अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानल्पवेनैव वृजिनं सन्तरिष्यसि ।। ३६ ।।

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।

सर्वं ज्ञानल्पवेनैव वृजिनं सन्तरिष्यसि ।। ३६ ।।

भावरत्नकोशः

अपि चेदसीति श्लोकत्रय्या अक्षरार्थस्तु– ‘येन’ इति करणतया निर्दिष्टं ज्ञानं श्लोकत्रयेण स्तूयते । पापेभ्यः पापकृद्भ्यः । अतिशयेन पापकृत् पापकृत्तमोऽसि चेदपि सर्वं वृजिनं पापार्णवं ज्ञानाख्यप्लवेनैव, न त्वितरेण कर्मादिसाधनेन सम्यक् तरिष्यसि ।। ३६ ।।