य ।। २७,२८ ।।

मार्गकथनस्य प्रयोजनमुच्यते नैत इति । एते उक्ते सृती मार्गौ जानन् योगी ते सोपाये ज्ञात्वा तदुपायम् अनुतिष्ठन् कोऽपि न मुह्यति भगवद्विस्मृतिरूपं मोहं न प्राप्नोति । तस्मात् भगव-दनुस्मृत्यनुकूलत्वात् । सर्वदा योगयुक्तो भगवज्ज्ञानभक्तिपूर्वकस्वोचितकर्मानुष्ठानलक्षणोपायवान् भव । द्विःसम्बोधनम् आदरसम्पादनार्थम् ।। २७ ।।

भावदीपिका

।। कुत एतदिति ।। ‘अनुष्ठाय’ इति कुतः पूरणीयमित्यर्थः । योगीतीति ।। योगानुष्ठाता हि योगीत्युच्यते यतः, अतः ‘अनुष्ठाय’ इत्यवश्यं वाच्यमेवेति भावः । यथोक्तं सूत्रकृता ‘योगिनः प्रति स्मर्येते’ इति ।। अन्येति ।। तथा च तत्र मोहतरणे भगव-त्प्राप्तेरन्या गतिः साधनं नास्तीत्यर्थ इति आहुः । वस्तुतस्तु तत्र एवं भगवद्विस्मृतिरूप-मोहापगमानन्तरं तस्य पुंसो भगवत्प्राप्तेरन्या गतिर्नास्तीति भगवत्प्राप्तिरेव भवतीत्यर्थो द्रष्टव्यः । ईकार इति ।। ‘अनुष्ठीय’ इति पाठ इत्यर्थः ।। २७ ।।

इति यदुवरगीताभाष्यटीकासु युक्ता–

शयमतिललिताभिर्गीर्भिरावेदयित्री ।

सुललितविवृतिर्या वृष्णिराट्छात्रचीर्णा

समगमदयमस्यामष्टमोऽध्याय आन्तम् ।। १ ।।

।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितायां श्रीमद्भगवद्गीताभाष्यटीकाविवृत्तौ भावदीपिकाख्यायामष्टमोऽध्यायः ।।

भावप्रकाशः

ननु नैते सृती इत्यनेन मार्गज्ञानस्य प्रयोजनमुच्यते । तत्र मोहाभावमात्रग्रहणे उपक्रमविरोधः । मरणकालकर्तव्यत्वेन भगवत्स्मृतेरेवोपक्रमप्रतिपाद्यत्वात् । तत्रैव च प्रमाणस्य प्रवृत्तत्वादित्यत आह– मोहो भगवद्विस्मृतिरूप इति । यद्वा ननु सृती ज्ञात्वा साधनमनुष्ठाय न मोहमाप्नोति इति मार्गज्ञानोपायानुष्ठानाभ्यां मोहाभाव उक्तः । स न युक्तः । मार्गविषयत्वे मोहस्य भगवद्विषयमोहस्य वा निवृत्तौ साधनानुष्ठानस्य साक्षादहेतुत्वात् । मोहस्य ज्ञानेनैव निवृत्तेरित्यत आह– मोह इति । प्रमाणे भगवत्स्मृतेः फलमुक्तम्– न चेति । तस्यार्थः । तत्र च भगवत्स्मृतौ सत्यां चान्या गतिर्नास्तीति । तत्रान्यत्वस्य सावधिकत्वादाह– भगवत्प्राप्तेरिति ।। २७,२८ ।।

।। इतिश्रीमत्तिरुमलाचार्यसुतकृष्णविरचितायां प्रमेयदीपिकाभावप्रकाशे अष्टमोऽध्यायः ।।