कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ।। २० ।।
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ।। २० ।।
भाष्यम्
प्रकृत्या स्वभावेन । ‘स्वभावः प्रकृतिश्चैव संस्कारो वासनेति च’ इत्यभिधानात् ।। २० ।।
भावप्रदीपिका
प्रकृतेः सर्वत्रैक्येन कथं स्वया इति प्रातिस्विकत्वोक्तिः ? इत्यत आह– प्रकृत्येति ।। २० ।।
भावप्रकाशिका
ननु संसारनिवृत्तये हरिमेव प्रपद्यमाना अप्यर्थाद्यर्थं देवतान्तरं भजेयुः । को दोष इत्यपेक्षायाम् एवं कामशः शरण्या एव किं न स्युरिति तत्प्रपद्येरन् इत्यभि-प्राय उत्तरश्लोके शिवशक्त्यादिदेवतान्तरशरणागतिस्वभाव एव केषाञ्चित्, न माय्युक्तप्रकारेण संस्कारमात्रमिति भावेन ‘प्रकृत्या’ इति पदं सप्रमाणकं व्याचष्टे– प्रकृत्येति । ननु भगवतः स्ववशीकृतसर्वस्वभावत्वात् कथं तं विहाय केषाञ्चित् स्वभावेनापि देवतान्तरशरणागति-स्तत्फलं चेत्याकाङ्क्षायां भगवानेव तत्सर्वं करोति । तथाऽपीज्यानामन्तवत्त्वात् तत्प्राप्तिर्नाम फलमपि अन्तवदेव, तदपि भगवद्विषयाल्पमेधसां न त्वमेधसां वेत्यर्थः ।। २० ।।
प्रमेयदीपिका
ननु मूलप्रकृतेः सर्वत्रैकत्वात् कथं ‘स्वया’ इति प्रातिस्विकत्व- मुच्यते? इत्यत आह– प्रकृत्येति ।। ‘स्वभाव एव’ इत्येवशब्दसम्बन्धः ।। २० ।।
भावरत्नकोशः
।। एकत्वादिति ।। ‘अजामेकां लोहितशुक्लकृष्णाम्’ ‘प्रकृती द्वे तु देवस्य जडा चैवाजडा तथा । अवरा सा जडा’ इत्यादौ एकशब्दश्रवणाद्, एकवचनश्रवणाच्च ‘भिन्ना प्रकृतिरष्टधा’ (७.४) इति तु ‘कार्यरूपेणाष्टधा भिन्ना’ इति व्याख्यातमिति भावः । एवशब्देति । ‘प्रकृतिः संस्कारो वासनेति च स्वभाव एवाभिधीयते’ इत्येवशब्दसम्बन्ध इत्यर्थः ।।
‘कामैस्तैस्तैः’ इतिश्लोकाक्षरार्थस्तु- भगवतः सर्वकारणत्वादिमाहात्म्यज्ञानेन तं प्रपद्यमानो दुर्लभ इत्येतदुपपाद्यते– कामैरिति । तैस्तैः पुत्रकलत्रपशुस्वर्गादिविषयैः कामैः अभिलाषैः हृतज्ञानाः स्वया स्वात्मीयया प्रातिस्विक्या प्रकृत्या स्वभावेन नियताः नियमिताः सन्तस्तद्देवताराधने यो यो नियमः, तं तमास्थाय कृत्वेति यावत्, अन्यदेवताः प्रपद्यन्ते ।। २० ।।
भावदीपिका
।। एवशब्देति ।। तथा च प्रकृतिसंस्कारवासनाशब्दैः स्वाभाव एवोच्यत इत्यर्थः ।। २० ।।