इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ।। ६७ ।।
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ।। ६७ ।।
भाष्यम्
कथमयुक्तस्य भावना न भवति? आह– इन्द्रियाणामिति ।। अनुविधीयते क्रियते । ननु ईश्वरेण इन्द्रियाणाम् अनु बुद्धिर्ज्ञानमिति वक्ष्यमाणत्वात् । प्रज्ञां प्रज्ञानम् । उत्पत्स्यदपि निवारयतीत्यर्थः । उत्पन्नस्याप्यभिभवो भवति
।। ६७ ।।
भावप्रदीपिका
ननु चित्तनिरोधं विनाऽपि घटादिभावनादर्शनात् कथं नायुक्तस्य भावना ? इत्याशङ्क्य, उत्तरश्लोकमवतारयति–कथमिति ।। ‘विधीयते’ इत्यस्य कर्तृसापेक्षत्वात् तन्निर्देशपूर्वं श्लोकं व्याचष्टे– अनुविधीयत इति ।। कुतो न जीवः कर्ता इत्यत आह– बुद्धिरिति ।। ‘प्रज्ञा’शब्दविवक्षितार्थमाह– प्रज्ञामिति ।। चित्तनिग्रहाभावे ज्ञानमेव नास्ति, कुतो भावना ? इत्यर्थः । ज्ञानानुत्पत्तौ कस्य हरणम्? इत्यत आह– उत्पत्स्यदिति ।। तर्हि उत्पन्नपरोक्षज्ञानानां नापेक्षितश्चित्तनिरोध इत्यत आह– उत्पन्नस्येति ।। ६७ ।।
प्रमेयदीपिका
एकेनैव श्लोकेन प्रमेयस्य मुद्रितत्वात् ‘श्लोकाभ्याम्’ (२.६६.गी.भा.) इति किमर्थमुक्तम् ? इत्यत आह– कथमिति ।। कृतश्रवणमननस्य ध्यानोपपत्तेरिति भावः । न भवति ‘इत्याशङ्क्य’ इति शेषः । अनुविधानं सदृशभवनम् । तदत्रासङ्गतम् । कर्ता चात्र जीव इति प्रतीयते। अत आह– अनुविधीयत इति ।। विपूर्वो दधातिः करोतीत्यर्थे वर्तते । कर्ता चात्रेश्वर एवेत्यर्थः । अत्रानुः पृष्ठभावित्वार्थो न लक्षणाद्यर्थ इति कर्मप्रवचनीयो न भवति ।।
‘ननु’ इति सम्प्रतिपत्तिरुक्ता । सा कुतः? इत्यत आह– बुद्धिरिति ।। ग्रहणशक्तिः प्रज्ञा । तद्ग्रहणमत्रायुक्तमित्यत आह– प्रज्ञामिति ।। परोक्षनिश्चयम् । यस्य प्रज्ञानं नोत्पन्नं तस्य युक्त्यभावः किं करिष्यति? विद्यमानस्य हि हरणमित्यत आह– उत्पत्स्यदिति ।। तर्ह्युत्पन्नापरोक्षज्ञानस्य युक्त्यभावोऽकिञ्चित्कर इत्यत आह– उत्पन्नस्यापीति ।। चित्त-निरोधरहितश्रवणमनने अपि न ध्यानोपयोगिनी तत्त्वनिश्चयवेदार्थनियमौ कुरुत इति भावः
।। ६७ ।।
भावबोधः
।। कर्मप्रवचनीयो नेति ।। तथा च ‘कर्मप्रवचनीययुक्ते द्वितीया’ इति द्वितीयाप्राप्तेरभावात् ‘इन्द्रियाणि’ इति न द्वितीयेति भावः । अयुक्तमिति ।। प्रकृतानुप-योगादिति भावः ।। ६७ ।।
भावदीपः
