तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ।। १६ ।।
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ।। १६ ।।
भाष्यम्
केवलं निष्क्रियम् । ‘एनं केवलमात्मानं निष्क्रियत्वाद् वदन्ति हि’ इति तत्रैव
।। १६ ।।
भावप्रदीपिका
ननु जीवस्य पञ्चकारणानन्तर्गतत्वे तत्रैवम् इति श्लोको न युक्तः । यः केवलमेकमात्मानं कर्तारं पश्यति । न कारणान्तरं पश्यतीत्युक्तेः । अन्यथा केवलपदवैयर्थ्यमित्यत आह– केवलमिति ।। १६ ।।
प्रमेयदीपिका
नन्वेवं जीवस्य कर्मकारणेष्वनन्तर्भावे व्याख्यायमाने तत्रैवं सति इत्युत्तरवाक्ये केवलम् इति न युज्यते । एकाकिनमात्मानं कारणत्वेन मन्यमानस्य निन्दयाऽस्य ससहायस्य कारणत्वप्रतीतेरित्यत आह– केवलमिति ।। नात्र केवलशब्द एकाकिवचनः । किन्तु निष्क्रियत्ववाची । तदुक्तिश्च निन्दोपपाद-नार्थेति भावः । केवलशब्दस्य निष्क्रियार्थत्वं कुतः? इत्यत आह– एनमिति ।। तत्रैव अयास्यश्रुतावेवोक्तम् ।। १६ ।।
भावबोधः
।। निन्दोपपादनार्थमिति ।। स्वातन्त्र्येण क्रियाशून्यस्या-पराधीनकर्तृत्वं विरुद्धमिति तज्ज्ञानी भ्रान्त इति निन्दोपपादकत्वमित्यर्थः ।
भावरत्नकोशः
।। निन्दोपपादनार्थेति ।। स्वातन्त्र्येण क्रियाशून्यस्य पराधीनकर्तृत्वं नास्तीति तज्ज्ञानी भ्रान्त इति निन्दोपपादनार्थेत्यर्थः ।। १६ ।।
गीताक्षरार्थस्तु- कर्तृत्वाभिमानी त्यागी विनिन्द्यते– तत्रैवमिति ।। तत्र कर्मणि एव सति पञ्चानामेव कारणत्वे सति केवलं निष्क्रियं परप्रेरणां विना स्वतः क्रियाविहीनम् आत्मानं स्वात्मानं यः कर्तारं क्रियायां स्वातन्त्रेण विवक्षितं कारकं पश्यति सः अकृतबुद्धित्वात् श्रवणआचार्योपदेशादिना अशिक्षितबुद्धित्वाद् दुर्मतिः अविद्यमानकर्तृत्वमतिमत्तया मिथ्यामतिः न पश्यति तत्त्वज्ञानी न भवतीत्यर्थः ।। १६ ।।
भावदीपिका
।। तदुक्तिः निष्क्रियत्वोक्तिः । निन्दोपपदनार्थेति ।। स्वातन्त्र्येण क्रियाशून्यस्यापराधीनकर्तृत्वं विरुद्धमिति तज्ज्ञानी भ्रान्त इति निन्दोपपादनार्थेत्यर्थः
।। १६ ।।
भावदीपः
।। निन्दोपपादनयेति ।। केवलं निष्क्रियं क्रियाशून्यकर्तृत्व-हीनमिति यावत् । ‘आत्मानं कर्तारं पश्यन्नपि न पश्यति सक्तः’ इति निन्दोपपादनायेत्यर्थः
।। १६ ।।
भावप्रकाशः
।। निन्दोपादनार्थेति ।। स्वातन्त्र्येण क्रियाशून्यस्यापराधीन-कर्तृत्वं नास्तीति तज्ज्ञानी भ्रान्त इति निन्दोपपादनार्थेत्यर्थः ।। १६ ।।