नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ।। १८ ।।
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ।। १८ ।।
भाष्यम्
तस्य ‘कर्मकाले वक्तव्योऽहम्’ इति कञ्चित् प्रत्युक्त्वा तत्कृतावात्म-रत्यधिकः समो वाऽर्थो नास्ति ।।
भावप्रदीपिका
ज्ञानिनोऽपि कर्मकरणेनाऽऽनन्दवृद्धेरसम्प्रज्ञातसमाधिनाऽपि तदनुष्ठेयमित्याशङ्क्य उत्तरत्वेनोत्तरश्लोकं व्याचष्टे– तस्येति ।।
भावप्रकाशिका
ननु कथं तस्य कार्यं न विद्यते ? करणे मुक्तावानन्द-वृद्धिः, अकरणे च तदभावः प्रत्यवायो वाऽऽनन्दह्रासकर इति । अतोऽसावसम्प्रज्ञात-समाधिः प्राग्विवक्षिता स्यात् । ‘कर्मकालोऽयमिति त्वयाऽहं वक्तव्यः’ इति कञ्चित्प्रत्यु-क्तवा समाधिं कुर्वंस्तद्वचनाद् उत्थाय कर्म कुर्यादित्याशङ्क्योत्तरत्वेनोत्तरार्धं च व्याचष्टे– तस्येति ।। ‘कश्चन’ इति पदं ‘कृतेनार्थः’ इत्यत्राप्यभिकृष्य व्याचष्टे– अधिकः समो वेति ।। आत्मरतेर्वाऽऽत्मरत्या वा यावत्प्रयोजनम्, तदधिकं तत्समं वा न कर्मणेत्यर्थः । न कश्चिदिति आनन्दह्रासकरो नरकाद्यापादकश्च नेत्यर्थः ।
प्रमेयदीपिका
यद्ययं कार्याभावो न ज्ञानिमात्रस्य किन्त्वसम्प्रज्ञातसमाधि-स्थस्यैव तर्हि ‘नैव तस्य कृतेनार्थः’ इत्युत्तरं वाक्यं न सङ्गच्छते । असम्प्रज्ञातसमाधेः करणस्यैवाभावेन तत्प्रयोजनाभावकथनस्यैवायोगात् । ज्ञानिनस्तु करणसम्भवेन तत्प्रयोजन प्रतिषेधोेपपत्तेरिति चेन्न । तर्ह्यतीव मनस्समाधानमपि न कार्यमित्याक्षेपस्य ‘तस्य कार्यं न विद्यते’ इत्युत्तरं कस्मादुक्तम्? कर्मकृतिकाले त्वयाऽहमुद्बोधनीय इति कञ्चित् प्रत्युक्त्वा समाहितः, तेन योगशास्त्रोदितोपायैरुद्बोधितः कर्म करोतीति कुतो नोक्तम्? इत्याशङ्का-निरासायेदमेवमुच्यत इत्यभिप्रेत्य व्याचष्टे– तस्येति ।। तस्य असम्प्रज्ञातसमाधिस्थस्य । अर्थो नास्तीति सम्बन्धः। उक्त्वा ‘उद्बुद्धस्य’ इति शेषः । एवं तर्हि तस्यैव महत्सुखत्वात् इत्याद्युक्तिविरोध इत्यत उक्तम्– आत्मेति ।। समो वा आत्मरत्या । समप्रतिषेधः कैमुत्यार्थः । नतु समव्ययफलं कर्मानुष्ठीयते ।।
भावबोधः
ननु कर्मादिकृतौ अर्थो नास्तीति कथम् ? तस्यैव महत्सुखत्वात् तेषां तेषामप्युपासनादिफलस्य साधितत्वादित्यादिना द्वितीयाध्याये श्रवणादेरर्चनादिकर्मणः फलस्योक्तत्वादित्याशङ्क्य परिहरति – एवं तर्हीति ।। नन्वधिकफलनिषेधस्यैव समाध्यपरि-त्यागहेतुत्वम् । कर्मकरणेनाधिकफलसद्भावे समाधिपरित्यागस्यावश्यकत्वात् । नतु समफल-निषेधस्य । समाधिकर्मणोः समफलकत्वे पूर्वप्राप्तसमाधिपरित्यागायोगात् । ततश्च कथं समो वेति तन्निषेधः? इत्यत आह– समप्रतिषेध इति ।। तदुपपादयति– न त्विति ।। ‘समव्यय-फलम्’ इति हेत्वर्थगर्भं विशेषणम् । समफलसत्त्वेऽपि समाधित्यागेन कर्मकरणे तत्समसमाधि-फलहानेन समव्ययफलत्वात् । कर्म न क्रियत इति समाध्यत्यागस्यान्यथासिद्धत्वान्न तत्र समप्रतिषेधो हेतुरिति भावः । अत एव वक्ष्यति ‘अधिकस्यैव पूर्वपरित्यागोपयोगित्वात्’ इति ।