मुद्रितत्वात् पूर्णत्वादित्यर्थः ।। ननु ‘लक्षणेत्थम्भूताख्यान-भागवीप्सासु प्रतिपर्यनवः’ (पा.सू.१.४.९०) इति सूत्रेण ‘अनुर्लक्षणे’(पा.सू.१.४.८६) इति सूत्रेण वा लक्षणाद्यर्थस्यानुशब्दस्य कर्मप्रवचनीयसञ्ज्ञायां ‘कर्मप्रवचनीययुक्ते द्वितीया’ (पा.सू.२.३.११) इति सूत्रेण ‘जपमनु प्रावर्षत्’ इत्यादाविव ‘इन्द्रियाण्यनु विधीयते’ इति द्वितीयया भाव्यमित्यत आह– अत्रानुरिति ।। ‘ननु’ इत्यव्ययशङ्कालिङ्गत्वधीनिरासा-येश्वरेणेन्द्रियाणां पृष्ठभावितया मनः क्रियते । ‘ननु’ इति अविप्रतिपत्तिरुक्तेत्यर्थः । प्रसिद्धि-वाच्यत्र ननुशब्द इति भावः ।। बुद्धिरितीति ।। ‘बुद्धिर्ज्ज्ञानमसम्मोहः’ इत्याद्युक्ताः ‘मत्त एव भवन्ति’ इति भगवतैव दशमाध्याये बुद्ध्यादेः सर्वस्य स्वाधीनत्वोक्तेरिति भावः ।। युक्त्यभाव इति ।। चित्तनिरोधाभावः इत्यर्थः।। तन्निर्धारणार्थनियम इति ।। सूत्रपदयोरेकदेशार्थ-कथनेनानुवादोऽयम् ।। तत्वनिश्चयवेदार्थनियमाविति ।। अयमस्य वाक्यस्यार्थ इति तत्वनिश्चयः । अयमेवास्यार्थो नान्य इति निश्चयो अर्थनियमः। तावुभौ श्रवणमननफलत्वेन ध्यानोपयोगित्वेन सूत्रोक्तौ श्रवणमनने कुरुत इत्यर्थः ।। ६७ ।।
वाक्यार्थप्रदीपः
।। करोत्यर्थ इति ।। तत्रैव प्रयोगप्राचुर्यादिति भावः । ननु कर्मप्रवचनीयानुशब्दयोगे ‘कर्मप्रवचनीययुक्ते द्वितीया’ इति ‘वृक्षमनु विद्येतते’ इत्यादाविव ‘इन्द्रियाण्यनु मनो विधीयते’ इति द्वितीययैव भाव्यम् । इन्द्रियाणामन्विति षष्ठी तु कथमित्यत आह– अत्रेति ।। न लक्षणाद्यर्थ इति ।। आदिपदेनेत्थम्भूताख्यानभागवीप्सानां परिग्रहः । ‘लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रति पर्यनवः’ (पा.सू.१.४.९०) इति लक्षणाद्यर्थकस्यै-वानोः कर्मप्रवचनीयसंज्ञविधानादित्यर्थः । अत्र लक्ष्यते येन तल्लक्षणं चिह्नंं ज्ञापकम् । कञ्चि-त्प्रकारं प्राप्त इत्थम्भूतः, तस्याख्यानम् इत्थम्भूताख्यानं, स्वीक्रियमाणः अंशो भागः, द्रव्यगुणक्रियाभिः पदार्थानां प्रयोक्तुर्व्याप्तुम् इच्छा वीप्सा एतेष्वर्थेषु प्रति परि अनु इत्येते कर्मप्रवचनीयसंज्ञा भवन्ति । एतेषां लक्षणादीनां विभक्तिसमीपादीनाम् अव्ययार्थत्ववत् न प्रत्याद्यर्थत्वम् । किं तर्हि? संज्ञायाः प्रत्यादीनां विषयत्वेन निर्दिष्टत्वमेवेति सूत्रार्थः । ततश्च हरिं प्रति प्रविशते भक्तिः, वृक्षं प्रति विद्योतते विद्युत् इत्यादौ हरिवृक्षादीनां भक्तिविद्योेतनादि-लक्षणत्वेन कर्मप्रवचनीयत्वाद् युुक्ता द्वितीया ।। अत्र च हरिः लक्षणं, प्रकाशमाना भक्तिः लक्ष्या । वृक्षो लक्षणम् । विद्योतमाना विद्युत् लक्ष्या । ततश्च हरिं प्राप्य भक्तिः प्रकाशते । वृक्षं प्राप्य विद्योतते विद्युदिति प्राप्तिक्रियाजनितो लक्ष्यलक्षणभावः प्रत्यादिभिः द्योत्यत इति युक्तो लक्ष्यलक्षणभावः ।।
