यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ।। ३५ ।।
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ।। ३५ ।।
भाष्यम्
येन ज्ञानेन मयि आत्मभूते सर्वभूतानि अथोे तस्मादेव मोहनाशात् पश्यसि ।। ३५ ।।
भावप्रदीपिका
येन मोहेन मयि त्वयि च भूतानि पश्यसीत्यथशब्दो मन्त्र-भ्रान्तिं पराकर्तुं ‘येन भूतानि’ इति श्लोकशेषं व्याचष्टे– येनेति ।। ३५ ।।
भावप्रकाशिका
‘यत्’ इत्यादिश्लोकोत्तरार्धं व्याचष्टे– येनेति ।। आत्मनीत्युक्ते त्वयीति शङ्का स्यात् । तद्व्यावृत्त्यर्थं– ‘मयि’ इति ।। न च त्वदादिवदहं परिच्छिन्न इत्येतदर्थम् ‘आत्मनि’ इति । एतदेवाह– मय्यात्मभूत इति ।। ३५ ।।
प्रमेयदीपिका
‘येन भूतानि’ इत्यस्य ‘येन मोहेन सर्वाणि भूतान्यात्मनि स्वस्मिन्नथो मयि च द्रक्ष्यसि’ इत्यन्यथाप्रतीतिनिरासार्थमाह – येनेति ।। आत्मभूते सर्वान्तर्यामिणि । ‘द्रक्ष्यसि’ इत्येतत् ‘पश्यसि’ इति व्याख्यातमिदानीमपि ज्ञान्येवेति ज्ञापयितुम् ।। ३५ ।।
भावरत्नकोशः
‘यज्ज्ञात्वा न पुनर्मोहम्’ इति प्रकृतो मोहो यच्छब्देन विशेष्यत इति भावेन उक्तम्– येन मोहेनेति ।। ‘अथो अपि’ इति सङ्करेण भाषणादाह– अथो मयि चेति ।। ‘आत्मनि’ इत्युक्ते ‘त्वयि’ इति शङ्का स्यात् । तद्व्यावृत्त्यर्थम्– मयीति ।। नच त्वदादिरिवाहं परिच्छिन्न इति ज्ञापयितुम् ‘आत्मनि’ इत्युक्तमित्यभिप्रेत्याह ‘मय्यात्मभूत इति’ इति भाष्यावतारस्य प्राचीनटीकात अवगमात् तदर्थमाह– आत्मभूते सर्वान्तर्यामिणीति ।। ननु ‘द्रक्ष्यसि’ इत्यत्र व्यत्ययमाश्रित्य भविष्यदर्थकऌटः ‘पश्यसि’ इति वर्तमानार्थकलटा व्याख्यानं किमर्थमित्यत आह– द्रक्ष्यसीत्येतदिति ।। इति ज्ञापयितुमिति ।। व्याख्यानमिति सम्बन्धः ।। ३५ ।।
अयमक्षरार्थः– ज्ञानं स्तूयते– यदिति ।। यत् मया वक्ष्यमाणं ज्ञात्वा पुनः आद्याध्यायोक्तदिशा बन्धुविषयमोहं न यास्यसि । हे पाण्डव येन ज्ञानेन अथो मोहनाशाद्धेतोः आत्मनि सर्वान्तर्यामिणि मयि सर्वभूतानि अविशेषेण कार्त्स्न्येन द्रक्ष्यसि मदाधारतया सर्वाणि भूतानि तिष्ठन्तीति दर्शनवान् भविष्यसि । ‘पश्यसि’ इति भाष्यस्य तात्पर्यमुक्तं टीकायाम् । तद्विद्धीत्यन्वय इति ।। ३५ ।।
भावदीपिका
ननु गीतायां ‘द्रक्ष्यसि’ इति भविष्यदर्थकलृट्प्रत्ययान्तस्य ‘पश्यसि’ इति वर्तमानार्थकलट्-प्रत्ययान्तपदेन व्याख्यानं कुतः कृतम्? इत्यत आह – द्रक्ष्यसीत्येतदिति ।। ३५ ।।
भावप्रकाशः
ननु व्यत्ययमाश्रित्य द्रक्ष्यसीति भविष्यदर्थलृटः पश्यसीति वर्तमानार्थलटा व्याख्यानं किमर्थमित्यत आह – इदानीमपीति ।। ३५ ।।