भावदीपः
क्त्वाश्रुतिनिर्वाहाय समानकर्तृकक्रियान्तरमाह– उद्बुद्धस्येति शेष इति ।। एवं तर्हीति ।। कर्मकृतावर्थो नास्तीति पक्षे– ‘यदा ते मोहकलिलम्’ (२.५२) इति श्लोके ‘तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च’ (२.५२) इत्यस्य ‘निर्वेदं नितरां लाभं नतु वैराग्यम्’ इति व्याख्यावसरे ‘तस्यैव भगवच्छ्रवणादिकर्मण एव महत्सुखत्वात् तदेव ज्ञानिनाऽप्यवश्यं कार्यम्’ इत्युक्तेः, तद्विरोध इत्यर्थः ।। बुद्ध्या विभज्यानुषङ्गेणान्वयमाह– समो वा आत्मरत्येति ।। अप्रसक्तनिषेधदोषनिरासायाऽह– समप्रतिषेध इति ।। अप्रसक्ति-मेवाह– नतु समेति ।। व्ययपदं दृष्टान्तार्थम् ।। उक्तविरोधादिति ।। ‘मा भूदल्पस्य’ इत्यादिना उक्तविरोधात् इत्यर्थः ।।
भावरत्नकोशः
।। अयम् ‘तस्य कार्यं न विद्यते’ इत्यत्रोक्तः । ‘यदीयं कार्याभावोक्तिः’ इत्यपि क्वचित् पाठः । असङ्गतिमुपपादयति– असम्प्रज्ञातेति ।। करणस्य कर्मानुष्ठानस्य । तत्प्रयोजनेति ।। कर्मकरणप्रयोजनेत्यर्थः । एवं सिद्धान्तं दूषयित्वा पूर्वपक्षी स्वमते तत्सङ्गतिं दर्शयति– ज्ञानिनस्त्विति ।। ‘इति चेत्, न’ इत्यनन्तरं ‘यतः’ इति शेषः । तेन ‘पञ्चम्यभावात् नेति साध्यान्वयानुपपत्तिः’ इति चोद्यं परास्तम् । कर्मकृतिकाले सन्ध्यावन्दनश्रवणमननादिकर्मानुष्ठानसमये । समाहितः समाधिं प्राप्तः । तेन वचनकर्मणा पुरुषेण । भेरीताडनादिनाऽपि बाह्यप्रज्ञाऽभावे ह्यसम्प्रज्ञातसमाधिस्थत्वमिति कथं तस्योद्बोधः ? इत्यत उक्तम्– योगशास्त्रोदितोपायैरिति ।। अवयवविशेषस्पर्शादिः समाधिस्थस्याप्युद्बोधोपाय इति योगशास्त्र एवाभिधानात् तदुक्तोपायैः सम्भवत्युद्बोध इति भावः । इदमेवमिति ।। इदं समाधानम् एवं करणादौ प्रयोजनं नास्तीति प्रकारेणोच्यत इत्यर्थः । यद्वा इदं ‘नैव तस्य’ इति वाक्यम् । एवं ‘तत्कृतावात्मरत्यधिकः समो वाऽर्थो नास्ति’ इति भाष्यभाषितप्रकारेणोच्यत इति व्याख्येयम् । व्याचष्टे ‘नैव तस्य कृतेनार्थः’ इति श्लोकमिति शेषः ।