ननु चात्रावश्यमनोर्ग्रहणं कर्तव्यम् । इत्थम्भूताख्यानादिषु यथा स्याल्लक्षणग्रहणं च प्रत्याद्यर्थम् । अतोऽर्थान्तरसंज्ञान्तरसाधारणत्वात् ।अनेनैव लक्षणार्थस्यानोः कर्मप्रवचनीय-संज्ञासिद्धौे ‘अनुर्लक्षणे’ इति सूत्रवैयर्थ्यादिति चेन्न । हेतुभूतलक्षणार्थस्यानोः कर्मप्रवचनीय-संज्ञाविधानार्थतया सार्र्थकत्वोपपत्तेः ।।
ननु च तत्रतत्र लक्षणग्रहणमेव क्रियते । तद्यदि हेतुर्लक्षणं न भवति। ‘अनुर्लक्षणे’ इत्यत्रापि न गृह्येत । अथ भवति लक्षणेत्थभूताख्यानेत्यत्रापि गृह्येतेति पुनरपि नार्र्थ एनेति चेत् -सत्यम् । लक्ष्यते येन तल्लक्षणं चिह्नं ज्ञापकम् । कारकमपि कार्यविशेषावगतिहेतुत्वात् लक्षणं भवत्येव । उक्तं च भाष्ये लक्षणेन हेतुरपि व्याप्तः । नावश्यं तदेव लक्षणम् । येन पुनर्लक्ष्यते यः सकृदपि निमित्तत्वाय कल्पते तदपि लक्षणम् । किन्तु येन नाप्राप्तिन्यायेन कर्मप्रवचनीययुक्तेपि द्वितीया, षष्ठ्या एवापवादः । ततश्च ‘लक्षणेत्थम्भूत’ इति अनोर्लक्षणे कर्मप्रवचनीयसंज्ञायाः आवश्यको हेयो हेतुर्न भवति । वृक्षमनु विद्योतते विद्युदिति हेतुतृतीयायाः अवकाशात् । धनेन कुलमिति हेतुभूते तु लक्षणे उभयप्रसङ्गे परत्वात् तृतीया स्यात्। तामपि बाधित्वा द्वितीयैव स्यादित्यर्थवत्सूत्रम् ।।
ततश्चायं निष्कर्षः ।। जपमनु प्रावर्षदित्यादौ, वृक्षमनु विद्योतते विद्युत् इत्यादौ च यत्र हेतुरूपलक्षणार्थत्वम् । यत्र च भक्तो विष्णुमनु इत्यादौ इत्थम्भूताख्यानार्थत्वम् । लक्ष्मीः हरिमनु इत्यादौ भागार्थत्वम् । भूतं भूतमनु इत्यादौ वीप्सार्थत्वम् । तत्रैवानोः कर्मप्रवचनीय-त्वम् । नतु पृष्टभावित्वार्थस्यापीति न तद्योगे कर्मप्रवचनीययुक्ते द्वितीयेति द्वितीयाप्राप्तिरिति ।।
भावरत्नकोशः
मुद्रितत्वात् सङ्गृहीतत्वात् । परिपूर्णत्वादित्यर्थः । ‘न भवति’ इति भाष्यमनूद्य अनन्तरं शेषमाह– न भवतीति ।। अत्र मनसोऽनुविधानक्रियायाम् । ‘अस्य ’ इति जीवस्यैव परामर्शादिति भावः । ननु इन्द्रियाणामन्विति कथम् ? यावता ‘लक्षणे-त्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः’ इत्यनुशब्दस्य कर्मप्रवचनीयसञ्ज्ञायां ‘कर्मप्रवचनीय-युक्ते द्वितीया’ इति द्वितीयाविभक्तिरनुशिष्टेति चेत्, नासौ लक्षणेत्थम्भूताख्यानाद्यर्थकः । येन कर्मप्रवचनीयतया द्वितीया स्यात् । किन्तु पृष्ठभावित्वार्थ इति षष्ठ्युपपत्तिरिति भावेनाह– अत्रानुरिति ।। सम्प्रतिपत्तिरिति ।। ईश्वरेणेन्द्रियाणां पृष्ठभावि मनः क्रियते नन्विति सम्प्रतिपत्तिरित्यर्थः । इन्द्रियाणां विषयैः सन्निकर्षे मनोऽपि तत्पृष्ठगामि यथा स्यात् तथेश्वर एव करोतीति भावः । ‘बुद्धिर्ज्ञानमसम्मोहः’ इत्याद्युक्त्वा ‘भवन्ति भावा भूतानां मत्त एव पृथग्विधाः’ इति भगवतैव बुद्ध्यादेस्तद्धर्मस्य च दशमे स्वाधीनस्य विभावयिष्यमाणत्वादिति भाष्यार्थः स्फुटत्वान्नोक्तः । अयुक्तमिति।। यदा बाह्येन्द्रियाणि स्वस्वविषयैस्सन्निकृष्टानि, मनश्च तद्द्वारा तत्र प्रवर्तते तदा मनसो विषयग्रहणशक्तिरेवानुभूयत इति तद्धरणकथनम-युक्तमित्यर्थः ।।
ननु प्रज्ञाशब्दस्यापरोक्षज्ञानार्थत्वे हरणवचनमयुक्तम् । ‘नेक्षा क्वचन बाध्यते’ इत्युक्तेरित्यत आह– परोक्षनिश्चयमिति ।। उत्पत्स्यत् उत्पत्स्यमानम् । कृतश्रवणमननस्य ध्यानोपपत्ते-रित्याशङ्कायाः परिहाराय भाष्यभावमाह– चित्तनिरोधेति ।। तत्त्वनिश्चयवेदार्थनियमाविति ।। अयमस्य वाक्यस्यार्थ इति निश्चयमुत्पादयच्छ्रवणं ध्यानाङ्गम् । अयमेवास्य वाक्यस्यार्थो नान्य इति वेदार्थनिर्धारणरूपनियममुपजनयन्मननमपि ध्यानोपकारीति स्थितिः । यस्य तु न चित्त-निरोधः तस्य कृते अपि श्रवणमनने ध्यानानुकूले न भवतः । ज्ञानात् पूर्वं कृते ज्ञानमेव ध्यानद्वारा नोत्पादयेताम् । उत्पन्नस्यापि ज्ञानस्याभिभवमापादयेतामित्यर्थः ।। ६७ ।।
गीताक्षरार्थस्तु– यदुक्तमयुक्तस्य भावना न भवतीति तदयुक्तम् । कृतश्रवणमननस्य ध्यानोपपत्तेरित्यत उक्तम्– इन्द्रियाणामिति ।। स्वैरं विषयान् प्रति चरतां गच्छतामिन्द्रिया-णाम् । अनुरत्र पृष्ठभावित्वार्थो न लक्षणाद्यर्थ इति न कर्मप्रवचनीयो भवतीति न द्वितीया । विधीयते विपूर्वो दधातिः करोत्यर्थे । इन्द्रियाणां पृष्ठभावितयेश्वरेण क्रियत इति यत् तदिन्द्रियानुसारितया मनसः करणमीश्वरकर्तृकम् । यन्मनोऽनु विधीयते तन्मन इति वा । अस्य पुंसः प्रज्ञाम् अपरोक्षनिश्चयं हरति उत्पत्स्यमानां निवारयति । उत्पन्नामप्यभिभवति । चित्तनिरोधरहितस्य श्रवणमनने अपि न ध्यानोपयोगिनी तत्त्वनिश्चयवेदार्थनियमौ न कुरुत इति भावः ।। ६७ ।।
भावदीपिका
