यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ।। २१ ।।

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।

दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ।। २१ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– ‘यत्तु’ इत्यत्र सात्त्विकदाने वैलक्षण्यद्योत-नाय तुशब्दः । यत्तु दानं प्रत्युपकारार्थं ‘काले प्रसक्तोऽयं मां प्रत्युपकरिष्यति इत्येवं बुद्ध्या इति यावत् । फलं स्वर्गादिकम् उद्दिश्य वा पुनः दीयते परिक्लिष्टं चित्तखेदयुक्तं यथा भवति तथा तद्राजसमुदाहृतम् शास्त्रेषु ।। २१ ।।