इमं विवस्वते योगं प्रोक्तवानहमव्यम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ।। १ ।।
श्रीश्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं
श्रीमद्भगवद्गीताभाष्यम्
चतुर्थोऽध्यायः
श्रीभगवानुवाच–
इमं विवस्वते योगं प्रोक्तवानहमव्यम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ।। १ ।।
भाष्यम्
बुद्धेः परस्य माहात्म्यं, कर्मभेदः, ज्ञानमाहात्म्यं चोच्यतेऽस्मिन् अध्याये ।।
श्रीपद्मनाभतीर्थविरचित-गीताभाष्यटीका-
भावप्रदीपिका
अध्यायप्रतिपाद्यं दर्शयति – बुद्धेरिति ।। ‘एवं ज्ञात्वा’ इतिपर्यन्तं भगवन्महिमोच्यते । तदारभ्य ‘श्रेयान्’ इति कर्मभेदः । पश्चाज्ज्ञानमाहात्म्यम् । प्रघट्टकभेदप्रदर्शनार्थमेतत् । साक्षा-दर्थस्तु ‘पूर्वोक्तयोर्ज्ञानकर्मणोर्विशेषविस्तारात्मकोऽयमध्यायः’ इति ।।
श्रीनरहरितीर्थविरचित-गीताभाष्यटीका-
भावप्रकाशिका
पूर्वाध्यायसङ्गतिं दर्शयन्नेव तदध्यायप्रतिपाद्यमाह– बुद्धेरित्यादिना ।। प्रघट्टक-भेद-प्रदर्शनार्थमेतद्भाष्यम् । अन्यथाऽर्थभेदादध्यायभेदापत्तेः । अर्थैक्यं तूक्तज्ञानकर्मविशेष-विस्तारात्मकत्वेन ज्ञातव्यम् । तथा ह्युत्तरप्रस्थाने उक्तयोर्ज्ञानकर्मणोः’ इत्यादि । एतदर्थमेवात्र भगवन्महिमोच्यते । तथा हि मध्यमषट्काद्ये ‘साधनं प्राधान्येनोक्तमतीतैरध्यायैः’ इति ।
श्रीजयतीर्थविरचितगीताभाष्यटीका-
प्रमेयदीपिका
उक्तयोर्ज्ञानकर्मणोरुभयोर्विशेषविस्तरात्मकोऽयमध्याय इति पूर्वसङ्गताध्यायार्थस्थिताविह प्रकरणभेदप्रतिपादनार्थमाह– बुद्धेरिति ।। ‘एवं ज्ञात्वा’ (४.१५,३२) इत्यतः प्राक्तनेन ग्रन्थेन बुद्धेः परस्य विष्णोर्माहात्म्यमुच्यते । आद्यस्य प्रकरणस्य पूर्वेण सङ्गतिं सूचयितुं बुद्धेः परस्य इत्युक्तम् । ‘श्रेयान्’ (४.३३) इत्यतः पूर्वेण कर्मभेदः । निवृत्तस्य कर्मणोऽन्यस्माद् भेदः । निवृत्त एव कर्मण्युपासनायज्ञादिरूपेण वा भेदः । ज्ञानमाहात्म्यं शेषेणेति ।।
श्रीराघवेन्द्रतीर्थविरचितः
भावदीपः
गीतातात्पर्योक्तयुक्तिमाह– उक्तयोरिति ।। ‘एवं बुद्धेः परं बुद्ध्वा’ इत्यनेन ‘नियतं कुरु कर्म त्वम्’ इत्यादिना चोक्तयोर्ज्ञानकर्मणोरित्यर्थः । ‘कर्मभेदः’ इत्यनूद्य तस्य द्वेधा अर्थमाह– कर्मभेद इत्यादिना ।। उपासनारूपेण यज्ञादिरूपेण चेत्यर्थः ।।
श्रीसुमतीन्द्रतीर्थविरचितः
भावरत्नकोशः
उक्तार्थसङ्गतत्वेनैतदध्यायप्रतिपाद्यमर्थं दर्शयत् तात्पर्यमनुवदति– उक्तयोरिति ।। ‘ज्ञान-कर्मणोर्मध्येऽन्यतरस्य’ इति प्रतीतिनिरासाय ‘उभयोः’ इत्युक्तम् । ‘एवं बुद्धेः परम्’ इति ज्ञानस्य ‘नियतं कुरु कर्म त्वम्’ (३.८) इति कर्मणश्चातीताध्याये उक्तत्वात् किमनेनेत्यतो ‘विशेष’ इत्युक्तम् । स्थितौ अवमर्शेनैतदर्थनिर्णीतौ । अध्यायार्थप्रतिपादनपरमिव प्रतीयमानं भाष्यमन्यथाऽ-वतारयति– इहेति ।। प्रकरणभेदमात्रप्रतिपादनपरं भाष्यं, न पुनरध्यायप्रतिपाद्यार्थोक्तिपरम्, अर्थभेदेन वाक्यभेदापत्तेरिति भावः ।।
परमाहात्म्यम्, कर्मभेदः, ज्ञानमाहात्म्यम् इति प्रमेयत्रयमपि प्रघट्टकभेदेनोच्यत इत्येतद् विवेकेन दर्शयति– एवं ज्ञात्वेतीत्यादिना ।। ‘परस्य’ इत्यनन्तरं शेषोक्तिः– विष्णोरिति ।। आद्यस्य विष्णुमाहात्म्यप्रतिपादनपरस्य । श्रेयानितीति ।। ‘एवं ज्ञात्वा इत्यारभ्य’ इत्युपस्कर्तव्यम् । अन्यस्मात् प्रवृत्तलक्षणात् । ‘दैवमेवापरे’ इत्यादिना निवृत्तकर्मावान्तरभेदाभिधानादाह– निवृत्त एवेति ।। यज्ञादेः फलानभिसन्धाने निवृत्तत्वं ज्ञातव्यम् ।।
श्रीनिवासतीर्थविरचिता
भावदीपिका
प्रणम्य यादवाचार्यगुरूणां पदपङ्कजे ।
चतुर्थाध्यायटीकायाः क्रियते भावदीपिका
।। १ ।।
अत्र पूर्वाध्यायसङ्गतिस्तात्पर्यानुसारेण द्रष्टव्या । अतः साऽत्र नोक्ता, इत्याशयेनाऽह– उक्तयोरिति ।। इह अस्मिन्नध्याये । ननु ‘विष्णोर्माहात्म्यम्’ इत्येव कस्मान्नोक्तम्? इत्यत आह– आद्यस्येति ।। प्रकरणस्येत्यर्थः ।। पूर्वेणेति ।। तृतीयाध्यायान्तोक्तप्रकरणेनेत्यर्थः । अन्यस्मात् प्रवृत्तकर्मणः ।।
उमर्जीकृष्णाचार्यविरचितः
भावप्रकाशः
।। पूर्वेणेति ।। पूर्वाध्यायेनेत्यर्थः । ‘एवं ज्ञात्वे’त्यारभ्य ‘श्रेयानि’त्यतः पूर्वस्मिन् प्रकरणे कैश्चित् श्लोकैः निवृत्तकर्मणोऽन्यवैलक्षण्यमुच्यते । ‘दैवमेवापरे’ इत्यादिभिस्तु निवृत्तकर्मावान्तरभेदः । अतस्तदुभयानुगुण्याय व्याचष्टे– निवृत्तस्य कर्मण इत्यादिना ।।