कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ।। ९ ।।

कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः ।

सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ।। ९ ।।

भाष्यम्

ध्येयमाह– कविमिति ।। कविं सर्वज्ञम् । ‘यः सर्वज्ञः’इति श्रुतेः । ‘त्वं कविः सर्ववेदनात्’ इति च ब्राह्मे ।

भावप्रदीपिका

तत्काले स्मर्तव्यो हरिरित्युक्तम् । कीदृशोऽसौ ध्येयः ? इत्याशङ्कानिवारणायोत्तरश्लोकमवतारयति– ध्येयमिति । ‘कवि’शब्देन विवक्षितार्थमाह– कविमिति । भगवतः सार्वज्ञ्ये प्रमाणमाह– य इति । सर्वज्ञः ‘कवि’शब्दार्थ इत्यत्र प्रमाणमाह– त्वमिति ।

प्रमेयदीपिका

उत्तरश्लोकगतविशेषणबलाच्च परमात्मैवायमिति भावेन तत्तात्पर्यमाह– ध्येयमिति ।। आह विशिनष्टीत्यर्थः । ननु कवित्वमन्येषामप्यस्ति । तत्कथं भगवतो विशेषणमित्यत आह– कविमिति ।। परमेश्वरस्य सार्वज्ञे प्रमिते भवेदिदं व्याख्यानम् । तदेव कुतः ? इत्यत आह– त्वमिति ।। सर्वज्ञः कविशब्दार्थ इत्येतत् कुत इत्यत आह– य इति ।। अन्येषां तु सर्वे विमोहितधियः इत्यादिना सार्वज्ञाभावः प्रमितः ।।

भावरत्नकोशः

‘अयं दिव्यं परमपुरुषम् अनुचिन्तयन्’ इति चिन्तना-परपर्याय-ध्यानविषयस्योक्तत्वाद् ‘आह’ इत्यस्य तात्पर्यमाह– विशिनष्टीति । ध्येय उक्तः । कीदृशोऽ-सावित्यपेक्षायाम्, अत्र तस्य विशेषणान्युच्यन्त इत्यतो न पुनरुक्तिर्दोष इति भावः । विशेषणमिति । तस्येतरव्यावृत्तस्वभावत्वादिति भावः । तदेव सार्वज्ञमेव । ‘वेदनात्’ इति भाष्यपदस्य ‘ज्ञानात्’ इत्यर्थः । कवित्वमन्येषां ब्रह्मादीनामप्यस्तीति कृतचोद्यं परिहर्तुमाह– अन्येषां त्विति । एकादशस्कन्धे ‘सर्वे विमोहितधियस्तव माययेमे ब्रह्मादयस्तनुभृतो बहिरर्थभावाः’ इति प्रमाणमस्ति । यत्र च ब्रह्मादीनां विमोहितधीत्वम्, ब्रह्मवायुसरस्वतीभारतीनाम्–

सर्वेषां ब्रह्मपदवीयोग्यानां पूर्वमेव तु ।

अभावस्त्वापरोक्षस्य मोहो ज्ञानस्य भण्यते ।।’

इति भगवत्पादव्याख्यानात् शतजन्मभ्यः पूर्वमपरोक्षज्ञानाभाववत्त्वम्, रुद्रादीनां तु ‘रुद्राद्या-स्तन्वभीमानाद् बहिरर्थयुजस्तथा’ इति वचनाद् गौणमेव विमोहितधीत्वम् । तत एवोभयेषामपि अनादितः अपरोक्षज्ञानाभावलक्षणसार्वज्ञाभावः प्रमाणसिद्ध इति युक्तं कवित्वस्य विशेषणत्वमिति भावः । अत्र श्लोके ज्ञातव्यविशेषस्तत्तात्पर्यनिर्णयं व्याकुर्वद्भिः सुधीन्द्रतीर्थश्रीमच्चरणैर्भागव-तोपासनायां स्पष्टीकृतः ।।

भावदीपिका

।। अयमिति ।। दिव्य इत्यर्थः । इत्यादिनेति ।। ‘सर्वे विमोहितधियस्तव माययेमे ब्रह्मादयस्तनुभृतो बहिरर्थभावाः’ इत्येकादशस्कन्धे भगवन्तं प्रत्युद्धववचनम् ।।

भावप्रकाशः

परमपुरुषं चिन्तयन् इति ध्येयस्योक्तत्वादाह– विशिनष्टीत्यर्थ इति ।। कवित्वमन्येषामप्यस्तीत्युक्तदोषं परिहरति– अन्येषां त्विति ।।

Load More