समानकर्तृकत्वनिर्वाहाय आह– उद्बुद्धस्येति शेष इति ।। ‘उद्बोधितस्य’ इत्यपि क्वचित् पाठः । उक्तम् ‘तत्कृतौ’ इति यथाश्रुतभाष्ये । समानकर्तृकत्वसम्भवेऽपि उक्त्वा समाहितस्य कर्मानुष्ठानमेव न सम्भवतीत्यन्यथाऽनुपपत्त्याऽध्याहारः कृतः । एवं तर्हि असम्प्रज्ञातसमाधि-स्थस्यार्थो नास्तीति पक्षे । इत्युक्तविरोध इति ।। ज्ञानिकृतश्रवणध्यानादेः फलमस्तीति ‘तस्यैव महत्सुखत्वात् तेषाम्’ (गी.भा.२.५२) इति द्वितीयाध्यायभाष्योक्तविरोधः । अत्र फलाभाव-कथनादित्यर्थः । ‘आत्मरत्यधिकः’ इत्यस्य समासत्वेन आत्मरतिशब्दस्य समपदेनान्वयायोगात् तत्र प्रतियोग्याकाङ्क्षायामाह– समो वाऽऽत्मरत्येति ।। ननु ‘अधिकस्य पूर्वपरित्यागोपयोगि-त्वात्’ इति वक्ष्यमाणरीत्याऽधिकफलनिषेधः समाध्यपरित्यागे हेतुरस्तु । समफलनिषेधस्तु न प्रयोजनवानित्यत आह– समप्रतिषेध इति ।। समप्रयोजनमेव नास्ति । अधिकं तन्नास्तीति किमु वक्तव्यम् ? इति कैमुत्यप्रदर्शनार्थ इत्यर्थः । समफलस्य पूर्वपरित्यागहेतुत्वमेव किं न स्यात् ? इत्यत आह– न त्विति । पूर्वं परित्यज्य तत्समफलं कर्मानुष्ठेयं न तु भवति । पूर्वफलहानेनैतदनुष्ठानेऽपि समव्ययफलत्वात् । तस्य च–
‘व्यसनानि दुरन्तानि समव्ययफलानि च ।
अशक्यानि च वस्तूनि नाऽरभेत विचक्षणः’
इति प्रेक्षावतोऽनुचितत्वात् । ततश्च समफलस्य पूर्वत्यागाप्रयोजकत्वान्न तन्निषेधो युक्त इति भावः । तुशब्दो हिशब्दार्थः । व्ययपदं च दृष्टान्तार्थमिति वा ।
भावदीपिका
।। असम्प्रज्ञातसमाधेरिति ।। तद्वतः पुरुषस्येत्यर्थः ।। करणस्यैवाभावेनेति ।। कर्मकरणप्रसक्तेरेवाभावेनेत्यर्थः ।। तत्प्रयोजनाभावकथनस्येति ।। ‘नैव तस्य कृतेनार्थः’ इति कर्मकरणप्रयोजानाभावकथनस्येत्यर्थः । करणसम्भवेन कर्मकरण-सम्भवेनेत्यर्थः ।। तर्हीति ।। यदि कर्मकरणाकरणयोर्लाभहानी तर्ह्यसम्प्रज्ञातसमाधिर्न कर्तव्या । तत्र कर्मलोपावश्यम्भावादित्याक्षेपस्येत्यर्थः ।। समाहितः असम्प्रज्ञातसमाधिं प्राप्तः । ननु भेरीताडनादावुद्धोधनायोगात् कथमुद्बोधनम् ? इत्यत आह– योगशास्त्रेति ।। ननु ‘उक्त्वाऽर्थो नास्ति’ इत्यत्रोक्तिरूपक्रियायां पुरुषस्य कर्तृत्वात्, ‘नास्ति’ इत्यत्र तु अर्थस्य कर्तृत्वेन समानकर्तृकत्वाभावात् कथम् ‘उक्त्वा’ इति क्त्वाप्रत्ययः? ‘समानकर्तृकयोः पूर्वकाले क्त्वा’ इति स्मरणादित्यत आह– उद्बुद्धस्येति ।। तथा चोद्बोधनरूपक्रिययोक्तिरूपक्रियायाः समानकर्तृ-कतासद्भावाद् युक्तः क्त्वाप्रत्यय इत्यर्थः ।
ननु कर्मादिकृतावर्थो नास्तीति कथम्? ‘तस्यैव महत्सुखत्वात् तेषाम् । तेषामप्युपासनादि-फलस्य साधितत्वाद्’ (गी.भा. २-५२) इत्यादिना द्वितीयाध्याये ज्ञानिकृतश्रवणादेरर्चनादि-कर्मणश्च फलस्योक्तत्वादित्याशङ्क्य परिहरति– एवं तर्हीति ।।