मुद्रितत्वात् समाप्तत्वादिति यावत् । साधनाभावादेव ध्यानं न भवतीति चेत्, तत्राऽह कृतेति ।। युक्त्यभावेऽपीति शेषः ।। कर्ता चेति ।। केनानुविधीयत इति शङ्कायां कर्तृत्वेन जीवः प्रतीयत इत्यर्थः । ननु धाञः पोषणार्थत्वेन क्रियत इति व्याख्यानं कथमित्यत आह– विपूर्व इति ।। नन्विन्द्रियाणामन्वित्ययुक्तम् । ‘अनुर्लक्षणे’ इति सूत्रविहितस्य लक्षणार्थकस्यानोः ‘लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनव’ इति कर्मप्रवचनीयसञ्ज्ञायां ‘कर्मप्रवचनीययुक्ते द्वितीया’ इति द्वितीयायाम् ‘इन्द्रियाण्यनु’ इति स्यादित्यत आह– अत्रानुरिति ।। पृष्ठभावित्वार्थ इति ।। तथाचेन्द्रियाणामनु इन्द्रियाणां पृष्ठतः मन ईश्वरेण विधीयते क्रियत इत्यर्थः । इन्द्रियाणां विषयान् प्रति चरणे तदनु मनोऽपि यथा गच्छेत् तथेश्वरः करोतीति यावत् । न भवति तथाचेन्द्रियाणीति कर्मप्रवचनीययुक्ते द्वितीया न भवतीत्यर्थः ।। बुद्धिरितीति ।। ‘बुद्धिर्ज्ञानमसम्मोहः’ इत्याद्युक्त्वा ‘भवन्ति भावा भूतानां मत्त एव पृथग्विधा’ इत्युक्तत्वादिन्द्रियाणामनु मनश्चरणरूपव्यापारस्यापीश्वराधीनत्वाव-गमादिति भावः ।। अयुक्तमिति ।। प्रकृतानुपयोगादिति भावः ।।
ननु कथमयुक्तस्य भावना न भवति ? श्रवणमननाभ्यां तदुपपत्तेरिति शङ्कितस्य किमुत्तरमनेन जातमित्यत आह– चित्तेत्यादिना ।। श्रवणेन ह्यज्ञाननिवृत्तौ सत्यां तत्त्वनिश्चयः, मननेन तु संशयविपर्ययनिवृत्तौ सत्यामयमेव वेदार्थ इति नियमे, पश्चाद् ध्यानं भवति । यथोक्तम् ‘तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्ध फलम्’ इति । तथा
‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।
संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’
इति चोक्तम् । अतश्चित्तनिरोधरहितश्रवणं ध्यानोपयोगिनं तत्त्वनिश्चयं न करोति । तथा चित्तनिरोधरहितमननमपि न ध्यानोपयोगिनं वेदार्थनियमं करोतीति ‘नचायुक्तस्य भावना’ इत्युक्तं युक्तमिति भावः ।। ६७ ।।
भावप्रकाशः
।। लक्षणाद्यर्थ इति ।। आदिपदेनेत्थम्भूताख्यानादेः ग्रहणम् । न भवतीति ।। तथा च कर्मप्रवचनीययुक्ते द्वितीयेति द्वितीयाप्राप्तेरभावात् षष्ठ्युपपत्तिरिति भावः । अयुक्तमिति ।। यदा बाह्येन्द्रियाणि विषयसन्निकृष्टानि मनश्च तद्द्वारा तत्र प्रवर्तते तदा मनसो विषयग्रहणशक्त्यनुकूलत्वादिति भावः । तत्त्वनिश्चयेति ।। यथाक्रमं श्रवणमननसाध्यौ ज्ञानविशेषावेतौ ।। ६७ ।।