गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ।। १३ ।।

गामाविश्य च भूतानि धारयाम्यहमोजसा ।

पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ।। १३ ।।

भाष्यम्

गां भूमिम् ।। १३ ।।

भावप्रदीपिका

गोशब्दस्यानेकार्थत्वात् तस्यार्थमाह– गामिति ।

प्रमेयदीपिका

धेनोः आवेशो न भूतधारणे कारणम् इत्यत आह– गामिति ।। १३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु किञ्च गां भूमिम् आविश्य भूतानि सशरीरान् जीवान् ओजसा बलेन स्वसामर्थ्येन धारयामि । किञ्चाहमेव रसात्मकः अमृतरसम् आददानः, रसस्वामी वा सोमः सौम्यत्वात् सोमनामकः, चन्द्रगतत्वाच्च सोमशब्दवाच्यो भूत्वा सर्वा ओषधीः व्रीहियवाद्याः पुष्णामि पुष्टिमतीः स्वादुमतीश्च करोमि ।। १३ ।।

भावदीपिका

‘गामाविश्य’ इत्यत्र गोशब्दो धेनुवाचीत्याशयेनाह– धेनोरिति

।। १३ ।।