नन्वसम्प्रज्ञातसमाध्यपरित्यागहेतुत्वमधिकफलनिषेधस्यैव । कर्मकरणेनाधिकफलसद्भावे समाधिपरित्यागस्याऽवश्यकत्वात् । न तु समफलनिषेधस्य । समाधिकर्मणोः समफलकत्वे पूर्वप्राप्तसमाधिपरित्यागायोगात्, ततश्च कथं ‘समो वा’ इति तन्निषेधः? इत्यत आह– समप्रतिषेध इति ।। यदा समोऽर्थो नास्ति तदाऽधिको नास्तीति किं वक्तव्यम्? इति कैमुत्यार्थ इत्यर्थः । अत एव वक्ष्यति– ‘आधिक्यस्यैव पूर्वपरित्यागोपयोगित्वात्’ इति । ननु ‘समो वाऽर्थो नास्ति’ इति कैमुत्यार्थमपि समप्रतिषेधः कस्मात् कर्तव्यः? समफललाभेन पूर्वपरित्यागः कस्मान्न स्यात्? इत्यत आह– न त्विति ।। समफलत्वे समाधित्यागेन कर्मकरणे ततः समान-समाधिफलहानेन समव्यवफलत्वप्राप्तेः, अस्त्विति चेन्न । समव्ययफलं तु कर्म न हि लोकैरनुष्ठीयते ।
‘असत्यानि दुरन्तानि समव्ययफलानि च ।
अशक्यानि च वस्तूनि नाऽरभेत विचक्षणः ।।
इति वचनादिति भावः ।। सन्निधानादिति ।। एकस्मिन्नेवार्थे सत्त्वेन शब्दसन्निधानादिति भावः ।।
भावप्रकाशः
प्रतिषेधोपपत्तिरिति चेन्नेति ।। इतः परं ‘यतः’ इत्यध्याहृत्यैव-मुच्यत इत्यनेनान्वयोऽनुसन्धेयः । तेन पञ्चम्यभावादनन्वय इति परास्तम् । ‘भेरीताडनादावपि परमानन्दमग्नत्वात्’ इत्यन्तेन समाधिस्थस्योद्बोधाभावोक्तेः स कथमुद्बोध्यः? इत्यत उक्तम् –योगशास्त्रेति ।। एतादृशावयविशेषस्पर्शे समाधिस्थस्योद्बोधो भवतीत्येवं योगशास्त्रोदितोपायै-रित्यर्थः । व्याचष्ट इति ।। ‘नैव तस्य कृतेनार्थः’ इतिवाक्यमिति शेषः । समानकर्तृकयोः पूर्वकाल इति ।। समानकर्तृकक्रिययोः मध्ये पूर्वकालीनक्रियावाचकात् क्त्वाप्रत्ययविधानात् समानकर्तृकतानिर्वाहार्थमाह– उद्बुद्धस्येति शेष इति ।। एवं तर्हीति ।। ननु ‘तस्यैव’ इत्यादिना श्रवणादेः फलं साधितम् । अत्र त्वसम्प्रज्ञातसमाधिस्थकृतकर्मणः फलं नास्ती-त्युच्यते । तत्कथं विरोधः? इत्थम् । निवृत्तकर्म द्विविधम् । उपासना यज्ञादिश्चेति । यथोक्तं चतुर्थटीकायाम् । ‘निवृत्त एव कर्मणि उपासना यज्ञादिरूपो भेद’ इति । एवं चोपासनाया अपि निवृत्तकर्मत्वात् कर्मकृतावर्थो नास्तीत्युक्ते ‘तस्यैव’ इत्यनेन विरोध इति । नन्वधिकस्यैव पूर्वपरित्यागोपयोगित्वादिति वक्ष्यमाणरीत्याऽधिकफलनिषेधः समाध्यपरित्यागे हेतुरस्तु ,समफलनिषेधस्तु व्यर्थ इत्यत आह– समप्रतिषेध इति ।। हेतुरेव किं न स्यादित्यत आह– न त्विति ।। पूर्वं परित्यज्य तत्समफलं कर्मानुष्ठेयमेव न भवति । पूर्वफलहानेन समव्ययफलहानेन समव्ययफलत्वात् । तस्य च–
‘विफलानि दुरन्तानि समव्ययफलानि च ।
अशक्यानि च वस्तूनि नारभेत विचक्षणः’
इत्यनारम्भोक्तेः । ततश्च समफलस्य पूर्वत्यागेऽप्रयोजकत्वात् तन्निषेधोऽत्र पूर्वापरित्यागे हेतुरिति भावः ।