न हि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्।। ८ ।।

न हि प्रपश्यामि ममापनुद्यात्

यच्छोकमुच्छोषणमिन्द्रियाणाम् ।

अवाप्य भूमावसपत्नमृद्धं

राज्यं सुराणामपि चाधिपत्यम्।। ८ ।।

भावरत्नकोशः

अक्षरार्थस्तु– त्वमेव विचार्य यद् युक्तं तत् कुर्वित्यत उच्यते– न हि प्रपश्यामीति ।। भूमौ शत्रून्निहत्य असपत्नं निष्कण्टकम् ऋद्धं समृद्धं राज्यं सुराणामाधिपत्यं इन्द्रत्वं वा प्राप्याप्यहं ममेन्द्रियाणामुच्छोषणम् अतिशोषकरं शोकं यदपनुद्याद् अपनयेत् तत् कर्म न हि प्रपश्यामि । ‘हिर्हेताववधारणे’ । नैव प्रपश्यामि ।। ८ ।।