कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ।। ६ ।।

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।

इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ।। ६ ।।

गीताक्षरार्थः– ननु यद्यपि शरीरयात्राद्यर्थानि कर्माणि त्यक्तुमशक्यानि, तथाऽपि शक्य-त्वाद् यज्ञादिकर्मणां त्यागः कार्यः । तथा च तद्व्यतिरिक्तकर्मार्थः स्मृतौ कर्मशब्दो भविष्यतीत्याशङ्कायां मन एव सविशेषणं बन्धमोक्षयोः प्रयोजकम् । न कर्मकरणाकरणे । अतस्तन्निग्रह एव कार्यो न कर्मत्याग इति ज्ञापयितुं अनिगृहीतमनसो बन्धहेतुत्वम्, तदभावे तदभावः । तस्यैव निगृहीतत्वे मोक्षहेतुत्वम् । तदभावे तदभाव इत्यन्वयव्यतिरेकावुच्येते– कर्मेन्द्रियाणीति द्वाभ्याम् । कर्मेन्द्रियाणि वाक्पाणिपादपायुउपस्थानि । उपलक्षणम् । ज्ञानेन्द्रियाणि च संयम्य स्वविषयेभ्यः समाहृत्य इन्द्रियार्थान् रूपादीन् मनसा संस्मरन् य आस्ते स विमूढात्मा विमूढान्तःकरणः मिथ्याचारः डाम्भिक उच्यते । मनस एव प्रधानतया तन्निग्रहाभावे कृतोऽपीतरेन्द्रियनिग्रहो न पुरुषार्थोपयोगीति भावः ।। ६ ।।